श्रीसम्प्रदायगुरुपरम्परास्तोत्रम्

श्रीसम्प्रदायगुरुपरम्परास्तोत्रम्

श्रीअग्रदास उवाच - शुभासने समासीनमनन्तानन्दमच्युतम् । कृष्णदासो नमस्कृत्य पप्रच्छ गुरुसन्ततिम् ॥ १॥ श्रीकृष्णदास उवाच - भगवन् यमिनां श्रेष्ठ प्रपन्नोऽस्मि दयां कुरु । ज्ञातुमिच्छाम्यहं सर्वां पूर्वेषां सत्परम्पराम् ॥ २॥ मन्त्रराजश्च केनादौ प्रोक्तः कस्मै पुरा विभो । कथञ्च भुवि विख्यातो मन्त्रोऽयं मोक्षदायकः ॥ ३॥ श्रीअग्रदास उवाच - कृष्णदासवचः श्रुत्वाऽनन्तानन्दो दयानिधिः । उवाच श्रूयतां सौम्य वक्ष्यामि तद् यथाक्रमम् ॥ ४॥ श्रीअनन्तानन्द उवाच - परधाम्नि स्थितो रामःपुण्डरीकायतेक्षणः । सेवया परया जुष्टो जानक्यै तारकं ददौ ॥ ५॥ श्रियः श्रीरपि लोकानां दुखोद्धरणहेतवे । हनूमते ददौ मन्त्रं सदा रामाङ्घ्रिसेविने ॥ ६॥ ततस्तु ब्रह्मणा प्राप्तो मुह्यमानेन मायया । कल्पान्तरे तु रामो वै ब्रह्मणे दत्तवानिमम् ॥ ७॥ मन्त्रराजजपं कृत्वा धाता निर्मातृतां गतः । त्रयीसारमिमं धातुर्वसिष्ठो लब्धवान् परम् ॥ ८॥ पराशरो वसिष्ठाच्च सर्वसंस्कारसंयुतम् । मन्त्रराजं परं लब्ध्वा कृतकृत्यो बभूव ह ॥ ९॥ पराशरस्य सत्पुत्रो व्यासः सत्यवतीसुतः । पितुः षडक्षरं लब्ध्वा चक्रे वेदोपबृंहणम् ॥ १०॥ व्यासोऽपि बहुशिष्येषु मन्वानः शुभयोग्यताम् । परमहंसवर्य्याय शुकदेवाय दत्तवान् ॥ ११॥ शुकदेवकृपापात्रो ब्रह्मचर्यव्रतेस्थितः । नरोत्तमस्तु तच्छिष्यो निर्वाणपदवीं गतः ॥ १२॥ स चापि परमाचार्यो गङ्गाधराय सूरये । मन्त्राणां परमं तत्त्वं राममन्त्रं प्रदत्तवान् ॥ १३॥ गङ्गाधरात् सदाचार्यस्ततो रामेश्वरो यतिः । द्वारानन्दस्ततो लब्ध्वा परब्रह्मरतोऽभवत् ॥ १४॥ देवानन्दस्तु तच्छिष्यः श्यामानन्दस्ततोऽग्रहीत् । तत्सेवया श्रुतानन्दश्चिदानन्दस्ततोऽभवत् ॥ १५॥ पूर्णानन्दस्ततो लब्ध्वा श्रियानन्दाय दत्तवान् । हर्यानन्दो महायोगी श्रियानन्दाङ्घ्रिसेवकः ॥ १६॥ हर्यानन्दस्य शिष्यो हि राघवानन्ददेशिकः । यस्य वै शिष्यतां प्राप्तो रामानन्दः स्वयं हरि ॥ १७॥ तस्माद् गुरुवारल्लब्ध्वा देवानामपि दुर्लभम् । प्रादात्तुभ्यमहन्तात गुह्यं तारकसंज्ञकम् ॥ १८॥ एवं परम्परा सौम्य प्रोक्ता श्रीसम्प्रदायिनाम् । मन्त्रराजस्य चाख्यातिर्भूम्यामेवमवातरत् ॥ १९॥ श्रीअग्रदास उवाच - कृष्णदासस्तु तच्छ्रुत्वा लेभे परमहर्षताम् । साष्टाङ्गं प्रणतिं कृत्वा वचनं चेदमब्रवीत् ॥ २०॥ श्रीकृष्णदास उवाच - पीत्वा श्रीमुखवाक्यजन्यममृतं तापत्रयोद्धारकं श्रुत्वा वेदनिगूढतत्त्वजनिकां वाणीं समुल्लासिनीम् । हित्वा मोक्षदरामतारकमिमं जाने न सारं परं नीत्वा कालमहं सुसाधकधिया वक्तुं न शक्नोम्यलम् ॥ २१॥ श्रीअग्रदास उवाच - यः पठेच्छ्रद्धया नित्यं पूर्वाचार्यपरम्पराम् । मन्त्रराजरतिं प्राप्य सद्यो रामपदं व्रजेत् ॥ २२॥ इति श्रीअग्रदेवाचार्यविरचितं श्रीसम्प्रदायगुरुपरम्परास्तोत्रं सम्पूर्णम् । Encoded and proofread by Mrityunjay Pandey
% Text title            : Agradevacharyavirachitam Shrisampradayaguruparampara Stotram
% File name             : shrIsampradAyaguruparamparAstotramagradevAchArya.itx
% itxtitle              : sampradAyaguruparamparAstotram (agradevAchAryavirachitaM)
% engtitle              : sampradAyaguruparamparAstotraM
% Category              : misc, rAmAnanda, gurudeva, stotra
% Location              : doc_z_misc_general
% Sublocation           : misc
% SubDeity              : gurudeva
% Author                : agradevAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampradaya Dig-Darshanm
% Latest update         : December 3, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org