||माण्डूक्योपनिषत् दीपिकाख्यव्याख्यासहिता ||
हरिः ॐ |
अथ माण्डूक्योपनिषत् |
श्रीशङ्करानन्दभगवत्कृतदीपिकाख्यव्याख्यासहिता |
--------------------------------
हरिः ॐ | ॐइत्येतदक्षरमिदँ सर्वं तस्योपव्याख्यानं भूतं
भवद्भविष्यदिति सर्वमोंकार एव | यच्चान्यत्त्रिकालातीतं
तदप्योङ्कार एव ||१||
माण्डूक्योपनिषद्व्याख्यां करिष्ये पदचारिणीम् |
ॐमात्माभेदसम्बोधादानन्दात्मप्रकाशिनीम् ||१||
--------------------------------
नामनामिनोर्लोके भेदस्याप्रसिद्धत्वाद्वस्तुतश्चोङ्कारस्य
ब्रह्मविवर्तत्वाद्विवर्तानां च विवर्ताधिष्ठानेन भेदशून्यत्वादत
ॐकारं ब्रह्मनामधेयं ब्रह्मदृष्ट्याऽऽह ||ॐ ||अवति
ब्रह्मबुद्ध्या दृष्टो द्रष्टॄनित्योम् ||इति, ॐङ्कारानुकरणार्थः ||
एतत् ||उक्तमोङ्काररूपं जगत्पर्णस्य शङ्कुस्थानीयं ब्रह्मणा
तादात्म्यं प्राप्तं ब्रह्मणो विकारो नामधेयं च ||अक्षरम् ,
वर्णात्मकम् ||इदं विविधप्रत्ययगम्यं चेतनाचेतनात्मकं जगत्
सर्वं निखिलं तस्य सर्वात्मकस्योंकारस्योपव्याख्यानमुप सामीप्येन
विस्पष्टमासमन्तात्कथनमुक्तार्थविवरणमित्यर्थः ||भूतमतीतं
भवद्वर्तमानं भविष्यदनागतमित्यनेन प्रकारेण सर्वं
निखिलमोंकार एव प्रणव एव, न त्वन्यत् ||यच्च यदपि प्रसिद्धं
सदसदात्मकमन्यदुक्ताद्व्यतिरिक्तं त्रिकालातीतमुक्तकालत्रयासंसृष्टं
तदप्युक्तं ब्रह्म नरविषाणादिकमपि | अपिशब्दः पूर्वेण समुच्चयमाह ||
ॐङ्कार एव ||व्याख्यातम् ||१||
--------------------------------
सर्वँ ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ||२||
जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग
एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ||३||
--------------------------------
ॐङ्कारस्य ब्रह्मणो नामधेयत्वादिसंव्याप्तिरित्यभिप्रायेणा
आह ||सर्वं निखिलं हि निश्चितमेतत्प्रपञ्चजातं ब्रह्म
सत्यज्ञानादिलक्षणं बृहत् | जडस्यैव ब्रह्मात्मत्वमुक्तं,
न चेतनस्येतिशङ्कानिराकरणार्थमाह ||अयमनुभूयमान
आत्माऽस्मत्प्रत्ययालम्बनश्चेतनस्त्वंपदार्थः | ब्रह्मोक्तं तत्पदार्थः |
स कार्यकारणभावमन्तरेण ब्रह्मणा तादात्म्यं प्राप्तोऽयमात्मा
व्याख्यातम् | चतुष्पाच्चत्वारः पादा यस्य स चतुष्पात् ||२||
गौरिव किं चतुष्पादित्याशङ्क्य नेत्याह ||जागरितस्थानो जागरितं
स्थानं यस्य सः जागरितस्थानः | बहिःप्रज्ञो बहीरूपादौ
चक्षुरादिग्राह्ये प्रज्ञा यस्य स बहिःप्रज्ञः ||सप्ताङ्गः
सप्तसंख्याकानि द्युसूर्यवाय्वाकाशरयिपृथिव्याहवनीयाख्यानि
मूर्धचक्षुःप्राणशरीरान्तर्भागमूत्राशयपादास्यान्यङ्गानि
यस्य स सप्ताऽङ्गः ||एकोनविंशतिमुखः,
पञ्चज्ञानकर्मेन्द्रियप्राणान्तःकरणचतुष्टयरूपाणि
मुखान्येकोनविंशतिसंख्याकानि यस्य स एकोनविंशतिमुखः ||
स्थूलभुक्, स्थूलं रूपादिकं भुङ्क्त इति स्थूलभुक् ||
वैश्वानरो विश्वेषामयं नरो विश्वे वा नरा यस्य विश्वश्चासौ
