श्रीहयग्रीवस्तोत्रं - संस्कृत व्याख्यानम्

श्रीहयग्रीवस्तोत्रं - संस्कृत व्याख्यानम्

श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ स्वतःसिद्धं शुद्धस्फटिकमणिभूभृत्प्रतिभटं सुधासध्रीचीभिः द्युतिभिरपतापतिभुवनम् । अनन्तैः त्रय्यन्तैरनुविदितहेषाहलहलं हताशेषावद्यं हयवदनमीडीमहि वहः ॥

व्याख्यानं

इन्दिरामन्दिरोरस्कमिन्दादिसुरवन्दितम्- वन्दारुबृन्दमन्दारं वन्दे गोविन्दबालकम् ॥ १॥ कन्दर्पसंवराकारं बृन्दावनविभूषणम् । आनन्दकन्दजं नन्दनन्दनं वन्दिषीमहि ॥ प्रणिपत्य गुरूत्तंसं श्रीमद्वेदान्तदेशिकम् । हयग्रीवस्तवव्याख्यां कुर्वेऽहं तत्प्रसादतः ॥ इह खलु श्रीमान् वेदान्तदेशिकः, सम्यगुपासनविशेषवशीकृत हृदय पुण्डरीकमध्यमण्डनायित ताण्डवप्रचण्डतुरङ्गमुख मार्ताण्डमण्डलः, सकल पण्डितनिकुरुम्बमुक्तातपत्रितकीर्तिमण्डलः, सर्वतन्त्रस्वतन्त्रः, कवितार्किककेसरी, परमकारुणिकः,भगवत्मल्याणगुणगणानुसन्धानेन अनादिसंसार सञ्चितदौष्कर्श्य पाशबन्दीकृत प्राणिबृन्दं सन्तितारयिषुः, श्रीहयग्रीवमभिष्टोतुं प्रतिजानीते (स्वत) इति । स्वतस्सिद्धं - स्वप्रकाशम्, ननु सिद्धशब्दस्य भावार्थविहित कृत्प्रत्ययान्तत्वे स्वत इति पञ्चम्यर्थभूतहेत्वर्थविहित तसिल्प्रत्ययस्यानन्वयः स्यात् - सिद्धशब्दस्य प्रकाशमात्रार्थकत्वेन, स्वशब्दस्यापि ``प्रकाशार्थकत्वेन तसिः पञ्चम्यर्थहेत्वर्थकत्वेन च प्रकाशाधीनप्रकाशार्थलाभात्, प्रकृते प्रकाशस्य नित्यत्वेन स्वात्मानं प्रति स्वस्य हेतुत्वासम्भवेन च तदसम्भवात्, कर्त्रर्थविहित कृतकृत्प्रत्ययान्तत्वे पूर्वोक्तरीत्या । स्वाधीन प्रकाशवत्त्वमर्थस्स्यात्। तथा च स्वस्येव स्वप्रकाशस्यापि नित्यत्वेन पूर्वोक्त दूषणग्रासादिति चेत्, मैवम्। उभयधाऽपि दोषाभावात्। तथाहि। आद्यपक्षे-प्रकाशस्य स्वाधीनत्वे तात्पर्याभावात्। अन्यानधीनत्वे तात्पर्यात्, द्वितीयपक्षे- स्वाधीनप्रकाशवत्त्वे तात्पर्याभावात्, अन्यानधीनप्रकाशवत्त्वे तात्पर्यात्, उभयथापि मणि प्रकाशमण्यादि व्यावृत्तिसिद्धेः। स्वतः - स्वस्मात्, सिद्धं - सिद्धिः - ज्ञानं, प्रकाश स्वरूपं; सिद्धं ज्ञातं प्रकाशितं वा; स्वाधीन प्रकाशाभिन्नं अन्याधीन प्रकाशरहितं वेत्यर्थः। सार्वविभक्तिकतसिल् प्रत्ययान्तत्वे तु प्रथमार्ध वर्णनसम्भवेन स्वयं प्रकाशार्थलाभान्न कोऽपि दोषगन्धः। यद्वा - स्वतः - स्वस्मात्, सिद्धं - उत्पन्नं, कारणान्तरापादितोत्पत्ति शून्यमित्यर्थः। नित्यमिति यावत्। अथवा, नित्यत्वं नान्याधीनमित्यावा - (स्वत) इति। अनेन नित्यमुक्त दिव्यावृत्तिः, तेषां स्वरूप स्वभावस्थितिप्रवृत्तीनां भगवदायत्तत्वात्। ननु नित्यमुक्तस्वरूव स्वभावादीनामपि नित्यत्वात्कथं भगदायत्तत्वमिति चेन्न, नित्यानामपि तद्वतिरेक प्रसञ्जितव्यतिरेक प्रतियोगित्वरूप भगवदायत्तत्वसम्भवात्। तथा च श्रुतिः- ``को ह्येवान्यात्म प्राण्यात्, यदेष आकाश आनन्दो न स्यात्'' इति - परमाणुगतपारिमाण्डल्यस्य नित्यत्वेऽप्याश्रयाधीनावस्थाया न्यायविद्भिरङ्गीकाराच्च। ननु सिद्धशब्दस्य नित्यपर्यायत्वं कथमिति चेदुच्यते - ``सिद्दे शब्दार्थसम्बन्धे'' इत्यत्र महाभाष्ये सिद्धशब्दस्य नित्यपर्यायत्वेन व्याख्यानात्। तथा हि। सिद्धशब्दस्य कः पदार्थः? नित्यपर्यायवाची सिद्धशब्दः कथं पुनः ज्ञायते? मत्कूट स्थेष्वविचालिषु भावेषु वर्तते तद्वच्च सिद्धं। सिद्धा पृथिवी, सिद्ध माकाश मित्यलं बहुना। (शुद्धस्फटिकमणिभूभृत्प्रतिभट) मिति। शुद्धस्य - निर्मलस्य, स्फटिकमणिभूभृतः - स्फटिकमयपर्वतस्य, प्रतिभटं - ततोऽप्यतिशयित कान्तिमत्त्वेन तं तिरस्कुर्वन्तमित्यर्थः । सुधासध्रीचीभिः - अमृतसहचरीखिः, द्युतिभिः - कान्तिभिः, (अपतापत्रिभुवनम्) अपगतः तापः - आध्यात्मिकाधिदैविकाधिभौतिकादि समस्तदुःखात्मकस्तापो यस्मिन् तत्; त्रयाणां भुवनानां समाहार स्त्रिभुवनं, पात्रादित्वान्न जीप्। अपतापं त्रिभुवनं यस्य तथोक्तः; हयग्रीवकान्तयश्चन्द्रमण्डलमध्यवृत्तिसुधास हितास्सत्य स्त्रिलोकीसन्तापहारिण्यो भवन्ति। मण्डलस्थस्सुधांशोः ``पुंसां कर्मानलार्तानां पापिनां क्लेशशान्तये, स्वदेतेन्दुस्समुद्रेण ह्लादयन्गोगणेनवे'' त्यादिवचनात्। अनन्तैः- निरवधिकैः,त्रय्यन्तैः - वेदान्तैः, (अनुविहितहेषाहलहलम्), अनुविहितः - अनुसृतः, हेषा - हेषाभ्यो हलहलः, अश्वध्वनिविशेषो यस्य तथोक्तम्। यथोक्तं भागवते द्वितीय स्कन्धे ब्रह्मनारदसंवादे - ``वाचो बभूवु रुशती श्वसतोऽस्य न स्त'' इति। ``तस्य ह वा