षोडशाक्षरमन्त्रजपमहात्म्यस्तोत्रम्

षोडशाक्षरमन्त्रजपमहात्म्यस्तोत्रम्

नारदंप्रति ब्रह्मोवाच श‍ृणुनारदः तत्परः । हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे । हरे राम हरे राम राम राम हरे हरे ॥ इति षोडशकं नामः कलिकल्मष नाशकम् । नातः परतरोपायं सर्ववेदेषु दृश्यते ॥ १॥ षोडशःकलयायुक्तो जीवस्त्वावरणं त्यजन् । तदा प्राकाशते ब्रह्म मेघापाये यथारविः ॥ २॥ पुनः प्रपच्छ देवर्षि किं विधि जपतो जनैः । ब्रह्माहह्यस्य मन्त्रस्य विधिर्नास्त्येव नारदः ॥ ३॥ अपवित्रः पवित्रो वा सर्वदा जापकोनरः । सालोक्यञ्च सारूप्यञ्च सामीप्यञ्चसायुज्यता ॥ ४॥ चतुर्विधागतिं प्राप्य सच्चिदानन्द संयुतः । पितृदेवमनुष्याणामपकारात् विमुच्यते ॥ ५॥ ब्रह्महत्यादि पापानि तरत्येव न संशयः । स्वर्णस्तेयात् धर्मत्यागात् सर्वदोषात् विमुच्यते ॥ ६॥ वेदान्तवाक्यै कलिकल्मषघ्नं अत्यन्तगुप्तं मतमुधृतञ्च । तेधन्यभाग्या सततं स्मरन्ति तरन्ति पारं भवसागरस्य ॥ ७॥ हरेति कृष्णेति हरेति कृष्णः कृष्णेति कृष्णेति हरे हरेति । हरेति रामेति हरेति रामः रामेति रामेति हरे हरेति ॥ ८॥ इदं परं दुर्लभ नामकीर्तनं कलौयुगे ये पुरुषाजपन्ति । गायन्ति नित्यं हृदिभावयुक्ता श्रीकृष्णसायुज्यगतिंलभन्ते ॥ ९॥ कोटीत्रयसार्द्ध जपन्तियेते शुध्यन्ति पापात् कलिकल्मषाच्च । साक्षात् प्रकुर्वन्ति परात्मतत्त्वं संयान्ति दिव्यं परमात्मनः पदम् ॥ १०॥ इदं सुपुण्यं कलिकल्मषघ्नं मन्त्रञ्च दिव्यं पुरुषा दिने दिने । जपन्ति गायन्ती इह मर्त्यलोके संयन्ति तं ब्रह्ममयं सुधामम् ॥ ११॥ येन केन प्रकारेण जपमात्रेण सिध्यति । जपन्तं सततं नामं जीवन्मुक्तो भवेन्नर ॥ १२॥ इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं षोडशाक्षरमन्त्रजपमहात्म्यं सम्पूर्णम् । Proofread by Paresh Panditrao
% Text title            : Shodashaksharamantrajapamahatmya Stotram
% File name             : ShoDaShAkSharamantrajapamahAtmyastotram.itx
% itxtitle              : ShoDaShAkSharamantrajapamahAtmyastotram (umeshvarAnandatIrthavirachitam hare kRiShNa hare rAma)
% engtitle              : ShoDaShAkSharamantrajapamahAtmyastotram
% Category              : vishhnu, krishna, mantra, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Swami Umeshvaranand Tirth
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : Ganga Mahatmya And Stuti Ratnavali By Swami Umeshvaranand Tirth
% Indexextra            : (Scan)
% Latest update         : February 2, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org