नरश्चेति वा विश्वानरः, स एव वैश्वानरः | अथवा विश्वेषां
नरशब्दवाच्यानां चतुर्विधानां स्थूलानां देहानामधिष्ठाताऽयं
वैश्वानरः प्रथमः पादः | आत्मनोऽयं सर्वैः सुकरावगमत्वात्
प्रथमोंऽशः ||३||
--------------------------------
स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः
प्रविविक्तभुक् तैजसो द्वितीयः पादः ||४||
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन
स्वप्नं पश्यति तत्सुषुप्तम् | सुषुप्तस्थान एकीभूतः
प्रज्ञानघन एवऽऽनन्दमयो ह्यानन्दभुक् चेतोमुखः
प्राज्ञस्तृतीयः पादः ||५||
--------------------------------
इदानीं द्वितीयं पादमाह ||स्वप्नस्थानः स्वप्नं जागरितवासनाजन्यं
स्थानं यस्य स स्वप्नस्थानः ||अन्तःप्रज्ञोऽन्तर्मानसवासनाविलासे
प्रज्ञा बुद्धिर्यस्य सोऽन्तःप्रज्ञः ||सप्ताङ्ग एकोनविंशतिमुखः ||
व्याख्यातम् | प्रविविक्तभुक्प्रविविक्तं सूक्ष्मं भुङ्क्त इति
प्रविविक्तभुक् | तैजसस्तेजोऽन्तःकरणं कर्तृकरणकार्यादिभावेन
परिणतं तदेव स्थूलशरीरादिहीनं यस्य सः तैजसः | अन्तःकरणस्य
स्वामीत्यर्थः | जागरितानन्तरभावित्वात् ||द्वितीयः पादः ||स्पष्टम् ||४||
इदानीं तृतीयं पादं वक्तुमाह ||यत्र यस्मिन् काले सुप्त
उपरतेन्द्रियग्रामो, न कञ्चन कामं कामयते कमपि
पुण्यपापहेतुभूतं पुत्रक्षेत्रादिकं नाभिलषति ||न
कञ्चन स्वप्नं पश्यति कमपि शुभमशुभं वासनाविलासं
नावलोकयति ||तत् कामाकामनस्वप्नानवलोकनरूपं सुषुप्तं
गाढनिद्राप्राप्तिस्थानम् ||सुषुप्तस्थानः ||सुषुप्तं
स्वयं श्रुत्या व्याख्यातं स्थानं यस्य स सुषुप्तस्थानः ||एकीभूतः
सर्वजगद्बीजभूतस्याऽऽवरणात्मकस्याज्ञानस्यानुपरमा- दनेकोऽप्यन्तःकरणविक्षेपोपरमादेकतां
गतः, प्रज्ञानघन एव प्रज्ञानमात्मनो रूपं ब्रह्मणा भेदरहितं
स्वयंप्रकाशं तस्य घनः पिण्ड इव स एव न त्वन्तःकरणादिबाह्यं
च | न च निरानन्द इत्याह ||
आनन्दमयो, विक्षेपाणामुपरमादावरणस्यानुवृत्तेश्च
स्वरूपानन्दप्रचुरो, हि यस्मात्तस्मादानन्दभुगानन्दो
विक्षेपाभावोपलक्षित आत्मा तमेव
भुङ्क्तेऽज्ञावृत्तिभिरवगच्छतीत्यानन्दभुक् ||चेतोमुख,
चेत आत्मस्वरूपबोधः स एवाऽऽवरणशक्तिसहितो मुखं यस्य
स चेतोमुखः ||प्राज्ञः प्रकृष्टे स्वयंप्रकाश आनन्दात्मनि
साज्ञाने ज्ञप्तिरज्ञानावृत्तिरूपो बोधो यस्य स प्रज्ञः प्रज्ञ एव
प्राज्ञः ||उक्तावस्थाद्वयाभावेनाऽवगम्यमानत्वात् | तृतीयः पादः |
स्पष्टम् ||५||
--------------------------------
एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्यामेष योनिः सर्वस्य
प्रभवाप्ययौ हि भूतानाम् ||६||
नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न
प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् |
अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं
प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स
आत्मा स विज्ञेयः ||७||
सोऽयमात्माऽध्यक्षरमोंकारोऽधिमात्रं पादा मात्रा
