नवग्रहपीडाहरस्तोत्रम् २
सिन्दूरारुण रक्ताङ्गः कर्णान्तायत लोचनः ।
सहस्रकिरणः श्रीमान् सप्ताश्वकृतवाहनः ॥ १॥
गभस्तिमाली भगवान्शिवपूजापरायणः ।
करोतु मे महाशान्तिं ग्रहपीडां व्यपोहतु ॥ २॥
जगदाप्यायनकरो ह्यमृताधारशीतलः ।
सोमः सौम्येन भावेन ग्रहपीडां व्यपोहतु ॥ ३॥
पद्मरागनिभा नेना देहेनापिङ्गललोचनः ।
( var पद्मरागनिभाङ्गेन करिपिङ्गललोचनः)
अङ्गारकः शिवेभक्तो रुद्रार्चन परायणः ॥ ४॥
रुद्रसद्भावसम्पन्नो रुद्रध्यानैकमनसः
ग्रहपीडा भयं सर्वं विनाशयतु मे सदा ॥ ५॥
कुंङ्कुमच्छविदेहेन चारुद्युत्करतः सदा ।
शिवभक्तो बुधः श्रीमान् ग्रहपीडां व्यपोहतु ॥ ६॥
धातु चामीकरच्छायः सर्वज्ञानकृतालयः ।
( var तप्त चामीकरच्छायः)
बृहस्पतिः सदाकालमीशानार्चनतत्परः ॥ ७॥
सोऽपि मे शान्तचित्तेन परमेण समाहितः ।
ग्रहपीडां विनिर्जित्य करोतु विजयं सदा ॥ ८॥
हिमकुन्देन्दुतुल्याभः सुरदैत्येन्द्रपूजितः ।
शुक्रः शिवार्चनरतो ग्रहपीडां व्यपोहतु ॥ ९॥
भिन्नाञ्जनचयच्छायः सरक्तनयनद्युतिः ।
शनैश्चरः शिवेभक्तो ग्रहपीडां व्यपोहतु ॥ १०॥
नीलाञ्जननिभः श्रीमान् सैहिकेयो महाबलः ।
शिवपूजापरो राहुग्रहपीडा व्यपोहतु ॥ ११॥
धूम्राकारो ग्रहः केतुरैशान्यां दिशि संस्थितः ।
वर्तुलोऽतीव विस्तीर्णलोचनैश्च विभीषणः ॥ १२॥
पलाशधूम्रसङ्काशो ग्रहपीडाऽपकारकः ।
घोरदंष्ट्राकरालश्च करोतु विजयं मम ॥ १३॥
खड्गखेटकहस्तश्च वरेण्यो वरदः शुभः ।
शिवभक्तश्चाऽग्रजन्मा ग्रहपीडां व्यपोहतु ॥ १४॥
एते ग्रहा महात्मानो महेशार्चनभाविताः ।
शान्तिं कुर्वन्तु मे हृष्टाः सदाकालं हितैषिणः ॥ १५॥
॥ इति नवग्रहपीडाहरस्तोत्रं (२) सम्पूर्णम् ॥
Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com