राधासहस्रनामस्तोत्रम् २

राधासहस्रनामस्तोत्रम् २

श्रीशिव उवाच - अथातः संप्रवक्ष्यामि राधानामसहस्रकम् । श‍ृणुनारद भद्रं ते गोपनीयं प्रयत्नतः ॥ १॥ प्रातः सायं निशीथेवा पठितव्यं मुमुक्षुभिः । त्रिराचम्य शुचिर्भूत्वा यो जपेत्सुसमाहितः ॥ २॥ सवैष्णवो विशुद्धात्मा जायते नात्र संशयः । बहु किं पठनादस्य भवेद्विष्णुसमः पुमान् ॥ ३॥ मासैकपठनादस्य भवेत्सर्वार्थसिद्धिदः । मासद्वयेन देवर्षे भवेद्वै वैष्णवोत्तमः ॥ ४॥ सोऽम्बरीषः स प्रह्लाद उद्धवः स युधिष्ठिरः । सभीष्म अर्जुनश्चैव स्तवराजं पठेत्तु यः ॥ ५॥ अथ किं बहुनोक्तेन वर्णनेन पुनः पुनः । यद्यदिष्टतमं लोके तत्तदाप्नोति साधकः ॥ ६॥ रहस्यं कथयाम्यद्य यद्वै नामसहस्रकम् । इदमेव पुरा पृष्टः कृष्ण उद्धवमूचिवान् ॥ ७॥ अथ स्तोत्रम् । ॐ श्रीराधाराधिकाऽऽराध्या राधाकृष्णशिवादिभिः । गोपिका गोपराज्ञी च गोपानन्दविधायिनी ॥ ८॥ गोपपूज्या गोपहृष्टा गोपगोपीभिरावृता । गोपाह्लादकरी गोपी गोपागोपशिवङ्करी ॥ ९॥ सुन्दरी सुन्दराकारा सुन्दरोत्तमवन्दिता । सुन्दरानन्दसंहृष्टा सुन्दरी बहुभाविनी ॥ १०॥ सौन्दर्यनिलयारामाभिरामा बहुमानिता । श्यामा श्यामप्रियाऽश्यामा श्यामाभिवन्दिता नवा ॥ ११॥ ललिता ललिताचारा ललिताचारशालिनी । कृष्णा कृष्णकृपाकर्त्री कृष्णानन्दपरायणा ॥ १२॥ कृष्णप्रिया कृष्णपूज्या कृष्णाकर्षणकारिणी । कृष्णाराध्या कृष्णवन्द्या कृत्स्नवर्त्मनिबुद्धिदा ॥ १३॥ कृष्णपूजनसर्वस्वा कृष्णदर्शनतत्परा । श्रीकृष्णपदसर्वस्वा कृष्णकृष्णेतिवादिनी ॥ १४॥ श्रीकृष्णकान्तसक्ता च कृष्णप्रेमविवर्द्धिनी ॥ १५॥ विशेषा च विशेषज्ञा बल्लवी वल्लभार्चिता । बल्लवीनाञ्चहार्दज्ञा बल्लवीनांसुखावहा ॥ १६॥ रासमण्डलमध्यस्था रासकेलिकलोत्सुका । श्रीकृष्णालिङ्गितभुजा रासक्रीडाभिनन्दिनी ॥ १७॥ वृषभानुसुताराधा वृषभानुसुखप्रदा । वृषभानुसुतादेवी कीर्त्यानन्दप्रदायिनी ॥ १८॥ वृषभानुसुता तन्वी वृषभानोः कुलध्वजा । सर्वागमप्रिया सर्वाचारतत्परमानसा ॥ १९॥ प्रजासञ्जीवनी जीवनौषधीं परमामृता । प्रजासेव्या प्रजावन्द्या व्रजमानुषमुक्तिदा ॥ २०॥ सौदामिनी दामप्रिया तपोयुक्ता तपोनिधिः । तापसीगीतगुणका तापसानां गतिप्रिया ॥ २१॥ तपः कर्त्री तपोयुक्ता तपोमूर्तिस्तपोमयी । तपसां सिद्धिदा सिद्धा सिद्धाचारविचारिणी ॥ २२॥ सिद्धागमा च सिद्धाख्या सिद्धिदात्री सुखावहा । सुखदासुखसंहृष्टा सुखाकारासुखालया ॥ २३॥ सखिभिः सेवितासेव्या सेवकानां शिवङ्करी । सेविकासेवितपदा सेवकार्पितमानसा ॥ २४॥ मनोवेगा मनोरूपा मनोगतिविडम्बिनी । मनसःप्रेरिका माया मायामयविनाशिनी ॥ २५॥ मोक्षदा मोक्षमार्गज्ञा मोक्षमार्गप्रकाशिनी । मोक्षरूपा मोक्षगृहा कर्त्री मोक्षस्य जाह्नवी ॥ २६॥ जह्नुकन्या जलावासा जलाधीशा जलप्रिया । समुद्रगा विहङ्गाच गङ्गा शिवशिरः स्थिता ॥ २७॥ शिवरूपा शिवकरी शिवहृद्या शिवंवदा । शिवप्रिया शिवगतिः शिवमार्गरतिप्रदा ॥ २८॥ शिवाचारप्रिया गुर्वी गुप्तिर्गुप्तगतिर्नृणाम् । गुप्ता गुप्ततरा गोप्या गोप्यविद्भिः समर्चिता ॥ २९॥ गुप्तालया गुप्तरूपा गुप्तमार्गप्रवर्तिका । लक्ष्मीह्रीश्रीदयामूर्तिस्तुष्टिः पुष्टिः स्तुतिः प्रभा ॥ ३०॥ क्षमा मेधा सुधा विद्या शुद्धिर्बुद्धिधृतिर्गतिः । प्रचण्डचण्डमुण्डघ्नी रक्तबीजविनाशिनी ॥ ३१॥ मथुरा द्वारका काञ्ची माहिष्मत्यथ कौशिकी । अयोध्या कर्णिका काशीवासिनी कर्मवर्द्धिनी ॥ ३२॥ शान्ता शान्तिकरी पुष्टा शान्तविज्ञानदायिका । शान्तिरूपासदा साङ्गा साङ्गोपाङ्गगतिप्रिया ॥ ३३॥ मनोहरा मनोज्ञाच मनोवृत्तिप्रकाशिनी । मनःकान्तिभ्रमकरी भ्रामरी भ्रमकारिका ॥ ३४॥ जगद्भ्रमणधाराच जगतो मुक्तिकारिणी । जगन्माता जगद्धात्री जगज्जीवनजीविका ॥ ३५॥ जगन्मूर्तिर्जगद्देहा जगतां जीवनौषधी । जगतां बुद्धिसन्दात्री जगतां बुद्धिहारिणी ॥ ३६॥ माया मुद्रा महाविद्या महायोगीश्वरी मही । योगयुक्ता योगविद्या योगाङ्गायोगवल्लभा ॥ ३७॥ योगविद्येश्वरी योग्यायुक्ताहारासुखान्विता । योगैकसाध्या योगाद्या योगक्षेमप्रवाहिका ॥ ३८॥ वृन्दावनप्रिया वृन्दावृन्दावनविहारिणी । वृन्दावनकृतालास्या वृन्दावनवरार्चिता ॥ ३९॥ वृन्दावनस्थजन्तूनां सर्वतोभद्रकारिणी । वृन्दावनरसोत्कण्ठा वृन्दावनकृतालया ॥ ४०॥ वृन्दावनप्रभावज्ञा वृन्दावनसुपूजिता । वेणुवादरता वेणुनादिनी कलभाषिणी ॥ ४१॥ वेष्णवी विष्णुनिरता विष्णुमायावसुन्धरा । वसुदा वसुकृद्रामा विष्णुवामाङ्गवासिनी ॥ ४२॥ विष्णुभक्तैः सदा सेव्या विष्णुभक्तहितैषिणी । विष्णुविद्या विष्णुरूपा विश्वज्ञा च विवेकिनी ॥ ४३॥ विवेकदायिका साध्वी सम्यक्साधुजनार्चिता । सम्यग्ज्ञानपरा सम्यक् सम्यग्विद्याविशारदा ॥ ४४॥ सारदा शारदा साध्या शरत्पूर्णनिभानना । शराह्वया सदाह्लादकारिणी जयदा मता ॥ ४५॥ माता मातामही मन्त्रा मूर्तिर्वन्द्या पितामही । अर्थैश्वर्यकरी प्रज्ञा ब्राह्मीनारायणी दया ॥ ४६॥ पुण्यापुण्यविधानज्ञा पुण्यदेवद्विजार्चिता । पुण्यमूर्तिः पुण्यदेहा पुण्यग्रामनिवासिनी ॥ ४७॥ गोकुलस्य प्रिया देवी गोकुले सर्वनर्मदा । गोकुलाचारसर्वज्ञा गोकुलस्य सुखार्थिनी ॥ ४८॥ गोकुलीयैः सदा ध्येया गोकुलाय गतिप्रदा । गोकुलाचारविदुषी गोकुलाचारवर्णिनी ॥ ४९॥ सुरारिदमनी दिव्या सुरवृन्दविनाशिनी । दुष्टदानवसंहत्रीं कंसचाणूरमर्दिनी ॥ ५०॥ कुमारी कुलजा कुन्ती कुलस्त्री कुलपालिका । पाञ्चाली द्रौपदी सीता तारा शैब्याऽथ रुक्मिणी ॥ ५१॥ सत्यभामा तथा सत्या सत्यधर्मपरायणा । बृहतीच तथा स्थूला सूक्ष्मा ह्रस्वाच दीर्घिका ॥ ५२॥ यशोदादेवकी चित्तिरन्तःसंलग्नमानसा । रोहिणी कुब्जिका गुर्वी किशोरी षोडशाब्दिका ॥ ५३॥ चित्रिणी चित्रभावज्ञा चित्रकर्मकरी सदा । विचित्राभरणानन्दव्रजसौभाग्यवर्द्धिनी ॥ ५४॥ नन्दस्तुता नन्दप्रिया नन्दानन्दकरी मही । नन्दादिगोपैः प्रणता नन्दस्मरप्रभावती ॥ ५५॥ यमुनाकृतसङ्क्रीडा यमुनारूपधारिणी । यमुनायां सदास्नाता यमुनारामकारिणी ॥ ५६॥ गुणाढ्या गुणदा गुण्या त्रिगुणा गुणनिर्वृता । गुणान्विता गुणमयी गुणग्रामनिवासिनी ॥ ५७॥ गोपस्त्रीभिः परिवृता गोपकन्याविनोदिनी । गोपस्त्रीणां पराशक्तिः परमामृतवर्षिणी ॥ ५८॥ परमानन्दसन्तुष्टा ब्रह्मानन्दमयीश्वरी । ब्रह्मानन्दप्रिया ब्रह्मवादिनी ब्राह्मणप्रिया ॥ ५९॥ सरस्वती त्रिवेणी च पुष्करा पुष्करालया । त्रयीमयी स्मृतिमयी वेदमार्गविभूषणा ॥ ६०॥ वेदमार्गरतावेदवेद्या विद्वत्सुपूजिता । पुराणगीतगुणिका पुराणव्रतशोभना ॥ ६१॥ पुराणातिपुराणाम्बा पुराणपरमार्थदा । भूता भूतप्रिया भूतग्रामपालनमानसा ॥ ६२॥ भूतवर्गधरा भूतपोषणव्रतपालिका । भूतानन्दकरी भूतमाता धात्री धृतिः क्रिया ॥ ६३॥ भूतप्राणप्रिया भूतरक्षिका भूतदर्पहा । शर्वाणी सर्वदा सार्वी सर्वमोहविधायिनी ॥ ६४॥ सर्वसङ्कटसंहर्त्री सर्वसिद्धिसमन्विता । सर्वाधारा सर्वमयी सर्वरूपा सदानवा ॥ ६५॥ सर्वशक्तिः परं ज्योतिः सर्वशस्त्रप्रणाशिका । रागिणी रागजननी रागभूमिर्दृढव्रता ॥ ६६॥ रागवश्या वीतरागा सर्वरागानुरागिणी । धर्मदा धर्मधारा च धनदा धान्यदा शुचिः ॥ ६७॥ भोगमुक्तिव्रताधारा भोगमुक्तिस्वरूपिणी । पाननी पावनगुणा पामराणां च पावनी ॥ ६८॥ पावनश्राविणी शश्वत्पावनश्रवणात्मिका । पार्वती पर्वतसुता पर्वतेषु विहारिणी ॥ ६९॥ श्रीकृष्णान्वेषणपरा कृष्णदर्शनलालसा । तत्त्वात्मिका तत्त्वभावा तत्त्वानां तत्त्ववर्धिनी ॥ ७०॥ तत्त्वानुरागिणी बाला तत्त्वाकर्षणकारिणी । तत्त्वोत्पत्तिविधानज्ञा तत्त्वानां नाशकारिणी ॥ ७१॥ तत्त्वविद्भिः सदा ध्याता तत्त्वविन्मोक्षदायिका । तत्त्वविद्विघ्नशमनी तत्त्वविद्याधिकारिका ॥ ७२॥ तत्त्ववित्प्रदसर्वस्वा तत्त्ववित्प्राणरक्षिका । शङ्खिनी शङ्खहस्ता च शङ्खनादकरी प्रिया ॥ ७३॥ चक्रिणी चक्रवृत्तिज्ञा दुष्टचक्रक्षयङ्करी । शूलिनी शूलहस्ता च भक्ताशूलकरी सदा ॥ ७४॥ गदनिगदसंहर्त्री अगदङ्कारजीविनी । सदाचाररता साध्वी सदाचारप्रकाशिनी ॥ ७५॥ सदाचाराऽसदाचारदूरकर्त्री सदार्तिहा । सदाचारविशेषा च सदाचारप्रमाणिका ॥ ७६॥ सङ्केतनिरता लोला सङ्केतसुसमाहिता । सङ्केतस्वामिनी श्यामा सङ्केतप्रीतिदा शुभा ॥ ७७॥ सुसङ्केतकृतक्रीडा सङ्केतकृतनिश्चया । रामारामागता रामप्रिया दुःखादिभञ्जिका ॥ ७८॥ पद्मा पद्ममुखी पद्मवासिनी पद्मभूषणा । पद्मालया पद्महस्ता पद्माक्षी पद्मिनी पुरी ॥ ७९॥ पद्मवर्णा पद्मगर्भा पद्मानाम्नी महानिधिः । रुक्माङ्गपारुक्मपर्णा रुक्मदात्री च निर्भया ॥ ८०॥ रुक्माधारारुक्मरुक्मा रुक्मिणी रुक्मप्रीतिदा । कामिनी कामभूः काम्या कमनीया कुटुम्बिनी ॥ ८१॥ कमनीयस्वभावाढ्या करुणाकारिणी कुरुः । कामरूपा काम्यमाना कामदेवकृपाधरा ॥ ८२॥ कालकर्त्री कला कल्या कलिनी कुलभामिनी । तुलसी च तुला तन्द्रा तोतला तारका ध्वनिः ॥ ८३॥ तनुका तालवद्दीर्घा तारिणी तामसी नवा । रम्भा तिलोत्तमा रम्या रमणीया वसुन्धरा ॥ ८४॥ कोकिला कलनिर्ह्रादा कलकण्ठी कलासुधा । सुधापानमहानन्दा शुद्धाचारपरायणा ॥ ८५॥ सुधासमुद्रलहरी सुधासिन्धुनिवासिनी । सुधामयी सुधामूर्तिः सुधाकान्तिः सुधाह्वया ॥ ८६॥ सुधीभिर्वन्दिता शुद्धा शुद्धाङ्गी शुद्धकर्मदा । शुद्धमार्गरता शुद्धकारिका भक्तवत्सला ॥ ८७॥ भक्तागमनसाकाझी भक्तकीर्ति विधायिनी । सुषुम्नाच सुषामा च सुषमा परमा मता ॥ ८८॥ इडा चेड्या महद्भिः सा सूर्यवाहा सुशर्मदा । चन्द्रादित्यकला ज्योतिः सूर्यचन्द्रसुकुण्डला ॥ ८९॥ सूर्यमण्डलमध्यस्था चन्द्रमण्डलमानिता । सूर्याग्निधाम्नी सर्वेषां धाम्नी धात्री धरित्रिणी ॥ ९०॥ लज्जालज्जावती लज्जापूरिणी क्लेशनाशिनी । नानारूपधरा नानाव्याधिनाशनतत्परा ॥ ९१॥ नानागमरहस्यज्ञा नानासाधनसाधिका । नानामन्त्रविधानज्ञा नानामन्त्रस्वरूपिणी ॥ ९२॥ नानाभूषणभूषाङ्गी नानावस्त्वर्थगामिनी । नानानाट्यकलाभिज्ञा नानाश्लाघार्थज्ञापिका ॥ ९३॥ नानाकर्मकरी नानाकर्ममार्गविधायिका । तीर्थनाम्नी भीतिहरातीर्थश्रवणशोधिता ॥ ९४॥ तीर्थस्थितालङ्करणा तीर्थाश्रितसुखोन्मुखी । निरञ्जना निरालम्बा निराधारा निराश्रया ॥ ९५॥ निरीहा निस्पृहा नारी निर्द्वन्द्वा निरहङ्कृतिः । निर्गुणागुणसंयुक्ता निर्भ्रमा भ्रमवर्जिता ॥ ९६॥ गरुडासनगामीया गारुडी गरुडार्चिता । गरुडस्कन्धसंस्थाना गरुडार्तिविनाशिनी ॥ ९७॥ भावपूजकसर्वस्वा भावनिन्दकनाशिनी । भावानुगाच भाव्यज्ञा भावाभावस्वरूपिणी ॥ ९८॥ भूताभूतभविष्यादिज्ञानकर्त्री भवार्तिहा । चार्वङ्गी चतुरा चित्या चञ्चला चञ्चरीध्वनिः ॥ ९९॥ चामुण्डा चारुचरणा चिरचारणमोदिता । वामनी वर्तुलमुखी वृत्तिर्वृत्तान्तसेविता ॥ १००॥ प्रकृत्तिकारिणी प्राप्तिः प्राची प्राणाशुरक्षिणी । प्राणप्रतिष्ठा प्राकाम्या परमाणुप्रमाणिका ॥ १०१॥ परमा परमोत्कृष्टा परमाण्वी पराशरा । परभागवतैर्ध्याता परभागवताभिधा ॥ १०२॥ श्रीभागवतहार्दिक्या श्रीभागवतमानसा । श्रीभागवतनिष्ठाच श्रीभागवतभाविता ॥ १०३॥ श्रीभागवतसंविज्ज्ञा श्रीभागवतभाषिता । सावित्री श्रीसचिद्रूपासवितुः सुगतिप्रदा ॥ १०४॥ सवित्राराधितपदा सच्चिन्मण्डलमण्डिता । कल्पान्तस्थापिनी कल्पकल्पिता कल्पनाकुला ॥ १०५॥ कल्पकल्पायुषः कल्पकरी कल्पप्रभञ्जिका । मन्वन्तरप्रिया मन्वी मन्वन्तरमनुप्रिया ॥ १०६॥ शतरूपा शतगुणा शताक्षी च शकुन्तिनी । सहस्राक्षी दशशतभुजार्पितमहायुधा ॥ १०७॥ सहस्रशिरसी मातासहस्रचरणैर्युता । सहस्रदलपद्मान्तर्बद्धपद्मासनार्चिता ॥ १०८॥ षट्कोणयन्त्रनिलया षट्कोणस्थापितप्रभा । त्रिकोणगृहमध्यस्था त्रिकोणे पूजिता शुभा ॥ १०९॥ तुरीया चत्वरातन्त्री तन्त्रीस्वरविडम्बिनी । तन्त्रगीता तन्त्रसेव्या तन्त्रोक्ता तान्त्रिकी स्मृतिः ॥ ११०॥ तन्त्रविद्या स्वतन्त्राच परतन्त्रप्रिया नदी । स्मृतिसंस्कारजननी संस्कृतिः संस्कृता पुरा ॥ १११॥ सन्ध्याध्यानरतिः शङ्का शक्तिः सर्वेषु जन्तुषु । सौम्या सोमानना सौम्यमार्गबुद्धिप्रदा नृणाम् ॥ ११२॥ सौम्यागमकरी शुद्धा सौम्यवार्ताविधायिनी । सौम्यमूर्तिः सौम्यदेहा सौम्याचारविशेषिका ॥ ११३॥ सौम्याराध्या सौम्ययुक्ता सौम्यपूजकपुत्रिणी । गुर्वी गुरुविधा गौरी गोरोचनविभूषणा ॥ ११४॥ गुरुभक्ता गुरुकुला गुरुज्ञाना गुरुस्पृहा । गुरुतालविशेषज्ञा गुरुपूज्या गुहालया ॥ ११५॥ सामज्ञा सामगासामविदितस्वार्थसाधना । शची सरस्वती दिव्यारुन्धती प्रमदोत्तमा ॥ ११६॥ जयदा जित्वरा याम्या जयजाप्या जपान्तिका । हविष्याहुतिभोक्त्री च हविर्धानी मुनिप्रिया ॥ ११७॥ होत्री होमक्रिया होमसन्तुष्टा होमवत्सला । यजुः प्रिया यजुर्माता यजुर्वेदप्रणालिका ॥ ११८॥ यजुर्वेदाभिलाषा च यजुर्वेदकृपाकरी । ऋचां सारार्थविदुषी ऋग्यजुः सामगायनी ॥ ११९॥ सामदानमितानन्दा सामगेया च सामगा । सामसामप्रिया सिद्धिः समाधिनिरतप्रिया ॥ १२०॥ समाधिशास्त्रश्रवणा समाधिर्व्याधिनाशिनी । विजया विश्वमाता च जयन्ती वीरबाहुका ॥ १२१॥ शत्रुघ्नी शाम्बरी सेनाक्षौहिणी दलहारिणी । मञ्जीरपदका कण्ठेहारमाला कराङ्कुशा ॥ १२२॥ भुजाङ्गदा गदहरा गदपीडाक्षयङ्करी । शङ्खचक्रगदाखड्गनिकुरुम्बानि बिभ्रती ॥ १२५॥ गोपिनी द्रावणकरी द्रवणाख्या सुसंस्कृतिः । वीरभूमिर्वीरजनी वीरपालनमानसा ॥ १२४॥ वीराकृतिर्वीरमुखी वीरविद्याविशारदा । वीरावीरवती वीरवर्णिनी वीरसुन्दरी ॥ १२५॥ क्रोधिनी क्रोधसंविग्ना क्रोधवश्यकरी प्रभा । गोमती गोधना गङ्गा गोवर्धनगिरिप्रिया ॥ १२६॥ गोवर्धनधरा शक्तिः गोपालनपरव्रता । हैयङ्गवीनरसिका रसोत्कृष्टारसायना ॥ १२७॥ विरागिणी विरागाच पूर्णवैराग्यदायिनी । सरागा वीतरागाच विरागा रागसंयुता ॥ १२८॥ वैराग्यजननी साक्षात् कृष्णभक्तिशरीरभृत् । वैराग्याङ्गविधेः कर्त्री वैराग्यसुखसागरा ॥ १२९॥ मृत्युदा पापिवृन्दानामायुर्दा धर्मधारिणाम् । सुभङ्गदा हि दुष्टानां शिष्टानां ज्ञानभक्तिदा ॥ १३०॥ भयदा प्रेतभूतानां साधूनामभयप्रदा । शिवदा शिवकर्तॄणां पामराणां क्षयङ्करी ॥ १३१॥ योगिनांयोगदारूपधारणाध्यानतत्परा । बहिर्मुखानामशुभङ्करिका वाग्विलासिनी ॥ १३२॥ यशोदा च यशोरूपा यशसांवृद्धिदा मुखी । लोकवेदविधिप्रौढा लोकवेदप्रलोभिनी ॥ १३३॥ लोकवेदरता लोकवेदाचारप्रवाहिका । लोकवेदमया भर्त्री लोकवेदशुभप्रिया ॥ १३४॥ लोकवेदैः पूज्यतमा लोकवेदव्रतस्तुता । छाया संज्ञानुसूर्याचब्रह्माणीच मदालसा ॥ १३५॥ महाह्रदा महावापी परिखाच महाखनिः । प्राकारवलया चैव योगपद्मधरा गया ॥ १३६॥ काशाभा काशिका काशी काश्मीरचन्दनार्चिता । वंशीकरप्रियावंशी वंशीवादनहर्षिता ॥ १३७॥ वंशीकरा कृष्णवंशी वंशीनादविमोहिता । वंशीरूपरवाकारी वंशीरागमनोहरा ॥ १३८॥ वंशीनादेन संहृष्टा वंशीध्वन्यनुकारिणी । वंशीवश्योर्वशीभ्राता वंशीवंशनिपालिका ॥ १३९॥ श्रुतिस्मृतिप्रिया प्रह्वा श्रुतिस्मृत्यर्थरूपिणी । श्रुतिस्मृतिसदाचारा श्रुतिस्मृत्यर्थवाचिका ॥ १४०॥ श्रुतिस्मृतिरता कान्ता श्रुतिस्मृत्यर्थपूरणा । श्रुतिः स्मृतिस्तथा तुष्टिः पुष्टिः कर्तुर्महाबला ॥ १४१॥ प्रह्लादिनी जगन्माता प्रह्लादभक्तिवर्द्धिनी । हिरण्यकशिपुच्छेत्त्री प्रह्लादानन्दकारिणी ॥ १४२॥ हिरण्याक्षवधोद्युक्ता वाराही प्रीतिमानसा । राक्षसानां क्षयकरी देवतानां जयावहा ॥ १४३॥ बलिप्रिया सदा स्वेक्ष्या बलिनां बलदा बला । बलासुरहरावल्ली बलिभुग्बलघातिनी ॥ १४४॥ राजनीतिः क्रियारूपाराज्यहा राज्यभक्षणा । राजराजैः स्तुता स्तुत्या स्तवनीयगुणा सती ॥ १४५॥ षडूर्मिहरिणी षड्भा षड्गुणा त्रिगुणालया । निष्कामधर्मनिरता सकामा कामनिर्मला ॥ १४६॥ आर्या दाक्षिण्यरूपा च दक्षिणा यज्ञपावनी । दक्षिणागमविद्या च दक्षिणानां वशंवदा ॥ १४७॥ मुद्रा मुद्राप्रिया मुद्राविधानज्ञा मुदान्विता । निष्कलङ्का कलाधारा सूर्यचन्द्राग्निलोचना ॥ १४८॥ दुर्गा दुर्गगतिर्दुर्गासुरमारणपण्डिता । त्वगस्थिमांसरुधिरस्नायुमज्जादिशक्तिदा ॥ १४९॥ ग्रहरूपा ग्रहमयी विग्रहा ग्रहिका निशा । ग्रहणा ग्राहिणी ग्रामग्राहिणी ग्रामवल्लभा ॥ १५०॥ ग्रामाचारपरापूज्या ग्रामशर्माधिदायिनी । सुभद्रा भद्रकाली च भद्रमार्गप्रवर्तिका ॥ १५१॥ भद्रासना भद्रमतिर्भद्राङ्गा भद्रकारिणी । पृथिव्यप्तेजसां रूपा चाद्याकाशस्वरूपिणी ॥ १५२॥ काव्यशक्तिः कवित्वज्ञा कविरूपा कविप्रिया । शिवा शिवङ्करी कम्बुकण्ठी सर्वाङ्गसुन्दरी ॥ १५३॥ भक्तोद्गीता भक्तकाम्या भक्तसर्वस्वदा सती । रजो रजोयुता रक्ता रजसःशुद्धिसाधिका ॥ १५४॥ सत्त्वा च सत्त्वसम्पन्ना सत्त्वगुण्या गुणालया । सात्विकीसत्त्वसम्पूर्णा सत्त्ववृत्तान्तवृत्तिदा । सत्त्वाहारा सत्त्वयोनिः सत्त्ववर्णाधिनन्दिनी ॥ १५५॥ सर्वशास्त्रमयी विद्या सर्वदेवमयी प्रभा । सर्ववर्णमयी शय्या सर्वाभरणभूषिता ॥ १५६॥ सर्वसामर्थ्यदात्रीच सर्वमङ्गलमालिनी । सर्वाश्रयासार्वभौमा सर्वरूपागमप्रभा ॥ १५७॥ गान्धर्वी किन्नरी देवी मोहकर्त्री सुबुद्धिदा । लज्जाशीला त्रपाशीला शीलसन्तोषसंयुता ॥ १५८॥ कामाक्षी कामिनी काम्या कमनीयवपुर्धरा । कामरूपा सिद्धिरूपा सिद्धैर्वन्द्या सुसिद्धिदा ॥ १५९॥ श्रीविद्या त्रिजटा देवी लक्ष्मीर्नीलसरस्वती । पीताम्बरा तथाद्या च सर्वविद्यामयीश्वरी ॥ १६०॥ व्यक्ताऽव्यक्ताऽनेकमूर्तिः सर्वतीर्थफलाधिका । श्रीरूपा श्रीस्तुता श्राव्या श्रवणात्पापनाशिनी ॥ १६१॥ सर्वधर्मवदान्याच निन्दानिन्दकनाशिनी । श्रीप्रसादकरी श्रद्धामेधारूपासुशर्मदा ॥ १६२॥ गोपी गिरिसुता गुर्वी गौरी गौः सर्वतोमुखी । चतुर्भुजा दशभुजा चतुर्वर्गफलप्रदा ॥ १६३॥ चर्मण्वती वेदवती चतुराचातुरी कला । षोडशाधिसहस्राणां स्त्रीणां मध्ये तुवन्दिता ॥ १६४॥ नवमी पञ्चमीभूता षष्ठी षष्ठी च सप्तमी । अमाच पूर्णिमा पूर्णा शिवरात्रिः प्रभावती ॥ १६५॥ चतुःषष्टिकलायुक्ता षोडशी त्रिपुरेश्वरी । सर्वप्राणमयी वन्द्या दृढबन्धविमुक्तिदा ॥ १६६॥ सर्वाधारा सर्वदेवी सर्वाराध्या समालिका । मन्त्रबीजरहस्यादिसर्वविद्याप्रकाशिनी ॥ १६७॥ सर्ववर्णमयीन्द्राणी जपजाप्यपरा च सा । श्रीधरी श्रीधरावन्द्या श्रीधरप्राणवल्लभा ॥ १६८॥ श्रीराधा (श्री) कृष्णहृदया श्रीधरप्राणजीवनी । श्रीधरस्य प्रतापादिशा(ज्ञा) पिकाखिलकारणम् ॥ १६९॥ सर्वानुस्यूतशक्तिश्च बृहद्वृन्दवनालया । इतीदं राधिकादेव्या दिव्यं नामसहस्रकम् । मया सम्यक्तया प्रोक्तमृषे त्वद्धितकाम्यया ॥ १७०॥ यः पठेत् प्रातरुत्थाय शुचिस्तद्गतमानसः । स भवेत्सर्वसम्पूर्णः शुभाचारः परात्परः ॥ १७१॥ प्रज्ञाचक्षुर्लभेदृष्टिं नेत्ररोगैर्न पीड्यते । मूकोवाचं लभेत्सर्वलक्षणैः संयुतां शुभाम् ॥ १७२॥ प्रातःकालेऽथ सायाह्ने निशीथे यः पठेत्स्तवम् । श्रीराधाकृष्णसाक्षात्कारोजायते सुनिश्चितम् ॥ १७३॥ वैष्णवेषु भवेद्धन्यस्त्रिषु लोकेषु विश्रुतः । धर्मकर्तृषुधर्मीशः पठेद्यः स्तोत्रमुत्तमम् ॥ १७४॥ स योगी परमोत्कृष्टः स ऋषिः सर्ववेदवित् । स ज्ञानी स च भक्तस्तु स कर्मसकलार्थवित् ॥ १७५॥ स इन्द्रः स हरिर्ब्रह्मा स रुद्रो ब्रह्मरूपवित् । सशेषः स मुनिर्व्यासो दत्तात्रेयः सदाशिवः ॥ १७६॥ प्रातरुत्थाय योऽधीते नाम्नां दशशतीमिमाम् । सर्वतीर्थेषु यत्स्नानं सर्वलोकेषु यद्धितम् ॥ १७७॥ सर्ववेदेषु यत्सर्वं सर्वस्मृतिषु यत्फलम् । पुराणेषु च शास्त्रेषु तथा गीतप्रहेलिषु ॥ १७८॥ यत्सारं यच्च हार्दं तु या शक्तिः सर्पदस्युहृत् । तत्सर्वमिदमाख्यातं नातः किञ्चित्परं मुने ॥ १७९॥ धन्यं यशस्यमायुष्यं श्रीकृष्णप्रेमवर्द्धनम् । इदमेकं मया दृष्टं राधानामसहस्रकम् ॥ १८०॥ सर्वपापप्रशमनमकालमृत्युनाशनम् । सर्वमाङ्गल्यदमिदं पठितव्यं मुमुक्षुभिः ॥ १८१॥ सर्वागमप्रियं ह्येतत् सर्वपापप्रणाशनम् । सर्ववेदशिरोभागे सर्वाधिव्याधिशान्तिकृत् ॥ १८२॥ भावुकं भव्यसाधूनां तारक तत्त्वमीक्षताम् । मारकं सर्वदुष्टानामिदमेव हि निर्मितम् ॥ १८३॥ एतस्य पठनात्सद्योमुक्तिः स्यादनपायिनी । भक्तिरप्यस्य श्रीकृष्णे राधया सहिते भवेत् ॥ १८४॥ कृष्णवश्यकरं सम्यक् ज्ञानविज्ञानवर्द्धनम् । बहु किं पठनादस्य मासैकेन महामुने ॥ १८५॥ भक्तियुक्तोलभेज्ज्ञानं श्रद्धावांश्चेन्मुनिः पठेत् । आयुरारोग्यमैश्वर्यं ज्ञानं वैराग्यसंयुतम् ॥ १८६॥ यद्यदिष्टतमंलोके तत्तदाप्नोत्यसंशयम् । महतां सङ्गतिकरं महद्भाग्योदयप्रदम् ॥ १८७॥ महतां हि सदा सेव्यमिदमेव ह्युदाहृतम् । वेदशास्त्रपुराणेभ्य इदमेव समुद्धृतम् ॥ १८८॥ तस्मात्सर्वप्रयत्नेन राधानामसहस्रकम् । भूताष्टम्याममायां च सङ्क्रान्तौ व्यतिपातके ॥ १८९॥ सूर्यचन्द्रोपरागेच पठितव्यं शुभेप्सुभिः । पठ्यमानमिदं स्तोत्रं श्रद्धया यः श‍ृणोतिच ॥ १९०॥ सर्वाभीष्टेन संयुक्तो जायते राधिकाज्ञया । एकादश्यां महारात्रौ द्वादश्यां ग्रहपर्वणि ॥ १९१॥ पठतां श‍ृण्वतां पुंसां तेषां मुक्तिर्न दुर्लभा । हिक्कारोगस्तथा छर्दिर्मूत्रकृच्छूं तथा ज्वरः ॥ १९२॥ अतीसारस्तधा शूलं आमवातादयोऽपि च । अन्ये च बहवो रोगाः सन्निपातमुखा ऋषे ॥ १९३॥ शान्तिं प्रयान्ति ते सर्वे स्तोत्रस्यास्य प्रभावतः । स्तोत्रस्य पठनादस्य प्रह्लादः सिद्धतां गतः ॥ १९४॥ युधिष्ठिरोऽध भीष्मश्च जामदग्न्योद्धवौ तथा । हरिश्चन्द्राम्बरीषौ च ब्रह्मपुत्रास्तथाऽनघाः ॥ १९५॥ एते सिद्धिं गताः सर्वे सत्यं सत्यं वदाम्यहम् । श्रीराधायाः प्रसादेन सर्वानुग्रहणे क्षमाः ॥ १९६॥ तस्मात्सदेयमेवात्र पूजनीया मुहुर्मुहुः । अथास्यसाधनं वक्ष्ये उभयोः प्रीतिवर्द्धनम् ॥ १९७॥ प्रातरुत्थाय कर्त्तव्यं साधकेन शुभेच्छुना । प्रक्षाल्य हस्तौ पादौ च त्रिराचम्य शुचिः पुमान् ॥ १९८॥ जलाशये तथा नद्यां देवखाते ह्रदे तथा । कूपे गृहे स्वकीये वा स्नायाद्वै विधिपूर्वकम् ॥ १९९॥ सदाचारं ततः कृत्वा पुष्पधूपादिचन्दनैः । पुस्तकं तु प्रपूज्याथ मन्त्रराजमुदीरयेत् ॥ २००॥ अथ मन्त्रं प्रवक्ष्यामि विष्णुभक्तिकरं नृणाम् । तारं रमानाथसैवतगः यदि मुदीर्य च ॥ २०१॥ पपञ्चमो भगाद्याश्च भक्तिं देहि ततः परम् । देहि देहि ततः पश्चात्तारं तत्र पुनर्वदेत् ॥ २०२॥ संप्रोक्तो मन्त्रराजोऽयं श्रीराधाया ऋषे तव । दशवारमसौ मन्त्रो जप्यश्च प्रथमं मुदा ॥ २०३॥ ततः सहस्रनामेदं पठितव्यं मुने त्वया । एककालस्य पठनाद्विष्णुभक्तो भवेद्यदि ॥ २०४॥ द्वित्रिकालस्य पठनाद्भक्तिः स्यादनपायिनी । एकोऽद्वयात्मको मन्त्रस्त्रिषु लोकेषु दुर्लभः ॥ २०५॥ गोपनीयः प्रयत्नेन कृष्णस्य पदमिच्छता । एकोऽद्वयात्मको मन्त्रस्तुभ्यमुक्तो मया मने । तस्मात्त्वयाऽपि धूर्तेभ्यः सन देयः कदाचन ॥ २०६॥ इदं खलाय पशवे वेदानां निन्दकाय च । अश्रद्धायातिमूर्खाय परस्त्रीलम्पटायच ॥ २०७॥ दुराचाराय मूढाय गीलायाव्रतरूपिणे । निर्दयायातिह्रस्वाय नास्तिकायात्मघातिने ॥ २०८॥ नैव देयं स्तोत्रमिदन्न प्रकाश्यं सुदुर्लभम् । ददातीदं य एतेभ्यः शिवहास निगद्यते ॥ २०९॥ भक्ताय भक्तियुक्ताय सर्वभूतदयालवे । शमदमादियुक्ताय स्वच्छान्तःकरणाय च ॥ २१०॥ गुरुपूजापरायाथ श्रद्धाचारयुताय च । चिद्विलग्नाय योग्याय मुद्रामालाधराय च ॥ २११॥ जितक्रोधाय शान्ताय विष्णुव्रतपराय च । अन्यैरपि गुणैः शश्वत् तितिक्षाक्षान्तिरार्जवैः ॥ २१२॥ युक्ताय साधकायाथ देयं स्तोत्रमिदं मुदा । नन्वीदृशाय भक्ताय यो ददाति शुभं त्विदम् ॥ २१३॥ स वै पुण्यतमो लोके तत्परो नैव कश्चन । तस्मान्मुनेऽत्र विख्यातं मया त्वद्धितकाम्यया ॥ २१४॥ इदं पठस्वच श‍ृणु यदीच्छसि हरिं प्रभुम् । एतस्य पठनाद्देवः कृष्णस्ते संप्रसीदति ॥ २१५॥ अथ किं बहुनोक्तेन वर्णनेन पुनः पुनः । वशयेद्राधिकाकृष्णौ नित्यं पाठकरः पुमान् ॥ २१६॥ इति रुद्रयामलतः कृतं श्रीराधासहस्रनामस्तोत्रं सम्पूर्णम् । Proofread by Manish Gavkar
% Text title            : Radhasahasranamastotram 2 from Rudrayamala
% File name             : rAdhAsahasranAmastotram2.itx
% itxtitle              : rAdhAsahasranAmastotram 2 (rudrayAmalAntargatam shrIrAdhArAdhikA.a.arAdhyA)
% engtitle              : Radha Sahasranama Stotram 2
% Category              : sahasranAma, devii, rAdhA, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : NA
% Proofread by          : Manish Gavkar
% Description-comments  : Rudrayamala.  See corresponding nAmAvalI.
% Indexextra            : (Scan, nAmAvaliH)
% Latest update         : August 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org