चिन्ताखण्डनस्तोत्रम्
यया ते धर्मकामौ च यया ते व्यर्थमाजनि ।
किं तया चिन्तया जीव हन्ताहन्ताऽफला तव ॥ १॥
सुखमीशेच्छया नॄणां दुःखं चापि तदिच्छया ।
न स्वेच्छया भवेत्किञ्चिद्धन्ताहन्ता फला तव ॥ २॥
अदतो मदतोऽन्धस्य जिह्वां बह्वाशिनो नर ।
सन्तः खादन्ति दन्तास्ते हन्ताहन्ताऽफला तव ॥ ३॥
महत्वे ते यदाऽऽकाङ्क्षा महत्वेव भयं तदा ।
जीव किं जीवनार्थेऽतश्चिन्तया चिन्तयाऽच्युतम् ॥ ४॥
महापद्यागतायां हि महापद्यार्थिनोऽधुना ।
हरिणा स्वैरिणा त्राताः किं न खिन्नकृपालुना ॥ ५॥
ममता येषु ते नित्यममतास्तेऽत एव हि ।
अहन्ता यत्र ते जीव न हन्ता तस्य किं यमः ॥ ६॥
न स्वेषां स्वेच्छयाऽकार्षीत्कष्टं वाऽत्यक्रमीदिह ।
नरो वाऽप्यथवा नारी सुरो वाऽप्यसुरोऽपि वा ॥ ७॥
स्वेष्टानाप्त्या रोदनेन ``रुद्रो अरुदद्'' इति श्रुतिः ।
नर्ते त्वत्क्रियते किञ्चिदित्याहान्याच्युतं प्रभुम् ॥ ८॥
पार्थान्पार्थसतीमार्तां हरं भस्मासुरार्दितम् ।
विरोचनस्य पितरं कः कष्टात्प्राग्व्यमोचयत् ॥ ९॥
शत्रवो यान्ति मित्रत्वं मितेऽमित्रे सतां हरौ ।
मित्राण्येव च शत्रुत्वं शत्रौ शत्रौ सुरद्विषाम् ॥ १०॥
पितुर्वधे पुत्र एव कारणं प्रागभूदिति ।
किं न श्रुतं सर्पवैरी सर्पस्यैवाभयङ्करः ॥ ११॥
दुःखास्पृष्टो हरिस्त्वेको दुःखस्पृष्टास्ततोऽपरे ।
अतो न भीतो दुःखेभ्यो भवानुभवधीरधीः ॥ १२॥
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
इति यन्नियमस्तस्मान्नियमे नियमं कुरु ॥ १३॥
अतो दुरन्तया स्वान्तचिन्तया किं चिदन्तया ।
हयाननं दयासिन्धुं स्मर स्मरदभीष्टदम् ॥ १४॥
आचतुर्दशमाद्वर्षाद्या चिन्ता हृदि देहिनाम् ।
वादिराजो यतिस्तस्याः खण्डनायेदमभ्यधात् ॥ १५॥
इति श्रीमद्वादिराजपूज्यचरणविरचितं
चिन्ताखण्डनस्तोत्रं सम्पूर्णम् ।
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।
Proofread by Meenakshi Premanand