रमास्तोत्रम्
जय कोल्हापुरनिलये भजदिष्टेतरविलये ।
तव पादौ हृदि कलये रत्नरचितवलये ॥ १॥
जय जय सागरजाते कुरु करुणां मयि भीते ।
जगदम्बाभिधया ते जीवति तव पोते ॥ २॥
जय जय सागरसदना जय कान्त्या जितमदना ।
जय दुष्टान्तककदना कुन्दमुकुलरदना ॥ ३॥
सुररमणीनुतचरणे सुमनःसङ्कटहरणे ।
सुस्वररञ्जितवीणे सुन्दरनिजकिरणे ॥ ४॥
भजदिन्दीवरसोमा भवमुख्यामरकामा ।
भयमूलाळिविरामा भञ्जितमुनिभीमा ॥ ५॥
कुङ्कुमरञ्जितफाले कुञ्जरबान्धवलोले ।
कलधौतामलचैले कृन्तकुजनजाले ॥ ६॥
धृतकरुणारसपूरे धनदानोत्सवधीरे ।
ध्वनिलवनिन्दितकीरे धीरदनुजदारे ॥ ७॥
सुरहृत्पञ्जरकीरा सुमरोहार्पितहारा ।
सुन्दरकुञ्जविहारा सुरवरपरिवारा ॥ ८॥
वरकबरीधृतकुसुमे वरकनकाधिकसुषमे ।
वननिलयादयभीमे वदनविजितसोमे ॥ ९॥
मदकलभालसगमने मधुमथनालसनयने ।
मृदुलोलालकरचने मधुरसरसगाने ॥ १०॥
व्याघ्रपुरीवरनिलये व्यासपदार्पितहृदये ।
कुरु करुणां मयि सदये विविधनिगमगेये ॥ ११॥
इति श्रीहुलगीश्रियःपत्याचार्यविरचितं श्रीरमास्तोत्रं सम्पूर्णम् ।
Proofread by Pranav Tendulkar