पाण्डुरङ्गस्तोत्रम् ४

पाण्डुरङ्गस्तोत्रम् ४

(चतुर्थम्) (स्रग्धरावृत्तम्) श्रीजाने! पाण्डुरङ्ग! त्वमिह कलियुगे दर्शनात्पासि पापा- नित्याख्यातं दयार्द्रैः सुमतिभिरसकृत्त्वज्जनैः सत्यसन्धैः । तत्सत्यं मन्यमानोऽहमपि तव विभो! ॥अपश्यमेवाङ्घ्रिपद्मं निष्पापोऽस्मीति मन्ये, तदपि खलु कुतोऽयापि नो तापशान्तिः ॥ १॥ वैराग्यं नो न भक्तिर्न च परिचरणं सज्जनानां बतास्मा- द्धेतोस्तापोपशान्तिर्न मम यदि विभो! सत्यमङ्गीकृतं मे(१); को ब्रूयात्साक्षिणस्ते पुर इह वितथं देव! । किन्त्वत्र किञ्चित् पृच्छासि त्वां नमस्यन्ननु कलुषहते तानि किं सन्ति पूर्वं ? ॥ २॥ नाम्नो माहात्म्यतस्ते बहव इह कलौ विठ्ठल ! प्रापुरग्र्यां शान्तिं भक्तिं विरक्तिं गतिमभिलषितां (२)योगिभिर्नारदाद्यैः । तत्ते नाम श्रुतं मेऽसकृदपि च विभो! । गीतमुच्चैस्त्वदीयै- र्हा कष्टं नष्टमद्याप्यतिगुरु न कथं जालमाः(३) संशयानां ? ॥ ३॥ त्वं तु स्वामिन् ! स एव स्वयमसि तमसि स्वाश्रितानां प्रदीप- स्राता योंऽतेवसायिप्रभृतिमलधियां कीर्तनादेव नाम्नाम् । विप्रेष्वत्यादरस्तेऽवसि यदि शरणं तान्स्वपादाब्जमाप्तान किं चित्रं विठ्ठलायं द्विजकुलज इति (४)त्राहि मां दीनमद्य ॥ ४॥ पापोऽहं पापकर्मेति च सततमहं स्नानकाले ब्रवीमि । कृत्वा पापं कथं मे कृतमिति बहुशश्चापि तप्तो भवामि ? स्वामिन् ! । रक्ष क्षमस्वेत्यसकृदपि विभो! प्रार्थनां ते करोमि । ब्रूह्यन्यत्किं करोमि प्रभुवर !? चरणौ तेऽर्तिशान्त्यै स्मरामि ॥ ५॥ दीनोऽहं दीनबन्धुस्त्वमहमघनिधिः पावनस्त्वं प्रसिद्धो भीतोऽहं कालदण्डाच्छरणमुपगतस्त्वामसि त्वं शरण्यः दाता त्वं सद्वराणां वरदगुरुरहं याचकस्त्वं दयावा- नार्तोऽहं त्वं क्षमावानहमपि विनतः पादयोः सापराधः ॥ ६॥ मां कामक्रोधलोभादिभिररिभिररं चेतसा मोहितेन प्रस्तं किं नाथ! दुष्टोऽयमिति परवेशं मन्यसे मे न दोषः ? यातो दैवेन दीनः प्रबलखलवशं निर्दयैः पीड्यमान- स्त्वां स्मर्तुं नालमन्यत्किमथ कथय ते कोऽत्र सेवावकाशः? ॥ ७॥ साक्षी पश्यस्यपि त्वं स्वयमनयकृतोऽरीन्षडग्रान्समर्थो हुङ्कारेणापि दुष्टानसि भुवनपते ! भस्मसात्कर्तुमेतान् । हुङ्कारेणालमारमा(५) प्रभुवर ! । भवतो मास्त्विहायासपात्रं दृष्ट्या किं न स्युरेते भसितमयि विभो! मय्युपेक्षैव नूनं ? ॥ ८॥ दीनोपेक्षां न कर्ता त्वमहमिति विभो ! वेद्मि तत्तूक्तमर्त्यां(६) मर्त्यानां देवतानामपि खलु न हि भो त्वां विनान्योऽवितास्ति । श्रान्तः प्राप्तोऽसि निद्रां ननु किमयि विभो ! । तिष्ठतापीष्टकायां लोकैरालिङ्गितेनाप्यविरतमपि सा सेव्यते चित्रमेतत् ॥ ९॥ भो नाथ ! प्राकृतोऽपि प्रभुरिह भवति त्यक्तनिद्रः कुटुम्बी पञ्चानां पालकोऽपि क्षणमपि न मनाग्जातु निद्रात्यचिन्तः(७) । त्वं त्वेकश्चासहायोऽपि च खलु जगतां साधुभर्ता पुराणो निद्रामासेवसे चेत्कथयतु भगवान्का गतिर्विष्टपस्य ? ॥ १०॥ योगीशोऽस्वप्ननाथः(८) कथमवनविधावेकदक्षः कथं वा यन्निद्रालुत्वमेवं सति मतिमति न त्वय्यदः किं यशोघ्नम्? कालाद्दस्योः सुलुब्धादलमपहरतो मोचयेत्कः समर्थ- स्त्वत्तोऽन्यो दीनदासद्रविणनिधिमिमं(९) मां द्रुतं जागृहीश! ॥ ११॥ नेयं निद्रा यदि स्याद्भगवति जगतां भर्तरि त्वय्यपीशे गुप्ते कृत्स्नापि जीवव्यवहृतिरनिशं किं यथापूर्वमास्ते ? न ह्यस्तं तिग्मरश्मावचलमुपगते भासके भव्यभासि लोके दृष्टा श्रुता वा मृगजलतटिनी तत्र चैषां प्रवृत्तिः ॥ १२॥ नो निद्रा नो समाधिः क्वचिदपि न च ते यातमन्यत्र चित्तं नूनं रोषः सदोषे मयि तव भगवन् ! विद्यते तेन मौनम् । नैवैतत्तर्कितं मे सुमतिमतमये प्राकृतोऽपि प्रभुर्यत् सद्यः क्रोधं जहाति प्रणतिमति(१०) कृतागस्यरातावपशि ! ॥ १३॥ शङ्के रङ्के मयि त्वं प्रभुवर कुरुषे कञ्चनामुं विनोदं किं वक्तायं कविर्मामिति कुतुकितया श्रोतुकामो वचो मे । नो चेदुच्चैः कृपालुः कथामियदणुतोऽप्यूनमद्यापि कार्यं कर्तुं कर्ता विलम्बं न हि गिरिधर(११) ! ते स्यात्तृणस्यातिभारः ॥ १४॥ प्रस्तोऽस्म्याकण्ठमुग्रप्रकृतिमनसिजेनाहिना(१२) बालभेकः पाह्यस्मात्त्वं त्वदन्यो ननु दृशमकरोत्सानुकम्पामिभे(१३) कः ? स्तोत्रं चेच्छ्रोतुकामोऽस्ययि मयि विकले बालिशे सेवके कां शक्तिं पश्यस्यदृष्ट्वा धनमपि कुरुते किं शिखी देव ! केकां ? ॥ १५॥ त्वं चेदद्य प्रसादं ध्रुव इव कुरुषे देव ! बाले मयीह स्तोतुं स्यामेव कामं निपुणतरकविः श्राव्यभव्यप्रबन्धः । कः स्तोता तात ! । जातस्तव जगति विनानुग्रहाद्विप्रदेवे- ष्वन्येष्वप्यब्जयोनिः प्रभुरपि भवतोऽनुग्रहादेव सुज्ञः ॥ १६॥ मह्यं देहि प्रभो! स्वस्तवकवनवरं स्वस्य च प्रीतिहेतुं यत्त्वं स्तुत्यातितुष्टो हृदि भवसि तथा नान्यसरकारकोव्या । नुत्या नुत्या च तज्ज्ञैरजित! । न विजितः कैर्भवान्पाददासै - राप्तैप्तो न मोदं प्रभुतिलक ! यथा भक्तवृन्दैरसङ्गैः? ॥ १७॥ आरब्धासु त्वदङ्घ्रिस्तुतिषु सुरधुनीवीचिमालामलासु प्रादुर्भूते पुरस्ते नवमुदिरघटागर्वसर्वकषेंऽगे भावैरालिङ्गितोऽहं सखिभिरिव समं सात्विकैरुत्सवोत्कै(१४)- र्युक्तो मुक्तोक्तिनत्या दर इव च जनौ स्वं वदास्यां कदा स्यां ? ॥ १८॥ श्रीमत्या भीमरथ्यास्तटभुवि भवता तिष्ठता विष्टपेश ! स्वामिन् ! सौभाग्यमस्या गमितमतिनुतिं स्वर्धुनीभाग्यतोऽपि । पाथःस्पर्शादपङ्कामलमियमवनीमेव नो चन्द्रभागा कर्तुं कीर्त्या त्रिलोकीमपि च विजयते तीर्थपादप्रिया ते ॥ १९॥ देवास्तीर्थानि सन्तः खलु सततमपि स्नातुमायान्ति हर्षा- दित्थं साधूक्तमेव श्रुतमसकृददो देव ! दासेन ते मे; तस्मादस्माकमेषा सकलमलधियां नाथ ! । मातेव सद्यः पङ्कप्रक्षालनेन प्रियमुचितमरं किं न कुर्याद्रयार्द्राः ? ॥ २०॥ भो श्रीमविठ्ठल ! श्रीपतिमतिथिरहं त्वामुपेतोऽस्मि । किं मां सत्कार्यं नाद्रियन्ते बत भवदनुगाः साधवः सद्विचाराः ? ब्रह्मण्य स्त्वं तु लक्ष्म्या वससि दयितया नित्यमन्तःपुरे हा! । कष्टं ! नष्टं व्रतं ते । मम च यदफलप्रार्थनः सन्निवृत्तः ॥ २१॥ भो ब्रह्मन् ! पुण्डरीक! द्विजवर! भवतः स्वास्थ्यमभ्येतु चित्तं ``दीनांस्तापत्रयार्तान् शरणमुपगतानुद्धरिष्येऽहमाशु'' इत्येवं सुप्रसिद्धं सुरमुनिसविधं यत्प्रतिज्ञातमग्रे तत्सत्यं सत्यसन्धस्त्वमिह कलियुगे कुर्वघारे ! नमस्ते ॥ २२॥ दुःखाब्धेरुद्धृतानां प्रभुवर ! भवता मादृशानां जनाना- माकण्ठं तर्पितानामलममृतरसेनोत्तमेनादरेण । आशीभिः पुष्कलाभिर्जगति नृपसुरैरप्यरं दुर्लभाभिः(१५) प्राप्तं पूर्वं यशस्ते परममिह पुनः प्राज्यमप्याप्नुहीश! ॥ २३॥ दीनानां दैन्यनाशात्समुपगतमुदामाननादादरेण प्रोद्भूता आशिषस्त्वां पतिमभिवृणते कान्तमेकं वरेण्यम् । दण्ड्यो दुष्टोऽस्मि यद्यप्यहमुचिततरा मे गृहीतुं कुबुद्धे- राशीराशीविषस्यार्पितमणिरिव ते स्यात्प्रभो भूषणाय ॥ २४॥ इति श्रीरामनन्दनमयूरेश्वरकृतं पाण्डुरङ्गस्तोत्रं समाप्तं तच्चरणयोरर्पितं च । टिप्पणि १। भे इति विभक्तिप्रतिरूपकमव्ययम् । मयेत्यर्थः । २। ``योगिनो नारदाद्याः'' इति पठितुमुचितम् । ३। आः इति मनःखेदेः । ४। त्राहीत्यपाणिनीयम् । त्रायस्वेत्यर्थः । ५। हे प्रभुवर! भवत आत्मा इहास्मिन् कर्मणि आयासपात्रं मास्तु इत्यन्वयः । ६। तत्तु तद्वचनं तु मया अर्त्या पीड्योक्तमिति योजना । ७। ``निद्राति साधिः'' इति पाठः । साधिः मनसस्तापः । ८। अस्वप्नानां देवानां नाथः । ९। ``स्वीयदास'' इति पाठान्तरम् । १०। नमनपरे । ११। गिरिधरेति साभिप्रायं विशेषणम् । परिकरालङ्कारः । १२। ``प्रकृतिपतिमनोजाहिना'' इति पाठान्तरम् । मनोजो मदनः । १३। नक्रोपपीडिते गजेन्द्रे । १४। उत्सवेनानन्देन उत्काः उत्कण्ठिता उत्पन्ना इति यावत् । १५। हस्तदोषः-ज् । Proofread by Rajesh Thyagarajan
% Text title            : Panduranga Stotram 4
% File name             : pANDurangastotram4.itx
% itxtitle              : pANDuraNgastotram 4 (shrIrAmanandanamayUreshvarakRitam shrIjAne! pANDuraNga!)
% engtitle              : pANDurangastotram 4
% Category              : vishhnu, vishnu, moropanta, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Mayurakavi or Moropanta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Stotras composed by Moropanta mayUrakavi
% Indexextra            : (Scan)
% Latest update         : December 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org