पृथिवीकृतं हरिस्तोत्रम्
पृथिव्युवाच -
नमस्ते जगदव्यक्तरूप कारणकारण ।
प्रधान पुरुषातीत स्थित्युत्पत्तिलयात्मक ॥ १५॥
जगन्नियोजनपर स्वाहाभोगधरोत्तम ।
जगदानन्दनन्दात्मन् भगवन् जगदीश्वर ॥ १६॥
नियोजको नियोज्यश्च विभ्राजन् विष्णुरव्ययः ।
नमस्तुभ्यं जगद्धातस्त्रिलोकालय विश्वकृत् ॥ १७॥
यः पालयति नित्यानि स्थापयत्येव तत्परः ।
तं त्वां नियमरूपेण नमामि जगदीश्वर ॥ १८॥
त्वं माधवः प्रवेकश्च कामः कामालयो लयः ।
प्रसूतिच्युतिहेत्वर्थत्राणकारणमीश्वरः ॥ १९॥
न यस्य ते क्लेदाय स्युरापो नोष्मा तथोष्मणे ।
न शीताय भवेच्छीतं तस्मै तुभ्यं नमो नमः ॥ २०॥
न समुद्रः प्लवकरो न शोषाय दहात्मकः ।
न मृत्यवे यस्य यमस्तस्मै तुभ्यं नमो नमः ॥ २१॥
यच्चिद्धार्यं योगिभिः शान्तदेहै-
रुन्मार्गाणां यात्यरिध्येयकृत्यम् ।
नित्यं यत्तद्रूपमार्गावसक्तं
स त्वं त्राहि त्राणमिच्छन् धरित्रीम् ॥ २२॥
इति कालिकापुराणे षट्त्रिंशाध्यायान्तर्गतं पृथिवीकृतं हरिस्तोत्रम् ।
Proofread by PSA Easwaran