श्रीबद्रीनारायणस्तोत्रम्
यो नारायण आत्मरूप इति यज्जानाम्यहं तत्त्वतः
यस्मिन् सर्वमिदं प्रकल्पितमहो रज्ज्वां यथाहिर्वृथा ।
मायायाविनिवर्तकं निजमहो ब्रह्मेति यः श्रूयते
नित्यं तं बदरीश्वरं गुरुवरं सच्चित्सुखं नौम्यहम् ॥ १॥
ब्रह्मैक्यं निजपावनं सुरुचिरं मायाविहीनं परं
ज्ञात्वा सर्वमतीत्य मायिकमिदं जीवेश-विश्वादिकम् ।
यस्मिन्नित्यमहं जले जलमिव प्राप्यैकतां संस्थितः
नित्यं तं बदरीश्वरं गुरुवरं सच्चित्सुखं नौम्यहम् ॥ २॥
एकस्मिन् कथमीदृशं जगदिदं मायाऽपि वा भाव्यते
नैकस्मिन्नितरस्य भाव इति यत्सत्यं श्रुतेः सम्मतम् ॥
द्वैतं हेतुरहो भयस्य गदितं ज्ञात्वैक्यमालम्ब्य च
नित्यं तं बदरीश्वरं गुरुवरं सच्चित्सुखं नौम्यहम् ॥ ३॥
वन्ध्यापुत्रजनिर्यथैंव किलतद्धेतुस्तथैंव मृषा
विश्वं, तस्यच कारणं तदपि चेन् मिथ्येन्द्रजालादिवत् ॥
यस्मिन्नैव जगन्नहेतुरपि या मायाऽस्य वा प्रस्फुरेत
नित्यं तं बदरीश्वरं गुरुवरं सच्चित्सुखं नौम्यहम् ॥ ४॥
भ्रान्त्युत्थं यदि वा भवेद्भवतु तज्जीवेश-विश्वादिकं
मायामात्रमिदं न मेऽस्ति नितरां भ्रान्तेरधिष्ठानतः ।
यस्मिन् भूम्नि नरश्चयोविदिति वा नामापि न श्रूयते
नित्यं तं बदरीश्वरं गुरुवरं सच्चित्सुखं नौम्यहम् ॥ ५॥
जीवन्मुक्तिप्रदं शुद्धं श्रीनारायण-पञ्चकम् ।
पठनाच्छ्रवणादस्य जीवनमुक्तिमवाप्नुयात् ॥ ६॥
॥ इति शिवम् ॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरू भगवान
श्रीधरस्वामीमहाराजविरचितं श्रीबद्रीनारायणस्तोत्रं सम्पूर्णम् ।