मात्राश्च पादा अकार उकारो मकार इति ||८||
--------------------------------
इदानीं प्राज्ञं प्रस्तौति सर्वकारणत्वात्तस्य ||एष उक्तः प्राज्ञः
सर्वेश्वरः सर्वनियात्मकः ||एष प्राज्ञः सर्वज्ञः सर्वश्चासौ
ज्ञश्चेति सर्वकार्यात्मकत्वादज्ञानस्य वा जानातीति सर्वज्ञः ||
एष प्राज्ञोऽन्तर्यामी अन्तर्यमयिता एष प्राज्ञो, योनिः कारणं,
सर्वस्य निखिलस्य चेतनाचेतनात्मकस्य जगतः ||योनित्वे हेतुमाह
||प्रभवाप्ययावुत्पत्तिविनाशौ हि यस्माद्भूतानां चेतनाचेतनरूपाणामितो
भवत इति शेषः ||६||
इदानीं तुरीयं पादमाह ||नान्तःप्रज्ञं, न
मानसवासनाविलासदर्शनलालसं, न बहिःप्रज्ञं
नेन्द्रियैर्विषयावलोकनपरं, नोभयतःप्रज्ञं
जागरणस्वप्नान्तरालावस्थावबोधशून्यं, न प्रज्ञानघनं न
ज्ञानमात्रबोधं, न प्रज्ञं निर्विकल्पबोधशून्यं, नाप्रज्ञं न
बोधाभावरूपम् ||अदृष्टं प्रत्यक्षादिप्रमाणैरनवलोकितम् ||
अव्यवहार्यं वचनादानादिव्यवहारगन्धरहितम् ||अग्राह्यं
सर्वप्रकारग्रहणायोग्यम् ||अलक्षणं गन्धवत्त्वादिबोधशून्यम् ||
अचिन्त्यम् अन्तःकरणवृत्त्यविषयभूतम् ||
अव्यपदेश्यं पृथिवीत्यादिव्यपदेशवद् व्यपदेशायोग्यम् ||
एकात्मप्रत्ययसारं सर्वाद्वैतप्रत्ययः सारभूतोऽवगतिहेतुत्वेन
यस्मिंस्तदेकात्मप्रत्ययसारं, वाङ्मनसातीतमप्यात्मबोधेनावगन्तुं
शक्यमित्यर्थः ||प्रपञ्चोपशमं प्रपञ्चस्य
कार्यकारणात्मकस्योपशमोऽभावो यस्मिंस्तत्प्रपञ्चोपशमम् | शान्तं
स्पष्टम् ||शिवं स्वयंप्रकाशमानन्दाऽऽत्मस्वरूपत्वान्मङ्गलम् ||
अद्वैतम् आनन्दात्मव्यतिरिक्तशून्यं,
चतुर्थं तुरीयं पादं मन्यन्ते संख्याशून्यमपि
पूर्वापेक्षयाऽवगच्छन्ति ||स वस्तुतस्त्वतुरीयरूपोऽप्यविद्यया
चतुष्पादात्माऽऽनन्दात्माऽस्मत्प्रत्ययव्यवहारयोग्यः, स
तुरीयरूपोऽपगतसमस्तविशेषो विज्ञेयो विशेषेण साक्षात्कर्तव्यः ||७||
इदानीमात्मोङ्कारयोरभेदं कण्ठत आह | सोऽयमात्मा ||व्याख्यातम् ||
अध्यक्षरम् अक्षराण्यकारोकारम् अकारार्धमात्राख्यानि
स्वपादसंमितान्यधिकृत्य वर्तत इत्यध्यक्षरम् ||
ॐकार ॐकारस्वरूप ॐकारस्याऽऽत्मस्वरूपत्वे साम्यम् ||अधिमात्रम्
अकाराद्याश्चतस्रो मात्रा विश्वादिपादसमसंख्याका अधिकृत्य अधिमात्रम् |
आत्मोंकारयोरभेदे कारणमाह ||पादा विश्वतैजसप्राज्ञतुरीयाख्या,
मात्रा अकारोकारमकारार्धमात्राः | तादात्म्यं दृढीकर्तुमुक्तं
विपर्ययेण निर्दिशति ||मात्राश्च पादाः | चकार एवकाराऽर्थः |
नायं विपर्ययनिर्देशस्त्वमहमितिवदुपचारार्थः,
किन्तु घटः कलशः कलशो घट इतिवन्निरूपचरितं
मात्राणां पादानां च तादात्म्यमित्येवकारार्थः |
व्याख्यातमन्यत् | अर्धमात्रायास्तुरीयपादरूपत्वात्तुरीयस्य च
पूर्वपादत्रयादत्यन्तवैलक्षण्यादतोऽर्धमात्रां परित्यज्य शेषमात्रा
आह ||अकार उकारो मकारः ||स्पष्टम् ||इति मात्रात्रयनिर्देशार्थः ||८||
--------------------------------
जागरितस्थानो वैश्वानरोऽकारः प्रथमा
मात्राऽऽप्तेरादिमत्त्वाद्वाऽऽनोति ह वै सर्वान्
