श्रीदत्तस्तोत्रम्

श्रीदत्तस्तोत्रम्

(पृथ्वीवृत्तम्) सुदुःखितमनोरवं मम न किं श्रुणोसि प्रभो दयाब्धिरपि किं न भो द्रवसि सर्ववित् त्वं गुरो । अहं विरहकातरो भवभयातुरः प्रार्थये स्वभक्तभवनाशनोद्यतमते न किं धावसि ॥ १॥ न किं हरिहरादयः शरणभक्तचित्तार्थदाः किमर्थमिति यासि मां हि शरणं प्रभो वक्षि चेत् । गुरो श्रुणु भवार्तिहंस्त्रिविबुधी विलीना त्वयि त्रिमूर्तिरथ भो यतस्त्वमिह तत्प्रसिद्धं भुवि ॥ २॥ स्वरूपस्मरणं सदा भवति यत्त्रयाणामपि त्वदीयपदसेवनाद्विधिहरादयः शर्मदाः । शुभत्रिवदनैर्यतः प्रकटितं च सच्चित्सुखं त्वमेव निरुपाधिकं भवसि भोस्त्रिमूर्तेः पदम् ॥ ३॥ उपाधिपदलाञ्छनाद्बहुविलज्जितैस्तैस्त्रिभिः यदा प्रकटितं निजं प्रकटनं तवासीत्प्रभो । त्वदीयनिरुपाधिकं विमलरूपमादर्शयन् त्वमेव खलु राजसे जगति दत्त तुर्याश्रमिन् ॥ ४॥ असङ्ग निजनिर्मलं प्रथितनिर्गुणं ब्रह्म यत् त्रिमूर्तिपदपावनं प्रकटितं यदासीत्त्वया । तदव सकलस्य वा मम च शुद्धरूप यतः गुरो तवपदं विना जगति मे न कोप्याश्रयः ॥ ५॥ त्रिमूर्तिपदपावनं सुखमनामयं भोः पुरा स्वभक्तभवमुक्तयेऽत्र भुवि दत्तवांस्त्वं यतः । स्वदत्त इति यत्स्फुटं जगति तन्मृषा किं भवेत् स्वरूपममलं च दातुमपि किं न भासि प्रभो ॥ ६॥ न जीवजगदीश्वरा न च तथैव योषित्पुमान् ``अहं'' मम तनौ च यत्स्फुरति तत्सुभूमासुखम् । असङ्गमिति चिन्मयं परमनामयं ब्रह्म वा ततं प्रथितमद्वयं हि खलु त्वन्मुखाज्छुश्रुषुः ॥ ७॥ महेन्द्रविधिचक्रधृद्भवपदं न याचे गुरो विषं मम तु तत्सुखं तनुहदिन्द्रियैर्यद्भवेत् । अहो भवभयात्मकं भ्रममयं च तद्भावनं रतिश्च पुरुषस्त्रियोरहह कश्मलायां तनौ ॥ ८॥ गुरोः सुकरुणोदयाद्भवति सा विरक्तिर्दृढा निजस्थितिरचञ्चलाऽत इह याच्यते त्वत्कृपा । त्वदीयकृपया बली निजपदं वितन्बन्भुवि कृती च गुरुसेवया सुविमलो भवेयं गुरो ॥ ९॥ गुरो न तव दर्शनं विपुलदीर्घकालो गतः कदा भवसि गोचरस्तव हि दर्शनाकाङ्क्ष्यहम् । अयोग्यमपि शाधि मां करुणयाऽतिदीनोस्म्यहं गुरोऽतिदयया युतो झटिति दर्शनं देहि मे ॥ १०॥ गुरो ह्यतनुरेव भोस्त्वमसि नामरूपं न ते उपासकविमुक्तयेऽत्र खलु रूपधृक्त्वं विभो । विना सगुणरूपतस्तव किमस्ति जीवोन्नतिः न मुक्तरथ नो तथा विरतिरेष बोधोदयः ॥ ११॥ स्फुटं स्तवनतोऽपि मे तव सुवाक्परत्वं गुरो तथैव तव चिन्तनेऽपि तव हृत्परत्वं स्मृतम् । स्वरूपममलं ततं न तव विस्मृतं यात्रया तथाऽपि हृदि वासनोल्लसति दर्शनाय प्रभो ॥ १२॥ अरे त्वमसि निर्गुणो न च तवास्ति सङ्गः क्वचित् यदेकपरमाद्वयं त्वमसि मायिकं न त्वयि । किमेवमतिदुःखिनं च तव निर्गुणं मां वदेत् सुखामृतकरान्वितन्वदिह ते वपू राजते ॥ १३॥ न रूपधरणं तवास्ति खलु बाधकं सद्गुरो ह्यनेन जगतोऽपि मेऽतिसुलभोऽत्र बन्धक्षयः । तनावहमिति स्फुरेद्यदि भवी भ्रमिष्ठोऽप्यसौ निजात्मपदवीं दिशन्किमिति देहधृक्तं भवेः ॥ १४॥ जलं न च हिमेन वाऽत्र कटकैः सुवर्णं तथा विभिन्नमुपलैश्च भो मृदिह चन्दनं मूर्तितः । विनिष्टमपि नो भवेद्विकृतिमत्प्रसिद्धं च तत् परं तु जगतोऽमुना बहुविशेषकार्यं किल ॥ १५॥ तवास्ति ननु बाधकं यदि तु रूपधृक्तं गुरो कथं जगति विश्रुतोऽसि भगवस्तमत्रेः सुतः । विलोभय न मां जडं किल गुरोऽत्र मे त्वं गतिः प्रभो त्वरय मा चिरं चरणदर्शनं प्रार्थये ॥ १६॥ तव त्रिमुखपङ्कजैः प्रकटितं स्वसच्चित्सुखं त्वदीय वदनप्रभा खलु निदर्शयेद् ब्रह्म तत् । सुहास्यमतिनिर्मलं तव वदेज्जगन्मायिकं त्वदीयकरुणार्द्रदृग् झटिति माथिकं संहरेत् ॥ १७॥ अहं ह्यतनुनिर्गुणं कथमहं शरीरीति च शरीरधरणेऽक्षमोऽहमिति मा गुरो मा वद । कदापि भवसीह भो न च विकारयुक्तं वपुः न चेदवतरेः स्वयं कथमितिस्वरूपं दिशेः ॥ १८॥ न भूरथ न वा जलं न च तथाऽनलो वाऽनिलो न खं त्वयि विभो तथा किमपि नैव पञ्चीकृतम् । न पिण्डमथवाऽपि नो खलु विराण्ण विश्वं ध्रुवं न जीव इति वासना रतिरथो न नारी नरः ॥ १९॥ न सा प्रकृतिरप्यहो त्वयि पुमाञ्जगत्सर्जनं चिदेकरसभूम्नि भोस्त्वयि न विश्वसङ्कल्पनम् । न सूक्ष्म वियदाद्यहो न च तथाऽप्यापञ्चीकृतं न सूक्ष्म महदादिकं न च हिरण्यगर्भस्तथा ॥ २०॥ निरावृतगुरो तमस्त्वयि विभाति किं स्वप्रभे न दृश्यमपि नो तथा भवति भोस्तदव्यक्तकम् । महेश इति नो तथा खलु न बीजसृष्टिश्च या स्वमात्रपरमाद्वये कथमिदं च सम्भाव्यते ॥ २१॥ न जीवजगदादिकं त्वमिति भो महेशोऽपि नो न कार्यमपि नो तथा भवसि कारणं तस्य तत् । गुरोऽस्य तु विभावनं त्वयि यथात्र रज्जौ फणी न खे जलमुचः कृतिस्त्वयि तथा न मायाकृतिः ॥ २२॥ अहो घटयते गुरोऽघटितमेव माया तु या निरूपयितुमास्पदा न खलु सातिशङ्कास्पदा । अतीव ननु विस्मया भवति हन्त सत्याऽसती त्वयैव किल नश्यति स्वयमतः प्रतीक्षेऽनिशम् ॥ २३॥ अनेकदुरदृष्टतो बहुलविघ्नबाधा गुरो मनस्तु बहु चञ्चलं भ्रमति दिग्पटे दुर्दमम् । न वज्रतनुरप्यहो भवति दुश्चरं नो तपो न शुद्धहृदयं तथापि बत किं वदेयं प्रभो ॥ २४॥ न शास्त्रमपि नो श्रुतिं न च तथा स्मृतिं वेद्म्यहं न संस्कृतमथाप वा खलु न वेद्म्यहं प्राकृतम् । न भक्तिरपि मेऽस्ति भो भवति नैव योगस्तथा ह्यहो जडमतिर्गुरो किमुत वेद्मि किं ब्रह्म तत् ॥ २५॥ निजं हि कथयामि ते तनुसुखाय लुब्धोस्म्यहं भवेत्कथमुपोषणं व्रतमपीति कृच्छ्रादिकम् । अतीव खलु दुर्बलो मम न निग्रहोऽस्ति क्वचित् अहं पतित ईदृशः पतितपावनस्त्वं गुरो ॥ २६॥ गुणेन रहितोऽस्म्यहं सकलदुर्गुणालङ्कृतः न कोऽपि खलु मत्समः सकलनीचमौलिस्त्वहम् । सुवीक्ष्य च ममेदृशं त्यजसि चेत्कुतोऽन्याश्रयः त्वमेव गतिरत्र मे करुणया पदं दर्शय ॥ २७॥ समर्थ इति विश्रतोऽसि भुवि किं न शक्यं त्विदं गुरो खलु परीक्ष्य मामिह न, पाहि हीनोस्म्यहम् । अहं यदि समुद्धृतो भुवि न दुर्घटं ते भवेत् सुसाध्यमखिलं ततः कुरु दयां च मामुद्धर ॥ २८॥ अतीव विनतोस्म्यहं विषयमोहपाशार्दितः क्षणं युगसमं भवेद्विरहतोऽतिदुःखी गुरो । जलाब्दहिरहो यदा भवति किं सुखी मत्स्यकः तथैव बहिरागतस्तव निजस्थितेरस्म्यहम् ॥ २९॥ उपाधित इति ब्रुवे निजमथोऽमलं वेद्म्यहं त्वयैव निरुपाधिको ननु गुरो न मां त्वं जहि । असङ्ग उपविद्य भोः सततमात्र मामुद्धर यदि त्वमहमेव तत्किमिति हातुमर्हो भवेः ॥ ३०॥ प्रभो त्यजसि मां हि चेत्तव न दर्शनं दास्यसि न शक्य इति भो गुरो खलुहसन्ति कीर्तिर्न ते । मदीयमपि जीवनं भवति गर्हितं हे प्रभो जही हि न गुरो कृपां कुरु च दर्शनं देहि मे ॥ ३१॥ वदेयमिति किं गुरो सकलहृद्गतं वेत्सि भोः स्तुवे किमधिकं स्तुते श्रुतिरहो प्रभो त्वां सदा । अनेकसगुणैर्वृता मदधिकाश्च भक्तास्तव त्वमेव हि गुरोऽद्वयो मम तु कोऽपि नान्यो भुवि ॥ ३२॥ विचार्य सकलं गुरो कुरु तथा यथा त्वन्मतिः बलात्किमिह शक्यते सविनयेन भोः प्रार्थये । अनाथमिति मां गुरो कुरु सनाथमस्मिञ्जने ह्यतीव दययायुतो झटिति दर्शनं देहि मे ॥ ३३॥ सनातन इति श्रुतो भवति विश्वसेतुस्तु यो भवत्प्रभवधर्म एवमिह दुष्टदैत्यैर्हृतः । सतीत्वमपि लाञ्छितं किल विडम्बनं दुःसहं प्रभो स्वजनरक्षणे किमिति शङ्कसेऽद्यापि हि ॥ ३४॥ मुमुक्षुजनदुर्दशा कथमियं च सह्या तव मुमुक्षुजनजीवितं बहु विगर्हितं लौकिकैः । हसन्ति परमार्थिनं खलु न विश्वसन्तीह ते सुरा अपि छलन्ति भो बहुबलाच्च कामादिकैः ॥ ३५॥ कलौ तु परमार्थिनां जगति जीवनं कष्टदं अहं खलु न तत्सहे तव तदर्थमेवाश्रयः । स्वरूपपथगामिनस्त्वमिह मे सहायो भव गुरोऽतिदययायुतस्तव पदाम्बुजं दर्शय ॥ ३६॥ अतीव खलु दुर्जया सन्तत कश्मला दुश्चरा सदैव सुखमाहिता विषयवासना योजने । अहो दुरितरूपिणी किल भवेदविद्या तु या तवैव कृपया विना न च कदापि शाम्येद्गुरो ॥ ३७॥ स्वयं हि न सहायकृद्भवसि साधकानां यदि वृथा किमिति राजसे त्वमिह दत्तनाम्ना गुरो । तुरीयपदनन्दिनः पतितपावनस्य प्रभो किमिप्सितसुखं च ते जगति जीवमोक्षादृते ॥ ३८॥ क्षमस्व दययायुतो यदि भवेद् दुरुक्तिर्मम क्षमस्व च गुरो कुतोऽपि विनयस्य भङ्गो यदि । न हेतुरिह मे प्रभो भवति तादृशो वेत्सि मां त्वमेव मम जीवनं गतिरपि स्वभूम्नः सुखम् ॥ ३९॥ दयाब्धिरमितोऽसि भोः सकलभूतवासो गुरुः स्वतन्त्र सकलार्थ वित्सुनिपुणो जगत्पावनः । तवात्र जगतीतले प्रकटनं च यत्स्वेच्छया स्वभक्तजनमुक्तये ध्रुवमिदं हि दत्त प्रभो ॥ ४०॥ विलम्बय जगद्गुरो क्षणमपीह मा धावने त्वदीय पददर्शनाज्जगति मां सनाथं कुरु । अपावृणु विमोहनं सकलमायिकं बन्धनं त्वदीय सकलात्मके स्थिरपदे च मां स्थापय ॥ ४१॥ त्वदीय पददर्शनात्सकलदुःख शान्तिर्नृणां त्वदीय पदपङ्कजं दहति दुष्कृतं पापकम् । कथं वसति तत्तृणं धगधगावमानेऽनिले कथं स्थिरति तत्तमो गगनमध्यसूर्यातपे ॥ ४२॥ किमर्थमिति शङ्कसे न च किमर्थमायासि भो भवेन्न मम दुष्कृतं किमपि चेत्तवाग्रे गुरो । किमस्ति खलु विघ्नकृत्प्रतिविधातुमत्र प्रभो त्वमेव परमं बृहत्तव समो न कोवाऽधिकः ॥ ४३॥ न देवरजनीचरौ मनुजवन्यवक्षादिकाः क्षमाश्च दमने तदा मनसि चेत्तवास्तीह भोः । विधिर्न च कुयोग इत्यपि भवेन्न चोपासनं किमस्ती खलु विघ्नकृत्तव न दर्शनं मे गुरो ॥ ४४॥ न कर्म सचिवोऽसि भोः फलितमीक्षसे चेद्गुरो न योग इति वक्षि चेत्कथमिदं त्वया भाव्यते । स्वतन्त्र निरुपाधिकः सकलमङ्गलस्त्वं यतः विलोभय न मां गुरो झटिति दर्शनं देहि मे ॥ ४५॥ किमर्थमतिनिर्घृणो भवसि भो दयासागरः दयाब्धिरपि निर्घृणो मम न वाक्वदेत्तत्वतः । किमर्थमतिदुर्लभं चरणदर्शनं ते वद निरूपयितुमप्यहोऽत्र तव हेतुमायाहि भोः ॥ ४६॥ अहो न खलु वारितो भवति संशयो भो यदा न सोऽहमिति वेदयः पशुसमः स वेदोऽवदत् । निजं हि कथयामि ते मम न विस्मृतं तत्कदा ह्यहं त्वमिति निश्चयो मम न संशयोऽस्मिन्क्वचित् ॥ ४७॥ न मृत्युवशगो गुरोऽहमिति भेदभानेन भो न भीरपि भवेत्प्रभो भवति सा द्वितीयाद्यतः । अहं त्वमिति चेत्कथं चिरयसे गुरो मां वद किमर्थमणुसंशयो जहि हि ते पदं दर्शय ॥ ४८॥ अहो जगदिदं गुरो विविधनामरूपात्मकं तथापि निजमात्रतोऽत्र खलु वेद्म्यहं तद्यथा । तथैव तवदर्शने मम न भिन्नभावं क्वचित् तथापि जगतीतले भवति तेन कार्यं बृहत् ॥ ४९॥ अधर्मरुचयो जना बत हितं न जानन्ति यत् अनीतिवशवर्तिनं हि बहुमन्वते लौकिकाः । अहो जगति दुर्लभा भवति तत्त्वदृष्टिर्गुरो ध्रुवं हि तव दर्शनं किल तवावतारो भुवि ॥ ५०॥ गुरो चिरय मा प्रभो त्वरय हर्शनं देहि मे ब्रुवे किमधिकं स्तुवे चिरमथो विभोऽस्मात्परम् । अतिप्रणतवत्सलोऽसि खलु विश्वकल्याणकृत् मनोभिलषितं तवास्तु निजभूम्नि मां स्थापय ॥ ५४॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यसद्गुरुभगवता श्रीधरस्वामिना विरचितं श्रीदत्तस्तोत्रं सम्पूर्णम् ॥ Proofread by Paresh Panditrao
% Text title            : Shri Datta Stotram
% File name             : dattastotramshrIdharasvAmI.itx
% itxtitle              : dattAtreyastotram 13 dattastotram (shrIdharasvAmIvirachitam)
% engtitle              : dattastotram
% Category              : deities_misc, shrIdharasvAmI, dattatreya, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : shrIdharasvAmI stotrANi.  shrIdharasandeshaH
% Indexextra            : (Marathi, Collection 1, 2, Selected)
% Latest update         : January 14, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org