श्रीसुन्दर्याः अपराधक्षमापणस्तोत्रम्

श्रीसुन्दर्याः अपराधक्षमापणस्तोत्रम्

ॐ न जानामि ध्यानं तव चरणयोः प्रीतिजननं न जानामि न्यासं मननमपि मातर्न गिरिजे । तदेतत् क्षन्तव्यं न खलु पशुरोषः समुचितः कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ १॥ न जाने भक्तिं त्वत्पद-कमलयोः कामपि शिवे न च क्रोधादीनां शमनमपि षण्णां क्वचिदपि । तदेतत् क्षन्तव्यं न खलु पशुरोषः समुचितः कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ २॥ न कौलाचारस्य स्मरणमपि मातर्न गिरिजे न मन्त्राणां जाप्यं शवशयनभूमौ तव निशि । कुपुत्राणामेषा परिहरतु चेष्टामनिमिषं कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ३॥ न तीर्थेषु स्नानं तव चरणयोः प्रीतिजननं न मन्त्राणां ज्ञानं निज-गुरुमुखाच्छैल-तनये । तदेतत् क्षन्तव्यं तदिदमपराध-द्वयमपि कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ४॥ न च प्राणायामं जननि न च मुद्राविरचनं सपर्या-पर्यालोचनमपि न जाने त्रिनयने । विपज्जाले घोरे पतितमपि मामुद्धर शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ५॥ सहस्रारे पद्मे परमशिव-पर्यङ्कनिलया कदापि त्वं ध्याता तुहिनगिरि-कन्ये न च मया । शिवे मत्वा दासं परिहरतु नित्यं निजगुणात् कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ६॥ विधेरज्ञानेन द्रविण-विरहेणालसतया विधेयान् मेऽकृत्वा जननि तव पूजा-च्युतिरभूत् । तदेतत् क्षन्तव्यं न खलु पशुरोषः समुचितः कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ७॥ इति श्रीरुद्रयामले तन्त्रे श्रीसुन्दर्याः अपराध-क्षमापण-स्तोत्रं सम्पूर्णम् ॥ Encoded by Sivakumar Thyagarajan Iyer Proofread by Sivakumar Thyagarajan Iyer, Rajani Arjun Shankar
% Text title            : Sundari Aparadhakshamapana Stotram
% File name             : sundaryaparAdhakShamApaNastotram.itx
% itxtitle              : sundaryAH aparAdhakShamApaNastotram (rudrayAmale tantre, na jAnAmi dhyAnaM, kuputro jAyeta kvachidapi kumAtA na bhavati)
% engtitle              : sundaryaparAdhakShamApaNastotram
% Category              : devii, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan Iyer
% Proofread by          : Sivakumar Thyagarajan Iyer, Rajani Arjun Shankar
% Description-comments  : Rudrayamala
% Indexextra            : (Manuscript, Similar 1, 2)
% Latest update         : Augst 14, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org