कामानादिश्च भवति य एवं वेद||९||
--------------------------------
इदानीं विभागेन मात्राणां पादरूपतामाह ||जागरितस्थानो
वैश्वानरोऽकारः, प्रथमा मात्रा पूर्वा मात्रा ||व्याख्यातमन्यत् |
अकारस्य पूर्वमात्रत्व उपपत्तिमाह ||आप्तेर्व्याप्तेः | अकारो हि
जागरितस्थानादिकं सर्वमाप्नोति ||
प्रकारान्तरेण पुनर्निरुक्तिमाह ||आदिमत्त्वाद्वा ||अ आ इ
इत्येवमादिरादिः | स यस्मिन्नस्ति सोऽयमादिमांस्तस्य भाव
आदिमत्त्वमादिसामान्यवत्त्वमित्यर्थः | प्रथमपादोऽपि यथा
पादानामादिरत एव तत्सामान्यवानाप्नोति चेतरत्पादजातं
पूर्वभावित्वात् | वाशब्दः पक्षान्तरार्थः |
विश्वाकारयोरैक्यमाप्तेर्वाऽऽदिमत्त्वाद्वेत्यर्थः | इदानीं
विश्वाकारयोराप्त्याऽऽदिमत्त्वज्ञानात्फलमाह ||आप्नोति प्राप्नोति
हि प्रसिद्धान् वै स्मर्यमाणान् सर्वान् निखिलान् कामान् काम्यमानान्
पुत्रक्षेत्रादीन् | आप्तेः फलमुक्त्वाऽऽदिमत्त्वस्य फलमाह ||
आदिश्च स्वानां मध्ये सर्वेषु कार्येषु प्रथमगण्यः | चकारादपि
प्रथमं फलं भवति | स्पष्टम् ||यस्य फलं तमाह ||यः
पादमात्रातादात्म्यज्ञ, एवमुक्तेन प्रकारेणोक्तयोः पादमात्रयोः सामान्यं
वेद जानाति स आप्नोतीत्यन्वयः ||९||
--------------------------------
स्वप्नस्थानतैजस उकारो द्वितीया
मात्रोत्कर्षादुभयत्वाद्वोत्कर्षति ह वै ज्ञानसन्ततिं
समानश्च भवति
नास्याब्रह्मवित् कुले भवति य एवं वेद ||१०||
सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा
मिनोति ह वा इदँ सर्वमपीतिश्च भवति
य एवं वेद ||११||
--------------------------------
स्वप्नस्थानस्तैजस उकारो द्वितीयामात्रा |
स्पष्टम् ||तैजसोकारयोस्तादात्म्ये हेतुमाह ||
उत्कर्षादूर्ध्वभावित्वेनोत्कृष्टत्वात् | पुनरन्यत् सामान्यमाह ||
उभयत्वाद्वा ||विश्वाकाराभ्यां तैजसोकारयोर्द्वितीयत्वात् ||
वाशब्दः पूर्ववत् | इदानीमुक्तज्ञानस्य फलमाह ||उत्कर्षति ह
वै ज्ञानसंततिं शिष्यप्रशिष्यादिज्ञानसंतत्योत्कृष्टो भवति |
व्याख्यातमन्यत् | उभयत्वज्ञानस्य फलमाह ||समानश्च
भवति, यो हि स्वावस्थानदेशेकालेवोत्कृष्टस्तत्समानः |
चकारात्तस्मादुत्कृष्टोऽपि भवति | इदानीमुभयज्ञानस्य साधारणं
फलमाह ||नास्याब्रह्मवित्कुले भवति ||अस्योत्कर्षोभयत्वज्ञानवतः
कुलेऽन्वये शिष्यप्रशिष्यादिरूपेऽहं ब्रह्मास्मीत्येतज्ज्ञानशून्यो न
भवति ||य एवं वेद ||व्याख्यातम् ||१०||
सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा, स्पष्टम् |
प्राज्ञमकारयोस्तादात्म्ये हेतुमाह ||मितेर्मिनोति
हि प्राज्ञः सर्वमात्मनि तादात्म्येन मकारोऽप्यकारोकारौ
प्रक्षिपत्येवमात्मस्वरूपेऽन्यथोंकारस्यानिष्पत्तेः | अपीतेर्वा मकारो
ह्योंकारे वर्तमानः स्पष्टं नोपलभ्यते | ततः प्रलयः प्राज्ञश्च
प्रलयः प्रसिद्धः | प्रलयसामान्यात् | वाशब्दः पूर्ववत् ||
इदानीं मितिज्ञानस्य फलमाह ||मिनोति ह वा इदं सर्वम् ||
इदम् विविधप्रत्ययगम्यं जगन्निखिलं प्रस्थमिव यावत्,
