श्रीगुरूनारायणस्तोत्रम्
(भुजङ्गप्रयातवृत्तम्)
तपस्वी प्रभुः पूर्णवैराग्यदीप्तो
निजानन्दसन्दोहतृप्तो वरेण्यः ।
चिदानन्दरूपेण राराजते यो
त्री लोकीगुरूं नौमि नारायणं तम् ॥ १॥
भवाब्धौ निमग्नान्विमूढांश्च दीनान्
चिदानन्दशुद्धाद्वयं ब्रह्म सौख्यम् । ।
प्रबोधाय भूमापि योत्रावतीर्णः
त्री लोकीगुरूं नौमि नारायणं तम् ॥ २॥
सृजानोरूतश्चोर्वशीनां समूहं
बभूवात्र यः शक्तिगर्वापहारी ।
महादृप्तकन्दर्पदर्पापहर्ता
त्री लोकीगुरूं नौमि नारायणं तम् ॥ ३॥
स्वलक्ष्मीं त्यजन् दीनरक्षा कथं स्यात्
न भूयस्वशङ्कावृतो भक्तवृन्दः ।
तदर्थं य अस्ते कुबेरं गृहीत्वा
त्री लोकीगुरूं नौमि नारायणं तम् ॥ ४॥
निजेऽस्मिन्नमामेति सन्दर्शनाय
न लक्ष्म्यायुतो योत्र भक्तार्तिहन्ता ।
स्वरूपं विशन्तं परम्ब्रह्म शान्तं
त्री लोकीगुरूं नौमि नारायणं तम् ॥ ५॥
गुरूनारायणस्तोत्रं यः पठेद्गक्तिसंयुतः ।
कामजित्सोत्र मुक्तश्च नारायणकृपावशात् ॥ ६॥
॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरू भगवान
श्रीधरस्वामीमहाराजविरचितं श्रीगुरूनारायणस्तोत्रं सम्पूर्णम् ॥
रचनास्थळः काॅफी उद्यान, चिक्कमगळूरु
रचनाकाळः मार्गशीर्ष शुध्द १५, पौर्णिमा, संवत्सर १९४३