ब्रह्मादिभिः कृतं शिवस्तोत्रम्
ब्रह्मादिदेवा ऊचुः -
महादेवं शिवं स्थाणुमुग्रं रुद्रं वृषध्वजम् ।
श्मशानवासिनं भर्गं सर्वान्तकरणं परम् ॥ ५५॥
त्वां नमामो वयं भक्त्या शङ्करं नीललोहितम् ।
गिरीशं वरदं देवं भूतभावनमव्ययम् ॥ ५६॥
अनादिमध्यसंसारयोगविद्याय शम्भवे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ५७॥
जटिलाय गिरिशाय विद्याशक्तिधराय ते ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ५८॥
ज्ञानामृतान्तसम्पूर्णशुद्धदेहान्तराय च ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ५९॥
आदिमध्यान्तभूताय स्वभावानलदीप्तये ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ६०॥
प्रलयाणवसंस्थाय प्रलयस्थितिहेतवे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ६१॥
यः परेभ्यः परस्तस्मात् पराय परमात्मने ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ६२॥
ज्वालामालावृताङ्गाय नमस्ते विश्वरूपिणे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ६३॥
ॐ नमः परमार्थाय ज्ञानदीपाय वेधसे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ६४॥
नमो दाक्षायणीकान्त मृड शर्व महेश्वर ।
नमस्ते सर्वभूतेश प्रसीद भगवञ्छिव ॥ ६५॥
सशोके त्वयि लोकेशे चेष्टमाने महेश्वर ।
सुराः समाकुलाः सर्वे तस्माच्छोकं परित्यज ॥ ६६॥
नमो नमस्ते भूतेश सर्वकारणकारण ।
प्रसीद रक्ष नः सर्वांस्त्यज शोकं नमोऽस्तुते ॥ ६७॥
इति कालिकापुराणे एकोनविंशाध्यायान्तर्गतं
मार्कण्डेयप्रोक्तं शिवस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran