आशुगरुडकवचम्

आशुगरुडकवचम्

श्रीदेव्युवाच - देव देव महादेव सर्वज्ञ करुणानिधे । पाहि मां कृपया शम्भो परमानन्दशङ्कर ॥ १॥ यत्तु गुह्यं शुभतरं सर्व-रक्षा-करं परम् । गरुत्मान्येन मन्त्रेण सन्तुष्यति हि तद्वद ॥ २॥ श्रीदेवी ने कहा कि देव देव महादेव! सर्वज्ञ करुणानिधे शम्भु! परमानन्द शङ्कर! मेरा त्राण कीजिये । कृपा कीजिये । यह बतलाईये जो गरुड को सन्तोषप्रद, गुह्य, शुभद, परम रक्षाकर मन्त्र हो । श्रीशिव उवाच - साधु देवि महाप्राज्ञे ज्ञानं वक्ष्यामि शङ्करि । आशुतार्क्ष्यस्य कवचं महामन्त्रं वदाम्यहम् ॥ ३॥ भोग-मोक्ष-दम-ज्ञान-तिमिरान्धस्य तौलिकम् । भुक्ति मुक्ति प्रदं श्रेष्ठं सिद्धिदं सर्वसिद्धिदम् ॥ ४॥ ऋषि-न्यास-प्रभावाश्च शङ्करादिति मन्त्रवित् । समाहितेन मनसा जपेन्मन्त्रोत्तमोत्तमम् ॥ ५॥ महाप्रज्ञे देवी तुमको साधुवाद देता हूँ । अब कल्याणकारी ज्ञान को कहता हूँ । जो आशुगरुड का महामन्त्र है । यह अज्ञानियों को भोग, मोक्ष, दम, ज्ञान देने वाला है । यह भोग, मोक्षप्रद उत्तम सिद्धिप्रदायक और सभी सिद्धियों को देने वाला है । ऋषि न्यास प्रभाव मन्त्रविदजानकर एकाग्र मन से उत्तमोत्तम मन्त्र का जप करे । अथ कवचम् । तार्क्ष्यो मे पुरतः पातु गरुडः पातु पृष्ठतः । सोमः पातु च मे वामं वैनतेयस्तु दक्षिणम् ॥ ६॥ शिखायां गरुडः पातु निटिलं त्वहिसन्धरः । नासिकाग्रं विभुः पातु नयने विनतासुतः ॥ ७॥ तेजिष्ठः श्रोत्रयोः पातु मुखं सन्तापमोचनः ॥ ओष्ठयोः पातु नागारिः पातु तालू प्रजाकरः ॥ ८॥ जिह्वां खगेश्वरः पातु दन्तान्पात्वरुणानुजः । सीरुकश्चिबुकं पातु पातु चोग्रः कपोलयोः ॥ ९॥ महारिहा गलं पातु चांसयोः कृतविक्रमः । करौ पातु च रक्ताक्षः कराग्रे तु महाबलः ॥ १०॥ अङ्गुष्ठौ च हरिः पातु तर्जन्यौ हरिवाहनः । मध्यमे सुमुखः पातु चानामिके त्रिलोचनः ॥ ११॥ कनिष्ठिके महोत्साहः स्वात्माङ्गः पातु दोः स्तनम् । करपृष्ठं कलातीतो नखान्यमृत-सन्धरः ॥ १२॥ हृदयं पातु सर्वज्ञः कक्षे पक्षिविराट् ततः । उरःस्थलं कलाधारः पातु मे जठरं परम् ॥ १३॥ परात्परः कटिं पातु पातु नाभिं हरिप्रियः । गुह्यं पातु मनोवेगः जघनं खगपद्मजः ॥ १४॥ जितेन्द्रियो गुदं पातु मेढ्रं सन्तानवर्धनः । ऊरू पशुपतिः पातु जानुनी भक्तवत्सलः ॥ १५॥ जङ्घे पातु वषट्कारः सर्वलोकवशङ्करः । गुल्फौ नीलशिरः पातु पादपृष्ठं मुरारिधृक् ॥ १६॥ धीरः पादतलं पातु चाङ्गुलीः परमन्त्रतुत् । रोमकूपाणि मे पातु मन्त्र-बन्धिविमोचकः ॥ १७॥ स्वाहाकारस्त्वचं पातु रुधिरं वेदपारगः । साक्षिकः पातु मे मांसं मेदांसि पातु यज्ञभुक् ॥ १८॥ सामगः पातु मे चास्थि शुक्रं तु हविवर्धनः । शोभनः पातु मे मज्जां बुद्धिं भक्तवरप्रदः ॥ १९॥ मूलाधारं खगः पातु स्वाधिष्ठानमथात्मवित् । मणिपूरकमत्युग्रः कलधी पात्वनाहतम् ॥ २०॥ विशुद्धिमपरः पातु चाज्ञामाखण्डलप्रियः । द्रुततार्क्ष्यो महाभीमो ब्रह्मरन्ध्रं स पातु मे ॥ २१॥ ऐन्द्रं फणिभुजः पातु आग्नेयं कलिदोषभित् । याम्यं लघुगतिः पातु नैरृतं सुरवैरिजित् ॥ २२॥ पश्चिमं पातु लोकेशो धौतोरुः पातु मारुतम् । गुलिकाशीति कौवेरं पातु चैशान्यमौजसः ॥ २३॥ ऊर्ध्वं पातु सदानन्द-गीत-नृत्यप्रियस्तथा । गरुडः पातु पातालं गरलाशी तनुं तथा ॥ २४॥ धन धान्यादिकं पातु तार्क्ष्यो राक्षस-वैरिधृक् । भीषणः कन्यकाः पातु भार्यामग्निकणेक्षणः ॥ २५॥ त्वरितः पातु चात्मानं धर्म-कर्म-क्रतूत्तमः । पुत्रानायुष्करः पातु वंशं रिपुनिषूदनः ॥ २६॥ सङ्ग्रामे विजयः पातु माग्रं शत्रुविमर्दनः । सिद्धिं पातु महादेवो भगवान्भुजगाशनः ॥ २७॥ सततं पातु मां श्रेष्ठं स्वस्तिदः साधकात्मवान् । जाग्रत्स्वप्नसुषुप्तौ च कुङ्कुमारुणवक्षसः ॥ २८॥ सर्व-सम्पत्प्रदः पातु स्तुतिर्मन्त्रस्य सिद्धिषु । इदं तु तार्क्ष्यकवचं पुरुषार्थप्रदं परम् ॥ २९॥ स्वस्तिदं पुत्रदं सर्वरक्षाकरमनुत्तमम् । युद्धे वह्निभये चैव राज-चोर-समागमे ॥ ३०॥ महाभूतारिसङ्घट्टे निजपेत् कवचं शिवे । स्मरणादेव नश्यन्ति प्रचण्डानलतूलवत् ॥ ३१॥ आशुतार्क्ष्याख्य-कवचं परमं पुण्यवर्धनम् । महागुह्यं महामन्त्रं महामोहन-संज्ञकम् ॥ ३२॥ सर्वदेवमयं मन्त्रं सर्वायुधकरं परम् । सर्वमृत्यु-प्रशमनं सर्वंसौभाग्य-वर्धनम् ॥ ३३॥ पावनं परमायुष्यं पाप-पाश-प्रमोचनम् । मुनीश्वरैश्च यमिभिःर्नाभिजाद्यमरैः परैः ॥ ३४॥ यह गरुड कवच परम पुरुषार्थ प्रदायक है । यह उत्तम मन्त्र स्वस्तिप्रद, पुत्रप्रदायक सभी प्रकार से रक्षाकारक है । यह युद्ध में अग्निभय में राजा, चोर के भय से बचाता है । शिव महाभूत शत्रूसङ्घट्ट में होने पर इस कवच का जाप करे । इसके स्मरण से सभी प्रचण्ड अग्नि में रूईके समान जल जाते हैं । आशुतार्क्ष्य नामक कवच परम पुण्यवर्धन है । यह महामन्त्र महागुह्य और महामोहन है । यह सर्वदेवमय सभीआयुधों का परमकारक है । सभी मृत्युओं का विनाशक और सभी सौभाग्यों का वर्धक है । पवित्र परमायु प्रदायक और पाप-पाश कानाशक है । मुनीश्वरों, देवताओं गुह्यक सुरश्रेष्ठों द्वारा स्तुत्य महा उज्ज्वल है । गुह्यकैश्च सुरश्रेष्ठैः स्तूयमानं महोज्ज्वलम् । त्रिकालं प्रजपेद् ध्यानपूर्वकं कवचं शिवे ॥ ३५॥ सहसा सर्वसिद्धिः स्याद्वाग्विभूतिर्विशेषतः । मुनीनामपि सम्पूज्यः कवचेनावृतः पुमान् ॥ ३६॥ चतुर्दशसु लोकेषु सञ्चरेन्मारवत्तु सः । अनेनैव तु कायेन भूतले बहुसम्पदम् ॥ ३७॥ चिरं प्राप्य तु देहान्ते विष्णुसायुज्यमाप्नुयात् ॥ ३८॥ प्रातः, मध्याह्न और शाम तीनों कालों में जो ध्यान सहित इस कवच को जपता है, उसे अचानक सभी सिद्धियों के साथ विशेष वाणी कावैभव प्राप्त होता है । इस कवच धारी पुरुष को मुनि लोग भी पूजते हैं । चौदहों भुवनों में वह कामदेव के समान विचरण करता है । पृथ्वी पर इसी शरीर से बहुत सम्पदा प्राप्त करता है । इस सम्पदा का भोग बहुत दिनों तक करने के बाद देहान्त होने पर विष्णु का सायुज्य । प्राप्त करता है । शिखि-ऋतु-वसु-कोणं चाष्टपत्रं भुवं च । क्रतु-शत-शशिचाग्निं भास्कर-व्योमकं च ॥ सकलमनिलयुक्तं तद्बिहिः साध्यशक्तिम् । धृत-मृत-सुत-वन्ध्या-पुत्रदं तार्क्ष्यमेतत् ॥ ३९॥ इदं चक्रं महाख्यातं सर्ववक्त्रोक्तमुत्तमम् । महागुह्यं महाभीमं महासिद्धिकरं परम् ॥ ४०॥ शुक्रवासरमारभ्य पूज्य जप्त्वा दिनत्रयम् । अनेन कवचेनैव जपेदष्टोत्तरं शतम् ॥ ४१॥ तज्जलेनाभिषिञ्च्याथ होमं कृत्वा हि रुक्षकैः । निमज्जतां जले देवि बन्धयेत्पुत्रकामिनाम् ॥ ४२॥ ॥ इति श्रीआकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे आशुगारुडकवचं नाम चतुर्दशोऽध्यायः ॥ १४॥ Encoded and proofread by Manali Shirke Rokade
% Text title            : Ashugaruda Kavacham
% File name             : AshugaruDakavacham.itx
% itxtitle              : AshugaruDakavacham (AkAshabhairavakalpAntargatam)
% engtitle              : Ashugaruda Kavacham
% Category              : kavacha, deities_misc, stotra, vishhnu
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Manali Shirke Rokade
% Proofread by          : Manali Shirke Rokade
% Description/comments  : AkAshabhairavakalpe chaturdasho.adhyAyaH
% Indexextra            : (Scan)
% Latest update         : September 25, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org