मिनोति सर्वात्मभावेन स्वात्मनि प्रक्षिपति | अपीतिज्ञानस्य फलमाह ||
अपीतिश्च भवति, सर्वाधिक्येन प्रलयः सर्वस्य ||चकारात् स्वयं
प्रलयशून्यश्च भवति ||य एवं वेद, व्याख्यातम् ||११||
--------------------------------
अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत
एवमोंकार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं
वेद ||१२||
इति माण्डूक्योपनिषत् ||
--------------------------------
अर्धमात्राया अवयवस्योंकारस्याऽववयविनश्चाभेदमुररीकृत्य
चतुर्थपादरूपनिरञ्जनात्मस्वरूपतामोंकारस्याऽऽह ||
अमात्रोऽकारादिमात्राशून्यश्चतुर्थोऽव्यवहार्यः
प्रपञ्चोपशमः शिवोऽद्वैतः, स्पष्टम् ||
एवमुक्तेन मात्रातादात्म्येनोंकार आत्मैव ||
स्पष्टम् | संविशति सम्यक्प्रवेशं
करोत्यात्मनोंकारेणाऽऽत्मानमानन्दात्मस्वरूपं य
ॐङ्कारात्मज्ञ एवमुक्तेन प्रकारेणोंकारात्मनोस्तादात्म्यं वेद जानाति
तस्योक्तोंङ्काररूपानन्दात्मप्राप्तिफलमर्थसिद्धं | ततः श्रुत्या
नोक्तम् | अथ वा संविशत्यात्मनाऽऽत्मानमितीदं फलवाक्यमस्तु ||१२||
इति श्रीमत्परमहंसपरिव्राजकाचार्यानन्दात्मपूज्यपादशिष्यस्य
श्रीशंकरानन्दभगवतः कृतौ माण्डूक्योपनिषद्दीपिका समाप्ता ||
Encoded by Br. Pranipata Chaitanya pranipatachaitanya [@] yahoo.co.in
Proofread by Sunder Hattangadi sunderh at hotmail.com
%@@1
% File name : mAnDukyashankarAnandi.itx
%--------------------------------------------
% Text title : mANDUkyopaniShaddIpikA
% Author : sha~NkarAnandabhagavat
% Language : Sanskrit
% Subject : philosophy/hinduism/religion/vedanta
% Description/comments :
% Transliterated by : Br. Pranipata Chaitanya pranipatachaitanya [@] yahoo.co.in
% Proofread by : Sunderh Hattangadi sunderh@hotmail.com
% Latest update : November 19, 2011
% Send corrections to : sanskrit@cheerful.com
%
% Special Instructions:
% i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty
% Transliteration scheme: ITRANS 5.2
% Site access :
% http://sanskritdocuments.org
% http://sanskrit.gde.to/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's'
% agreement.
% @@2
%
% Commands upto engtitle are
% needed for devanaagarii output and formatting.
%--------------------------------------------------------
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Some help is available at Notes
on Viewing and Creating Devanagari Documents with Unicode Support.
Some of the Unicode fonts for Devanagari are linked at http://devanaagarii.net and for
Sanskrit Transliteration/Diacritics are available at IndUni
Fonts.
Questions, comments? Write to sanskrit@cheerful.com .