पाण्डुरङ्गस्तोत्रम् ३
(तृतीयम्)
(द्रुतविलम्बितवृत्तं)
व्रजपते ! । जपतेऽस्यभयप्रदः सुरसदो(१) रसदो महिमा तव ।
अधनगे (२)घनगेयरुचेऽशनिस्त्वमव माऽभव मामकरोर्वराम् । (?) ॥ १॥
सततमस्तु मयि प्रणतेऽखिलप्रणतवत्सल ! । भव्य यशोनिधे!
चरणभक्तिरुदार! तव प्रभो! रविवराविवरासन! मुनिधिः ॥ २॥
इह कलावपि जन्तुमजामिलादधिकमच्युत! । नाम यदृच्छया ।
सकृदथाप्यसमप्रमितं नु कं न समलं(३) समलङ्कुरुते भवान् ? ॥ ३॥
रुडपि ते शिवकृद्भगवन् ! । द्विषां प्रणमतां किमु युष्मदनुग्रहः ।
परमदुर्लभमीश! सुनिर्भयं पदमिता दमिता भवता खलाः ॥ ४॥
सपदि सम्प्रति भीमरथीतटे स्थितिमुपेत्य जडा अपि जन्तवः ।
इह कृता निजकीर्त्यमृतेन के न भवता भवतापविवर्जिताः? ॥ ५॥
(४)सितसरोरुहसाहमुनेः पितृव्रतवशाज्ञतमःप्रशमोद्यत ! ।
प्रणतवत्सल ! विठ्ठल ! ते यशः कविशते विशते स्वयमादरात् ॥ ६॥
श्रुतिनुतस्य जने कृपणे कृपा परमते ! । रमतेऽपि सदाशिवः ।
तव यशस्यमले विपुले सुधासरसि को रसिको न निमज्जति ? ॥ ७॥
बत कबीरमुखा यवनाः कृताः शुचितमा निजनामपरास्त्वया ।
भवति पात्रमपि प्रजडः सतां द्युनग! ते न गतेरिह को हरे! ॥ ८॥
वरदराज! । मुकुन्द ! तुकाभिधो वणिगतिप्रथितः स्तवनैस्तव ।
सकलसाधुमनःपरितोषकृत्कविवरो (५)विवरोहितशुद्धवाक् ॥ ९॥
स्वकरुणां वदसि ध्रुवमन्त्यजः स्मरणकृयदि देवि न तं त्यज ।
पतितपावन! नाम च तन्मृताववसरे वस रे ! वदने श्रुतौ ॥ १०॥
श्रुतकथे! । भवतः स्वजनापदामगदयागदया क्रियते न सा ।
पितृशतैः करुणा करुणानिधे! तनुभवेऽनुभवेन सतामिदम् ॥ ११॥
दिश दयार्णव ! । चक्रमनर्थहृत्स्वशरणाङ्गतविघ्नविनाशकृत् ।
त्वयि मनोऽस्तु मम प्रणतोद्धृतावनलसेऽनलसेवितसत्कथे ॥ १२॥
सुपतिसा अतितापसमाकुला अशरणाः शरणागतवत्सल ! ।
तव मुकुन्द ! सकृच्छ्रुतसस्कथाः सुरगुरोरगुरोकसि सस्कृतिम् ॥ १३॥
जडसमुद्धरणं प्रथितं कलौ करुणविठ्ठल ! । तेऽद्य महाप्रभोः!
अनुभवञ्श्रुतवांश्च सदुक्तितो नयमतो यमतोऽपभयोऽखिलः ॥ १४॥
सदयकोटिशताधिककर्मणे नतसमस्तजनाशनिर्वमणे(६)
भगवते ननु तुभ्यमहं करोम्यज! नमो जनमोहहराभिध! ॥ १५॥
उदितहार्दभरैः कृतकीर्तनैस्त्वमिह विठ्ठल भीमरथीतटे ।
लसदभङ्गगुणैस्तव सद्यशः सुरसिकैरसि कैर्न वशीकृतः ॥ १६॥
श्रुतिरहस्यविदः स्वपदं गता अपि भवन्तमुदारगुणं प्रभुम् ।
परमकारुणिकं सुहृदं परं मुनिजना निजनाथमुपासते ॥ १७॥
स्वपरिरम्भसुखातिशयोचितं प्रणतमाशु करोष्यखिलं जनम् ।
अयि! वदान्यगुरो(७)! तव सोऽधिकं हनुमतोऽनुमतोऽप्यलसो जडः ॥ १८॥
तव पुमर्थदपुण्ययशःकथाश्रवणविस्मृतदेह इतस्ततः ।
भवति विठ्ठल कोऽपि जनस्तपोवनमना न मनागपि तीर्थधीः ॥ १९॥
य इह दृष्टभवच्चरणाम्बुजानपदमूनमुमेशवृतास्पदात् ।
खलु लभन्त उदारशिरोमणेस्त्वदयि ते दयितेषदपि श्रियः! ॥ २०॥
निजयशोधिकमातरमादरं प्रकटयन्तमुदारगुणं प्रभुम् ।
स्वजनसद्यशसः श्रवणे सदा कृतमहं तमहं शरणं गतः ॥ २१॥
निजयशोमृतसेवनसक्तया सततसात्विकभावंसमृद्धया ।
भगवता भवता बहवः कृताः स्वसभया समया भृशनिर्भयाः ॥ २२॥
(अनुष्टव्वृत्तं)
प्रियस्तुतेर्भगवतः पाण्डुरङ्गस्य पादयोः ।
मयूरेणार्पिता भक्त्या या स्तुतिः सास्तु तीर्थवाः(८) ॥ ३३॥
इति श्रीरामनन्दनमयूरेश्वरकृतं पाण्डुरङ्गस्तोत्रं सम्पूर्णम् ।
टिप्पणि
१। सुराः सीदन्ति अस्यामिति सुरसत् तस्याः । देवसभाया इत्यर्थः ।
२। धनबद् गेया वा रुचिः कान्तिर्यस्य तत्सम्बुद्धौ । त्वमघनगे पापपर्वते अशनिर्वज्रं तद्वत् पापानि नाशयसीति भावः । हे अभव अज । मा मां अव रक्षेति योजना ।
३। समलं सपापम् ।
४। पुण्डरीकमुनेः । सितसरोरुहं पुण्डरीकं सा आहा नाम यस्य तस्य मुनेः ।
५। विवरं मुखबिलं तस्मादुज्झिता निर्गता शुद्धा वाग् यस्य सः ।
६। वर्म कवचम् ।
७। ``गुरोऽद्य तवाधिकं'' इति पाठान्तरम् ।
८। तीर्थोदकम् । अस्मिन स्तोत्रे चित्रकाव्यपरायणस्य कवेर्बहवः श्लोका अतीव दुर्बोधाः सन्ति । महता प्रयत्नेनापि तेषामर्थो न ज्ञायत इति विदितमस्तु रसिकानाम् ।
Proofread by Rajesh Thyagarajan