तस्य महतो भूतस्य निश्वसित मेतदृग्वेद'' इति श्रुतिः। (हताशेषावद्यं) हतानि - परिहृतानि, अशेषावद्यानि - नमस्तदोषाः, येन तत्तथोक्तम्। आश्रितानामिति शेषः। यद्वा - आश्रितापराधोपेक्षकत्वमत्र विवक्षिम्। ``न स्मरत्यपकाराणां शतमप्यात्मवत्तये'' त्युक्तेः। हतानि- अत्यन्तासंश्लिष्टानि, अशेषावद्यानि - समस्तहेयानि, यस्मिन् तथोक्तम्। निखिलहेयप्रत्यनीकत्वात्तत्र दोषा न सम्भवन्तीति भावः। तथा च श्रुतिः - ``अपहतपाप्मा विरजो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्प'' इति। हयवदनं - हयस्य वदनमिव वदनं यस्य तथोक्तम्, शाक पार्थिवादित्वान्मध्यमपदलोपी समासः। (मह) इति। परं ब्रह्म ज्योतिषा मपि ज्योतिरयं पुरुषस्स्वयञ्ज्योतिः। ``तेजस्तेजस्विनामह'' मित्याद्युक्तेः। ईडीमहि - स्तुवीमहि। (ईड- स्तुतौ लडात्मनेपदम्) नित्यत्व- तेजिष्ठत्व -सकलदोषापहारित्व- वेदप्रवक्तृत्व- निर्दोषत्वादिगुणकं श्रीहयग्रीवं स्तुम इत्यर्थः। स्वभावोक्तिरलङ्कारः। ``स्वभावोक्तिरलङ्कारो यथावद्वस्तुवर्णन'' मितिलक्षणात्। अत्र स्वातन्त्र्याभिमान निवृत्तये कर्तुरनुपादानम् । प्राची सन्ध्या काचिदन्तर्निशायाः प्रज्ञादृष्टे रञ्जनश्री रपूर्वा । वक्त्री वेदान् भातु मे वाजिवक्त्रा वागीशाख्या वासुदेवस्य मूर्तिः ॥ २॥ भगवन्तं स्तोतुं तदाविर्भावप्रार्थनया तमभिमुखीकरोति। प्राचीति। वासुदेवस्य - ``सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः, तत स्स वासुदेवेति विद्वद्भिः परिपठ्यत'' इत्याद्युक्तस्य परमात्मनः, वाजिवक्त्रा -हयवदना, वागीशाख्या - वागीशेति आख्या यस्या तथोक्ता; वेदान् -ऋग्यजुस्सामाधर्वणरूपान्, वक्त्री - व्यञ्जयन्ती, ``ऋचस्सामानि जज्ञिरे छन्दाङ्ग्सि जज्ञिरे तस्मात्'' इति, ``प्रवक्ता छण्डसां वक्ता पञ्चरात्रस्य य स्स्वय''मित्यादिवचनात्। अत्र ``न लोकाय निष्ठाखलर्थतृणा''मिति षष्ठीनिषेधः। अन्तर्निशायाः - अज्ञाननिशीथिन्याः, काचित्-विलक्षणा सन्ध्या, प्राची सन्ध्या - विभातसन्ध्या, अज्ञानान्धकार निवर्तिनीति यावत्। (प्रज्ञादृष्टेः) प्रज्ञा - तत्त्वहितपुरुषार्थविषयिणी धीः, सैव, दृष्टिः - ईक्षणं, तस्याः, अपूर्वा - प्रसिद्धा विलक्षणा, अञ्जनश्रीः - अञ्जनसम्पन्मूर्तिः, तनुः मे, भातु - स्फुरतु, भा -दीप्तौ लोट्। तादृशमूर्तिसाक्षात्कारे स्वस्याप्यज्ञाननिवृत्तिपूर्वक ज्ञानवृद्धिर्भूयादित्याशयः। रूपकालङ्कारः। ``आरोप्यविषयस्य स्यादतिरोहितरूपिणः, उपरञ्जितमारोप्यमाणं तदूप्रकं मत'' मिति लक्षणात् । ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् । आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥ ३॥ पूर्वस्मिन् श्लोके हयमुखसन्निधानं प्रार्थितम्। इदानीं सन्निहितं भगवन्तमुपास्मह इत्याह (ज्ञानानन्देति)। ज्ञानानन्दमयं - ज्ञानानन्दप्रचुरम्। ``तत् प्रकृतवचने मयडिति प्राचुर्यार्थे मयट्। यद्वा - ज्ञानानन्दमयं - ज्ञानानन्दस्वरूपं, ``स्वार्थे मयट्, प्राणमय इत्यादिवत्। ``सत्यं ज्ञानमनन्तं ब्रह्म, को ह्येवान्यात्कः प्राण्यात् यदेष अकाश आनन्दो न स्या'' दित्युक्तेः। (निर्मलस्फटिकाकृतिम्) निर्मलः- जाज्वल्यमानः, स्फटिकः - स्फटिकमणिः, तस्याकृतिरिवाकृतिर्यस्य तं; सर्वविद्यानां - सकलकलानाम्, आधारं - निलयं, ``छन्दोमयो मखमयोऽखिलदेवतात्मे'' त्युक्तेः। हयग्रीवं देवमुपास्महे - ध्यायामः, ``आस- उपवेशने'' । विशुद्धविज्ञान घनस्वरूपं विज्ञानविश्राणनबद्धदीक्षम् । दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपद्ये ॥ ४॥ गुरुलघूपायभूतयोर्भक्ति प्रपत्त्योर्मध्ये प्रचरामीत्याह (विशुद्ध) मिति। अहं - दासभूतः, दयायाः निधिं - अक्षयस्थानं, तम्, अत एव देहभृतां - प्राणिनां, शरण्यं - रक्षकं, (विशुद्धविज्ञानघनस्वरूपं) विशुद्धेन - निर्मलेन, विज्ञानेन, घनं - निबिडं, अन्तर्बहिर्ज्ञानमयमित्यर्थः। यद्वा, विज्ञानरूपो घनः -पिण्डः, तद्रूपमित्यर्थः। ``विज्ञानघन एवे''ति श्रुतेः, स्वरूपं यस्य, तम्। (विज्ञानविश्राणनबद्धदीक्षम्) विज्ञानस्य - ज्ञानयोगस्य, विश्राणने - वितरणे, बद्धा -धृता, दीक्षा - सङ्कल्पः, यस्य तम्। ``तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्, ददामि बुद्धियोगं तं येन मामुपयान्ति त'' इत्यादिवचनात्। हयग्रीवं, प्रपद्ये - शरणं यामि, ``पद्ल् -गतौ'' लडात्मनेपदम्। ज्ञानस्वरूपस्य ज्ञानप्रदस्य दयाळोः सर्वभूतशरण्यस्य शरणागता अस्मत्संरक्षणं कियदिति भावः । समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः । कथादृप्यत्कौतस्कुतकलह कोलाहलभवं हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ॥ ५॥ भगवति हयास्ये भक्तिप्रपत्तिरूपोपायद्वयं विधाय,सम्प्रति चिकीर्षितस्तोत्रपरिसमाप्ति प्रतिबन्धकाज्ञानान्धकारनिवृत्तिं सर्वविघ्नोपशमाद्धयमुख हेषारवसकाशात् स्वस्य प्रार्थयते (समाहर) इति। साम्नां - सामशाखानां, समाहारः - सङ्घातः, तत्स्वरूपमिति यावत्। ``प्रणवोद्गीथवचस'' इत्युक्तेः। ऋक्साखानां, प्रतिपदं- तदर्थबोधकपर्यायपदं, यजुषां - तैत्तिरीयशाखानां, धाम - वासप्थानं, प्रत्यूहानां - विद्याप्रतिबन्धकविघ्नानां, लयः - ध्वंसः, बोधजलधेः - ज्ञानसागरस्य, लहरिविततिः - तरङ्गपरंवरा,(हयवदन हेषाहलहलः) हयवदनस्य - हयग्रीवस्य, हेषाख्यो हलहलः - अश्वध्वनिः, (कथादृप्यत्कौतस्कुतकलह कोलाहलभवम्) कथासु - वादकथासु, दृप्यन्तः कौतस्कुताः - कुतः कुत इति वादिनः, स ``कस्कादित्वात्सः'', तेषां, कलहकोलाहलेन - अयथार्थवादकलहेन, भवः - जन्यः, अन्तर्द्वान्तम्, हरतु - निवर्तयतु, ``हृञ्- हरणे''। हेषाहलहलस्य समाहाराद्यभेदोक्त्या भेदरूपकालङ्कारः । अपौरुषेयै रपि वाक्प्रपञ्चै रद्यापि ते भूतिमदृष्टपाराम् । स्तुवन्नहं मुग्ध इति त्वयैव कारुण्यतो नाथ ! कटाक्षणीयः ॥ ६॥ साक्षात्कृते भगवति विविध विचित्रानन्ताश्चर्य सनकसनन्दनादि ध्यानागोचर दिव्यस्वभावं दृष्ट्वाऽस्य भगवद्गुणानुवर्णने प्रयत्नः परिहसास्पद इत्यभिप्रेत्याह (अपौरुषेयै रिति)। हे नाथ - हे हयग्रीव, अद्यापि - इदानी मपि, अपौरुषेयैः - नित्यैः, ``अनादिनिधना ह्येषा वागुत्सृष्टा स्वयम्भुवे'' त्याद्युक्तेः। वाक्प्रपञ्चैरपि - वेदजालैरपि, (अदृष्टपाराम्) अदृष्टं - प्रतिपादनाविषयीभूतं, पारम्-अवधिः, यस्या स्सा तथोक्ता ``यतो वाचो निवर्तन्ते, अप्राप्य मनसा सहे'' ति श्रुतेः । ``नान्तोऽस्ति म दिव्यानां विभूतीनां परन्तपे'' त्यादि स्मृतेश्च । भूतिं - गुणाद्यैश्वर्यं, स्तुवन् - वर्णयन्, अहं, मुग्धः - बालः, कृत्यसाध्ये यतमान इति यावत्; इति - हेतोः, त्वया, कारुण्यत एव - कृपावशादेव, न ह्यस्मदादिषु कटाक्षनिमित्तं किञ्चिदस्तीति भावः। कटाक्षणीयः - बालेष्वकिञ्चित्कुर्वत्स्वपि परमकारुणिकस्य पितुः करुणाकटाक्षः स्वाभाविक इति भावः । दाक्षिण्यरम्या गिरिशस्य मूर्तिर्देवी सरोजासनधर्मपत्नी । व्यासादयोऽपि व्यपदेश्यवाच स्स्फुरन्ति सर्वे तव शक्तिलेशैः ॥ ७॥ लोके ये विद्यादिकाः ते सर्वेऽपि भवदीयशक्त्यंशैः स्पृशन्तीत्याह (दाक्षिण्ये) ति । हे नाथ - हे हयग्रीव, गिरिशस्य - रुद्रस्य, (दाक्षिण्यरम्या) दाक्षिण्यीन - सुखप्रियवचनादिना, रम्या -मनोहरा, यद्वा, दाक्षिण्येन - विद्याप्रदान सामर्थ्वेन, रम्या - मनोज्ञा, मूर्तिः, सरोजासनस्य - चतुर्मुखस्य, धर्मपत्नी - सहधर्मचरी, देवी - सरस्वती, व्यपदेश्यवाचः - प्रसिद्ध ग्रन्थकर्तारो व्यासादयः, व्यासवाल्मीकिशुक पराशरादयोऽपि, सर्वे - पूर्वसमुदितव्यतिरिक्ताः, तव शक्तिलेशैः - विद्याशक्त्यंशैः, स्फुरन्ति - भान्ति। ``न तत्र सूर्यो भाति न चन्द्रतारकं, नेमा विद्युतो भान्ति कुतोऽयमग्निः, तमेव भान्त मनुभाति सर्वं तस्य भासा सर्वमिदं विभाती'' ति श्रुतेः। ``यद्यद्विभूतिमत्सत्वं श्रीमदूर्जितमेव वा, तत्तदेवावगच्छ त्वं मम तेजोऽंशसम्भव'' मिति स्मृतेश्च । मन्दो भविष्यन्नियतं विरिञ्चो वाचां निधे! वञ्चितभागधेयः । दैत्यापनीतां दययैव भूयोऽप्यध्यापयिष्यो निगमान्नचेत्त्वम् ॥ ८॥ ब्रह्मादीनामपि प्रमादकाले त्वमेव गतिरित्याह (मन्द) इति। हे वाचां निधे - वागीश, त्वं - भवान्, (दैत्यापनीतान्) दैत्येन - असुरेण, अपनीतान् - अपहृतान्, निगमान् - वेदान्, भूयोऽपि - पुनरपि, दयया - कारुण्येनैव, नाध्यापयिष्यो यदि, विरिञ्चः - ब्रह्मा, वञ्चितभागधेयः - प्रतारितभाग्यस्सन्, मन्दः - जडः, कार्याकार्यविवेकशून्यः; अभविष्यत्। हेतुहेतुमतोर्लृज्। नियतं - ध्रुवम्। ``आपन्नानां परा गति'' रित्युक्तरीत्या ब्रह्मदीनामप्यापत्काले त्वमेव गति रिति भावः। अत्र मधुकैटभाभ्यां चतुर्मुखं प्रतार्य वेदा अपहृताः, ततः प्रबुद्धेन ब्रह्मणा भगवान् प्रसादितः मत्स्यरूपेणावतीर्य, तौ हत्वा वेदान् सङ्गृह्य धात्रे व्यतरदिति पौराणिकी कथाऽनुसन्धेया । वितर्कडोलां व्यवधूय सत्त्वे बृहस्पतिं वर्तयसे यतस्त्वम् । तेनैव देव! त्रिदशेश्वराणामस्पृष्टडोलायितमाधिराज्यम् ॥ ९॥ इन्द्रादीनामपि चाधिकारस्य स्थिरीकरणं त्वदायत्तमेवेत्याह (वितर्के) ति। हे देव - हे हयग्रीव, यतः - यस्माद्धेतोः, त्वं, बृहस्पतिं - धिषणं, (वितर्कडोलां) वितर्कैः - दुरूहैः, डोलां - चित्तचञ्चलताम्, रजस्तमःकार्यभूताम्; तां, व्यवधूय - निवार्य, सत्वे - सत्वमार्गे, वर्तयसे - प्रतिष्ठापयसे, तेनैव - त्रिदशेश्वराणां - इन्द्रादीनाम्, आधिपत्यं - स्वर्गाधिपत्यम्, (अस्पृष्टडोलायितम्) अस्पष्टं - अनधिगतं, डोलायितं येन तत्तथोक्तम्, स्थिरमिति यावत्। अभूदिति शेषः बृहस्पतिः तत्प्रदर्शित सन्मार्ग निष्ठस्सन् तेनैव मार्गेण इन्द्रादीन् वर्तयते अन्यथा असुरवंशैः सुरवंशोऽपि अलब्धश्रीराज्यकोशः क्षयं यादित्याशयः, संशयो हि हेयगुणः। ``अज्ञश्चा श्रद्धधानश्च संशयात्मा विनश्यति, नायं लोकोऽस्ति न परो न सुखं संशयात्मनः, योगसन्न्यस्त कर्माणं ज्ञान सञ्छिन्नसंशयम्, आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय'' इत्यादि भगवदुक्तेः । अग्नौ समिद्धार्चिषि सप्ततन्तो रातस्थिवान् मन्त्रमयं शरीरम् । अखण्डसारैर्हविषां प्रदानैराप्यायनं व्योमसदां विधत्से ॥ १०॥ इन्दाद्रीनां हविर्भागप्रदानमुखेन तृप्तिकरोऽपि भवानेवेत्याह(अग्ना)विति। हे देव - हे हयग्रीव, सप्ततन्तोः सम्बन्धिनि, (समिद्धार्चिषि) समिद्धानि - प्रज्वलितानि, अर्चींषि - तेजांसि, यस्य तस्मिन्नग्नौ मन्त्रमयं - मन्त्रात्मकम्, शरीरं - विग्रहं, आतस्थिवान् - सम्प्राप्नुवन् सन्। ``अहं क्रतु रहं यज्ञ स्स्वधाह महमौषधम्, मन्त्रोऽहमहमेवाज्य महमग्नि रहंहुत'' मित्याद्युक्तेः, (अखण्डसारैः) अखण्डाः - अविच्छिन्नाः, साराः - माधुर्यादिरसाः, येषु तैः; हविषां - पुरोडाशादिहविषां, प्रदानैः - वितरणैः, व्योमसदां - इन्द्रादिदेवानाम्, आप्यायनं - तृप्तिं, विधत्से - विदधासि, ``डु- धाञ्धारणपोषणयोः''। ``अहं हि सर्वयज्ञानां भोक्ता च प्रभु रेव च, सत्रे ममास भगवान् हयशीर्ष एषः, साक्षात्सयज्ञपुरुषस्तपनीयवर्णः, छन्दोमयस्सोऽखिलदेवतात्मा वाचो बभूवु रुशतीश्श्वसतोऽस्य नस्त'' इत्यादिवचनात् । यन्मूलमीदृक्प्रतिभाति तत्त्वं या मूलमाम्नायमहाद्रुमाणाम् । तत्त्वेन जानन्ति विशुद्धसत्त्वा स्तामक्षरामक्षरमातृकां ते ॥ ११॥ प्रपञ्चस्य मूलकारणमपि त्वमेवेत्याह (यन्मूलमिति)। हे देव, (विशुद्धसत्त्वाः) विशुद्धं - निर्मलं, सत्त्वं - सत्त्वगुणः, येषां ते तथोक्ताः; ईदृक् - देवतिर्यङ्मनुष्य स्थावरात्मना अबाधि तत्वेन प्रमाणसिद्धं, तत्त्वं - चतुर्विंशतिमहदादितत्त्वं, (यन्मूलं) यत् मूलं यस्य तथोक्तम्; (आम्नाय महाद्रुमाणाम्) आम्नायाः - वेदा एव, महाद्रुमाः - वृक्षाः, तेषां, या मूलं, ताम्, अक्षरां- नित्याम्, अक्षरमातृकां - अकाराद्यक्षरसमष्टिं, ते - त्वत्सम्बन्धिनं, तत्त्वेन - याथार्थ्येन, जानन्ति- विदन्ति। ``ज्ञा - अवबोधने। ``वेदेन रूपे व्यकरोत्सता सती प्रजापतिः'', ``वेदशब्देभ्य एवादौ देवादीनां चकार सः'' इति वेदस्य जगत्सृष्टि हेतुत्वात्तन्मूलभूताया अक्षरमातृकाया अपि त्वदधीन त्वात्साक्षात्परम्परया वा कृत्स्नमपि प्रपञ्चजातं त्वत्त एवोत्पन्नमिति भावः। ``यतो वा इमानि भूतानि जायन्ते'', ``तदैक्षत, बहुस्यां प्रजायेयेति, तत्तेजोऽसृजत'', ``यन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सप्रतिष्ठाः, ``ऋचस्सामानि जज्ञिरे छन्दाङ्ग्सि जज्ञिरे तस्मात्'', ``कार्याणां कारणं पूर्व''मित्याद्यत्रानु सन्धेयम् । अव्याकृताद्व्याकृतवानसि त्वं नामानि रूपाणि च यानि पूर्वम् । शंसन्ति तेषां चरमां प्रतिष्ठां वागीश्वर! त्वां त्वदुपज्ञवाचः ॥ १२॥ उत्पन्न प्रपञ्चस्य पर्यवसान स्थानमपि त्वमेवेत्याह (अव्याकृतादि)ति। हे वागीश्वर, त्वम्, अव्याकृतात् - प्रधानात्, पूर्वं - प्रथमं, यानि नामानि - वाचकानि, रूपाणि - पृथिव्यादिसंस्थानानि च, व्याकृतवान् - प्रणीतवानसि, ``इमा स्तिस्रो देवताः अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणी'' ति श्रुतेः। तेषां - नामरूपाणां, चरमां प्रतिष्ठां - पर्यवसानभूमिं, भवन्तं, (त्वदुपज्ञ वाचः) त्वत् - तव, उपज्ञानि - त्वया आदौ दृष्टानि, ``उपज्ञोऽपक्रमं ``तदाद्या चिख्याया''मिति नपुंसकत्वम्। तानि, वाचश्च तथोक्तः, वेदा इत्यर्थः; शंसन्ति - वदन्ति, ``शंसु - स्तुतौ''। शरीरभूतानां पृथिव्यानां शरीर्यायत्तस्थितित्वात्; नाम्नां वाचकानां प्रकारद्वारा प्रकारिपर्यन्तवृत्तिकत्वादिति भावः ``यस्य पृथिवी शरीरं यस्यापश्शरीरं यस्य तेजश्शरीरं यस्य वायुश्शरीरं यस्याकाशश्शरीरं यस्याक्षरं शरीर''मित्यादि श्रुतेः; ``वचसां वाच्यमुत्तम''मित्यादि स्मृतेश्च । मुग्धेन्दुनिष्यन्दविलोभनीयां मूर्तिं तवानन्दसुधाप्रसूतिम् । विपश्चितश्चेतसि भावयन्तो वेलामुदारामिव दुग्धसिन्धोः ॥ १३॥ योगिनो मोक्षरूपफलावाप्तये त्वामेव चिन्तयन्तीत्याह (मुग्धे) ति। हे वागीश्वर, तव, (आनन्दसुधाप्रसूतिम्) आनन्द एव, सुधा - अमृतं, तस्याः प्रसूतिर्जन्म यस्यास्तां तथोक्ताम्; ``रसो वै सः, रसङ्ग् ह्येवायं लब्ध्वा नन्दी भवति, एष ह्येवानन्दयाति'' इति श्रुतेः ।(मुग्धेन्दुनिष्यन्दविलोभनीयाम्) मुग्धेन्दोः, निष्यन्दवत् - प्रवाहवत्, अभूतोपमा। विलोभनीयां - स्पृहणीयां, दुग्धसिन्धोः, उदारां- श्रेष्ठां, वेलामिव - सेतुमिव स्थितां, मूर्तिं - विग्रहं, विपश्चितः - ज्ञानिनः, चेतसि - हृदये, भावयन्ति - परिशीलयन्ति, आनन्द सुधाकरत्वादितर विषयान् परिहृत्य तत्रैव रमन्त इत्यर्थः। ``महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः, भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्, सततं कीर्तयन्तो मां यतन्तश्च दृढप्रताः, नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते, तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः, ``रमन्ते योगिनोऽनन्ते नित्यानन्दे चिदात्मनी'' त्यादि वचनात्; तदुक्तं भगवता -``अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते, तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यह'' मिति । मनोगतं पश्यति य स्सदा त्वां मनीषिणां मानसराजहंसम् । स्वयं पुरोवादविवादभाजः किङ्कुर्वते तस्य गिरो यथार्हम् ॥ १४॥ हयग्रीवमुपासीनः पुमान् प्रयत्नं विनैव विद्यां लभत इत्याह (मनोगत) मिति। (मानसराजहंसं) मानसं - मन एव मानसं, मानसाख्यसरः; तत्र, राजहंसं - राजहंसवद्विहरणोत्सुकमित्यर्थः; त्वां मनीषिणां मध्येयः - पुमान्, सदा - सर्वदेशसर्वकालसर्वावस्थासु, ``तस्मात्सर्वेषु मामनुस्मर युध्य च'', ``यन्मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते, सा हनिस्तन्महच्छिद्रं सा भ्रान्ति स्सा च विक्रिये'' त्याद्युक्तैः; मनोगतं - हृदयस्थं, पश्यति - साक्षात्करोति, मनसा चिन्तयतीत्यर्थः। तस्य - जनस्य, गिरः - वाचः, स्वयं - यत्नं विनैव, (पुरोवाद विवादभाजः) पुरोवादे - प्राथमिकोपस्थितौ, विवादं - अन्योन्यकलहं, भाजः - भजन्तः, अहमहमिकया प्रथमं स्फुरन्त इत्यर्थः; तास्सत्यः, यथार्हं - यथायोग्यं, किङ्कुर्वते - किङ्करत्वं भजन्ते, ``डुकृञ् - करणे'' । अपि क्षणार्थं कलयन्ति ये त्वामाप्लावयन्तं विशदैर्मयूखैः । वाचां प्रवाहैरनिवारितै स्ते मन्दाकिनीं मन्दयितुं क्षमं ते ॥ १५॥ न केवलं त्वामुपासीनस्य विद्याफलमात्रमपि त्वतिवाचालकत्वमपीत्याह (अपी) ति। हे वागीश, विशदैः - स्वच्छैः मयूखैः - किरणैः, आप्लावयन्तं - ह्लादयन्तं, सेवकानिति शेषः। त्वां, ये - भक्ताः, क्षणार्थमपि - सूक्ष्मकालमपि, कलयन्ति - ध्यायन्ति, ते - भक्ताः, अनिवारितैः - प्रतिवादिभिर्निरोद्धुमशक्यैः, वाचां - गिरां, प्रवाहैः - परम्पराभिः, मन्दाकिनीं - गङ्गां, मन्दयितुं - अल्पवेगां कर्तुम्, क्षमन्ते - शक्नुवन्ति, तेषां वाग्वेगो गङ्गा प्रवाहवेगादप्यतिशयितस्स्यादिति भावः । स्वामिन्! भवद्योगसुधाभिषेकाद्वहन्ति धन्याः पुलकानुबन्धम् । अलक्षिते क्वापि निरूढमूलमङ्गेष्विवानन्दधुमङ्कुरन्तम् ॥ १६॥ धन्यानामेव त्वयि लाभ इत्याह (स्वामिन्नि) ति। हे स्वामिन् - वागीश, (भवद्योग सुधाभिषेकात्) भवतस्सम्बन्धी योगः - भक्तियोगः, स एव सुधा, तया, अभिषेकः - स्नपनं, तस्मादित्यर्थः; अलक्षिते - अदृष्टे, क्वापि - क्वचित्प्रदेशेऽपि, ``योगी युञ्जीत सततमात्मानं रहसि स्थितः, एकाकी यतचित्तात्मा निराशीरपरिग्रहः, शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः, नात्युच्छ्रित्रं नातिनीचं चेलाजिनकुशोत्तर''मित्याद्युक्तेः; (निरूढमूलम्) निरूढं - दृढतरम्, मूलं यस्य तम्; अङ्गेषु - अवयवेषु, अङ्कुरन्तं - उद्यन्तम्, अनन्दधुमिव स्थितं - आनन्द मिव स्थितं, ``स्यादानन्द धु रानन्द'' इत्यमरः। पुलकानुबन्धं - रोमाञ्चं, धन्याः - भाग्यवन्तः, वहन्ति - प्राप्नुवन्ति। ``वह - प्रापणे''। उपमालङ्कारः । स्वामिन्! प्रतीचा हृदयेन धन्यास्त्वद्ध्यान चन्द्रोदयवर्धमानम् । अमान्तमानन्दपयोधिमन्तः पयोभिरक्षां परिवाहयन्ति ॥ १७॥ त्वां चिन्तयन् परमानन्दमनुभवतीत्याह (स्वामि) न्निति। हे स्वामिन् - हयग्रीव, धन्याः - भाग्यवन्तः, प्रतीचा ``अभ्यासयोगयुक्तेन चेतसा नान्यगामिने'' त्युक्तरीत्या अन्तर्मुखेन, हृदयेन - मनसा, त्वद्ध्यानं चन्द्रोदयः, तेन वर्धमानं -जृम्भमाणम्, अत एव, अन्तर्हृदये, अमान्तं - अपर्याप्तम्, उद्वेलमिति यावत्; आनन्दपयोधिं - सुधाब्धिं, अक्षां पयोभिः - आनन्दबाष्पैः, परिवाहयन्ति - प्रस्रवन्ति । स्वैरानुभावत्वदधीनभावास्संरब्धवीर्यां त्वदनुग्रहेण ॥ विपश्चितो नाथ! तरन्ति मायां वैहारिकीं मोहनपिञ्छिकां ते ॥ १८॥ भवद्योगिनः त्वत्कटाक्षेणैव मायां तरन्तीत्याह (स्वैरानुभावे) ति हे नाथ - हे हयग्रीव, (स्वैरानुभावद्वदधीनभावाः) सैरानुभावस्य - स्वेच्छाविहारस्य, त्वत्, तव, अधीनं - वशंवदः, भावः - अभिप्रायः येषां ते तथोक्ताः; विपश्चितः - ज्ञानिनः, त्वदनुग्रहेण - त्वत्सङ्कल्पेन, संरुद्धवीर्यां - निरुद्धशक्तिं, वैहारिकीं - लीलोपकरणभूतां, मोहनपिञ्छिकां - सकललोकव्यामोहनकरीं मयूरादि पिञ्छभूताम्। लोके इन्द्रजालिकविद्यावतां विविधविचित्रानन्ताश्चर्यकरकार्यजनन समर्थः कश्चन पिञ्छविशेषः प्रसिद्धः। ``मयां तु प्रकृतिं विद्यान्मायिनं तु महेश्वर'' मित्याद्युक्तेः; त्वदनुग्रहेण - त्वत्प्रसादेन, तरन्ति - अतिक्रामन्ति । प्राङ्निर्मितानां तपसां विपाकात्प्रत्यग्र निःश्रेयस सम्पदो मे । समेधिषीरन् तव पादपद्मे सङ्कल्पचिन्तामणयः प्रणामाः ॥ १९॥ जन्मान्तर कृत तपश्शालिनां मायातरणे त्वत्पादारविन्द प्रणमनमेव शरणमित्याह (प्रागि)ति। हे नाथ - हे हयग्रीव, (प्रत्यग्रनिःश्रेयससम्पदः) प्रत्यग्रा - नूतना, निश्रेयससम्पत् येषु तथोक्ताः; (प्राङ्निर्मितानां) प्राक् - पूर्वजन्मनि, निर्मितानां - कृतानां, तपसां, विपाकाः - परिपाकभूताः, (सङ्कल्पचिन्तामणयः) सङ्कल्पस्य - इच्छायाः, चिन्तामणयः, प्रणामाः, तव - भवतः, पादपद्मे - पादारविन्दे, समेधिषीरन् - समभिवृद्धा भूयासुरित्यर्थः, ``एध-वृद्धौ''। ``हरत्यघं सम्प्रति हेतुरेष्यतश्शुभस्य पूर्वाचरितैः कृतं शुभैः, शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यता'' मित्युक्तरीत्या भूतभविष्यद्वर्तमानकालेषु भवदीय पादारविन्दसेवा यशस्करीति भावः । विलुप्तमूर्धन्यलिपिक्रमाणां भूयान् प्रसादो मयि नाथ भूयात् । त्वदङ्घ्रिराजीव रजःकणानां सुरेन्द्रचूडापद लालितानाम् ॥ २०॥ पूर्वस्मिन्श्लोके प्रणामातिवृद्धिः प्रार्थिता; इदानीं पादारविन्द प्रणामानन्तरं पादरजसां प्रसादः प्रार्थ्यते (विलुप्तै)रिति। हे नाथ - हे हयग्रीव, (विलुप्तमूर्धन्यलिपिक्रमाणां) विलुप्तः - प्रमृष्टः, मूर्धन्यः - मूरि जातः, (शरीरावयवाद्यत्) लिपीनां - अक्षराणां, क्रमः - पङ्त्किः, येषां ते तथोक्ताः; ``परिसरविनतानां मूर्ध्नि दुर्वर्णपङ्त्किं परिणमयसि शौरेः पादुके त्वं सुवर्णम्'' - ``अयं दरिद्रो भवितेति वैधसीं लिपिं ललाटेऽर्थिजनस्य जाग्रत्रीम्, मृषा न चक्रेऽल्पितकल्पपादपः प्रणीय दारिद्यदरिद्रतां नळः'' इत्युक्तरीत्या (ब्रह्मणा तत्कर्मानुगुण्येन लिखीतां दारिद्याद्रिसूचक ललाटलिपिं स्वयमतिशय प्रदानेनान्यथा नयतीत्यर्थः; अत एव, (सुरेन्द्रचूडापद लालितानाम्) सुरेन्द्रैः ब्रह्मादिभिः, चूडापदैः- मौळिभिः, लालितानां - श्लाघितानां, त्वत्पादारविन्दप्रणतिकाले विरोभूषणत्वेन उह्यमानानामित्यर्थः; (त्वदङ्घ्रिराजीव रजःकणानाम्) त्वत् - तव, अङ्घ्रिराजीवस्य - पादारविन्दस्य, रजःकणानां - परागलेशानां, भूयान् - महान्, प्रसादः - अनुग्रहः, मयि, भूयात्, ``भू- सताया'' माशिषि लिङ् । परिस्फुरन्नूपुर चित्रभानु प्रकाशनिर्धूत तमोऽनुषङ्गाम् । पदद्वयीं ते परिचिन्महेऽन्तः प्रबोधराजीव विभातसन्ध्याम् ॥ २१॥ अज्ञानान्धकार निवर्तकं ज्ञानोदयहेतुं त्वत्पादारविन्दं मनसा ध्यायामीत्याह (परिस्फुरन्नि) ति। हे नाथ - हे हयग्रीव, परिस्फुरन्नूपुर एव चित्रभानुः - सूर्यः, तस्य प्रकाशेन - तेजसा, निर्धूतः - प्रतिक्षिप्तः, तमोऽनुषङ्गः - तमस्संयोगः, यस्या स्तां, तथोक्ताम्;(प्रबोधराजीव विभातसन्ध्याम्) प्रबोधः - ज्ञानमेव, राजीवं - तस्य, विभातसन्ध्यां - पूर्वसन्ध्यां, ते, पदद्वयीं - चरणयुगळम्, अन्तः - मनसि, परिचिन्महे - परिशीलयामहे, ``चिञ् - चयने'' । त्वत्किङ्करालङ्करणोचितानां त्वयैव कल्पान्तरपालितानाम् । मञ्जुप्रणादं मणिनूपुरं ते मञ्जूषिकां वेदगिरां प्रतीमः ॥ २२॥ नूपुरमभिवर्णयति (त्वत्किङ्करे) ति। हे नाथ! (त्वत्किङ्करालङ्करणोचितानाम्) त्वत् - तव, किङ्कराणां - भक्तानाम्, अलङ्करणं - त्वत्पादारविन्दरूप शिरोभूषणम्, तस्य, उचितानां - प्रतिपादनयोग्यानां, यद्वा, त्वत्किङ्कराणां - ब्रह्मादीनां, अलङ्करणे - अलङ्कारकरणे, उचितानां - योग्यानाम्। अनेन विशेषणेन वेदगिरामाभरणत्वाकारो व्यज्यते; अत एव नूपुरमञ्जूषिकात्वेन रूपणं सङ्गच्छते। त्वयैव - भवतैव, कल्पान्तरपालितानां - रक्षितानां, वेदगिरां - वेदवाक्यानां, (मञ्जुप्रणादम्) मञ्जु - मनोहरः, प्रणादः - शिञ्जारवः, यतः मणिनूपुरपेटिकागर्भगतवेदक्यानि शिञ्जारवत्वेन निगद्यन्त इति भावः; मणिनूपुरं - मणिमयशिञ्जीरं,मञ्जूषिकां - पेटिकां, प्रतीमः - जानीमः, ``इण् - गतौ''। लोके यथा धनवान् पुत्रपौत्रादीनां रक्षणार्धं सर्वाभरणजातं सङ्गोप्य पेटिकां सङ्गृह्णाति तद्वदितिभावः । सञ्चिन्तयामि प्रतिभादशास्थान् सन्धुक्षयन्तं समयप्रदीपान् । विज्ञानकल्पद्रुमपल्लवाभं व्याख्यानमुद्रामधुरं करं ते ॥ २३॥ इतः परं त्रिभिः श्लोकैः पाणिपङ्कजमभिवर्णयति (सञ्चिन्तयामी)ति। हे नाथ!, (प्रतिभादशास्थान्) प्रतिभा - तात्कालिकोपस्थितिः, सैव, दशा - वर्तिः, तस्यां वर्तमानान्, समयप्रदीपान् - वेदाविरुद्धसिद्धान्तप्रदीपान्, सन्धुक्षयन्तं - अभिवर्धयन्तं, व्याख्यानकाले आवश्यकप्रबोधमुद्रया अङ्गुळ्या दीपवत्सकलसिद्धान्त रहस्यार्थप्रकाशनेन सर्वे सिद्धान्ता अभिवृद्धा भवन्तीत्यर्थः। (विज्ञानकल्पद्रुम पल्लवाभम्) विज्ञानमयभगवच्छरीरमेव कल्पद्रुमः - कल्पतरुः, तस्य, पल्लवानां - किसलया नाम्, आभेवाभा यस्य तम्; (व्याख्यानमुद्रामधुरम्) - व्याख्यान मुद्रया- बोधमुद्रया, मधुरं - मनोहरं, करं - पाणिं, सञ्चिन्तयामि - ध्यायामि। रूपकोपयोस्सङ्करः । चित्ते करोमि स्फुरिताक्षमालं सव्येतरं नाथ! करं त्वदीयम् । ज्ञानामृतोदञ्चनलम्पटानां लीलाघटीयन्त्रमिवाश्रितानाम् ॥ २४॥ (चित्त) इति - हे नाथः!, त्वदीयं - भवदीयं, (स्फुरिताक्षमालम्)। स्फुरिता - प्रकाशमाना, आक्षमाला - जपमाला यस्य तम्। (ज्ञानामृतोदञ्चन लम्पटानाम्) ज्ञानामृतस्य, उदञ्चने - उद्धरणे, लम्पटाः - आसक्ताः, आयासवन्त इति यावत्; तेषां, तथोक्तानामाश्रितानाम्, लीलाघटीयन्त्रमिव स्थितं - लीलाचरणार्थं निर्मितो यो घटीयन्त्रविशेषः, तमिव स्थितम्, सव्येतरं - दक्षिणम्, चित्ते - हृदये, करोमि - प्रतिष्ठापयामि । प्रबोधसिन्धोररुणैः प्रकाशैः प्रवाळसङ्घातमिवोद्वहन्तम् । विभावये देव! सपुस्तकं ते वामं करं दक्षिणमाग्रितानाम् ॥ २५॥ (प्रबोधे)ति। हे देव - हयवदन, ते - तव, प्रबोधसिन्धोः - ज्ञानसागरस्य, अरुणैः - ताम्रैः, प्रकाशैः - कान्तिभिः, प्रवाळसङ्घातं - विद्रुमसङ्घम्, उद्वहन्तमिव स्थितं - बिभ्रतमिव स्थितम्, सपुस्तकं - पुस्तकसहितम्, आश्रितानां दक्षिणं - विद्याप्रदानसमर्थम्, वाममपि दक्षिणमिति विरोधः - तत्परिहारः पूर्वोक्तरीत्या। सव्यं करं, विभावये - ध्यायामि । तमांसि भित्वा विशदैः प्रकाशैस्सम्प्रीणयन्तं विदुष श्चकोरान् निशामये त्वां नवपुण्डरीके शरद्घने चन्द्रमिव स्फुरन्तम् ॥ २६॥ अवयवसौन्दर्यमभिवर्ण्य, विग्रह सौन्दर्यमभिवर्णयति (तमांसी) ति। हे देव!, तमांसि-अन्तर्बाह्यन्धकारान्, विशदैः - स्वच्चैः, प्रकाशैः, भित्वा - छित्वा, विदुषश्चकोरान् - पण्डितानेव चकोराख्यशकुनिविशेषान्, सम्प्रीणयन्तं - सन्तोषयन्तम्, नवपुण्डरीके - नूतन प्रपुल्लपद्मे, स्फुरन्तम्, अत एव शरद्घने- शरत्माल मे ,स्फुरन्तं चन्द्रमिव स्थितं, त्वाम्, निशामये-साक्षात्कुर्वे। उपमालङ्कारः । दिशन्तु मे देव! सदा त्वदीया दयातरङ्गानुचराः कटाक्षाः । श्रोत्रेषु पुंसाममृतं क्षरन्तीं सरस्वतीं संश्रितकामधेनुम् ॥ २७॥ भगवतो विद्यां प्रार्थयते (दिशन्त्वि)ति। हे देव, त्वदीयाः, दयातरङ्गानु चराः - कृपाकल्लोल सहचराः, कटाक्षाः, पुंसां श्रोत्रेषु, अमृतं - सुधाम्, क्षरन्तीं - स्रवन्तीम्, श्रोत्रानन्दकरीमित्यर्थः संश्रितकामधेनुं - आश्रितानामभीष्टदायिनीम्, स्वर्धेनुमिव स्थितां, सरस्वतीम्, सदा मे, दिशन्तु - वितरन्तु, दिश - अतिसर्जने । विशेषवित्सारिषदेषु नाथ! विदग्धगोष्ठी समराङ्गणेषु । जिगीषतो मे कवितार्किकेन्द्रान् जिह्वाग्र सिंहासनमभ्युपेयाः ॥ २८॥ कुमतिवादभञ्जनार्थं वादकाकालेषु भगवत्सन्निधानं प्रार्थयते (विशेष वित्पारिषदेष्वि)ति। हे नाथ - हयग्रीव, त्वमित्यध्याहरः; विशेषविदां - वादप्रतिवादविशेषज्ञानां, पारिषदेषु - परिषद्युक्तेषु, (विदग्धगोष्ठी समराङ्गणेषु) विदग्धानां - समर्थानाम्, गोष्ठ्याः - समाजस्य, समराङ्गणेषु - वादशालासु, (कवितार्किकेन्द्रान्) कवीनां - गद्यपद्य रचनासमर्थानाम्, तार्किकानां - ऊहपोहादि नानाविधयुक्तिचतुराणाम्, इन्द्रान् - श्रेष्ठान्, जिगीषतः - जेतुमिच्छतः, मे, (जिह्वग्र सिंहासनम्) - जिह्वायाः - रसनायाः, अग्रमेव सिंहासनं - सिंहपीठम्, अभ्युपेयाः - प्राप्नुयाः, ``इण् - गतौ'' । त्वां चिन्तयं स्त्वन्मयतां प्रपन्नस्त्वामुद्गृणन् शब्दमयेन धाम्ना । स्वामिन्! समाजेषु समाधिषीय स्वच्छन्दवादाहवबद्धशूरः ॥ २९॥ त्वत्सन्निधानवशादेव प्रतिवातिकोलाहलान् स्तम्भयामीत्याह(त्वामि)ति। हे स्वामिन् - हयग्रीव, त्वां - भवन्तं, चिन्तयन्, ध्यायन्, त्वन्मयतां - त्वदात्मत्वम्, प्रपन्नः - प्राप्तः, शब्दमयेन - मन्त्रमयेन, धाम्ना - तेजसा, त्वा मुद्गृणन् - स्तुवन्, अहमिति शेषः। समाजेषु - महत्सभासु, (स्वच्छन्द नादाहवबद्धशूरः) स्वच्छन्दवादानामाहवेषु - युद्धेषु, बद्धः - सन्नद्धः, शूरः - निपुणः, समेधिषीय - वृद्धिं प्राप्नुयाम्, ``एध-वृद्धौ'' आत्मनेपदम्। भवन्तं ध्यायतां स्तुवतां च वादकधादासु विजयस्स्वादिति भावः । नानाविधानामगतिः कलानां न चापि तीर्थेषु कृतावतारः । ध्रुवं तवानाथपरिग्रहाया नवं नवं पात्रमिदं दयायाः ॥ ३०॥ भगवतस्सर्वाभीष्टं सम्प्रार्थ्य, तस्य कृपोदयाय स्वस्यानन्यगतिकत्वमनुसन्दधाति (नानाविधाना)मिति। हे स्वामिन्, नानाविधानां - नानाप्रकाराणाम्, कलानां - विद्यानाम्, अगतिः - अप्राप्यस्थानम्, (न चापि तीर्थेषु कृतावतारः) तीर्थेषु - गङ्गादिपुण्यतीर्थेषु, कृतावतारः - कृतः - अनुष्ठितः, अवतारः - अवगाहनं येन स तथोक्तः, स्नात इति यावत्; तादृशोऽपि नेत्यर्थः। ईदृशोऽहं तव, अनाथपरिग्रहायाः - अनाथानां -दीनानाम्, परिग्रहायाः - अनुग्रह हेतुभूतायाः, त्वदीयाया, दयायाः - कृपायाः, नवन्नवं - अत्यन्ताभि नवम्, अत्यन्तविलक्षणमिति यावत्। पात्रं - विषयः, अस्तीति शेषः; ध्रुवं - निश्चयः, त्वदेक शरणावयं न साधनान्तरावलम्बिन इति भावः । अकम्पनीयान्यपनीतिभेदैरलङ्कृषीरन् हृदयं मदीयम् । शङ्काकळङ्कापगमोज्वलानि तत्त्वानि सम्यञ्चि तव प्रसादात् ॥ ३१॥ इदानीं त्वदेकशरणस्य मे त्वत्प्रसादादेव समस्ततत्त्वानि करतलामलका नीत्याह (अकम्पयानी)ति। हे स्वामिन्, तव, प्रसादात् - अनुग्रहात्, अपनीतिभेदैः - नानाविधान्यायैरपि, अकम्पनीयानि - अप्रमृज्यानि, (शङ्काकळङ्कापग मोज्वलानि) शङ्का - अप्रामाण्यशङ्का, सैव कळङ्कः, तस्यापगमः - निरासः, तेन उज्ज्वलानि - प्रकाशमानानि, सम्यञ्चि - यथार्थानि, तत्त्वानि, मदीयं - मत्सम्बन्धि, हृदयं - मानसम्, अलङ्कृषीरन् - अलङ्कुर्वन्तु, तव प्रसादवशात्सर्व तत्त्वसाक्षात्कारो भूयादित्यर्थः। ``डुकृञ्-करणे।'' व्याख्यामुद्रां करसरसिजैः पुस्तकं शङ्खचक्रे बिभ्रद्भिन्नस्फटिकरुचिरे पुण्डरीके निषण्णः । अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन्मां आविर्भूयादनघमहिमा मानसे वागधीशः ॥ ३२॥ अथ हयग्रीवमूर्ते रसाधारण स्वरूप ध्यानपदवीमधिरोहति (व्याख्या मुद्रामि)ति। करसरसिजैः - चतुर्भिः करारविन्दैः, शङ्खचक्रे, पुस्तकं - श्रीकोशम्, व्याख्यामुद्रां - बोधमुद्रां चेति शेषः; बिभ्रत् - वहन्, भिन्नस्फटिकरुचिरे - दळितस्फटिकमनोहरे,पुण्डरीके - सिताम्बोजे, निषण्णः - आसीनः, अम्लानश्रीः - नित्यश्रीः, नित्यशोभः; अत एव (अनघमहिमा) अनघः - निर्दुष्टः, महिमा - माहात्म्यम्, यस्य स तथोक्तः; वागीशः - हयग्रीवः, अमृतविशदैः - अमृतस्वच्छैः, अंशुभिः - किरणैः, मां - संसाराभितप्तम्, प्लावयन् - सेचयन्, ममेत्यध्याहरः; मानसे - चित्ते, आविर्भूयात् = सन्निधेयात्, ``भू सत्ताया'' माशिषि लिज्। मनसि हयगीवाविर्भावे अमृत कल्पतत्किरणजालैर्मनोगत सकल सन्ताप निवृत्तिर्मे भवेदित्याशयः । वागर्थसिद्धिहेतोः पठत हयग्रीवसंस्तुतिं भक्त्या । कवितार्किककेसरिणा वेङ्कटनाथेन विरचितामेताम् ॥ ३३॥ इति कवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीहयग्रीवस्तोत्रं सम्पूर्णम् । कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ श्रीमते निगमान्त महादेशिकाय नमः । स्वग्रन्थस्य विश्वसनीयत्वाय स्वनाम प्रकटयन् स्वकृतस्तोत्रस्य फलम प्याह(वागर्धे)ति। हे सुधिय इत्यध्याहरः; कवितार्किककेसरिणा - कवितार्किक श्रेष्ठेन, वेङ्कटनाथाह्वयेन; विरचितां - निर्मिताम्, एतां, सम्यक्पदवाक्य रचनोज्वलाम्, (वागर्ध सिद्धि हेतुम्) वाचां - वाग्रूपाणाम्, अर्थानां, सिद्धौ - ज्ञाने, हेतुं - कारणम्, हयग्रीवसंस्तुतिं - हयग्रीवस्तवं; भक्त्या पठत - अनुसन्धदध्वम् । इति श्रीहयग्रीवस्तोत्रस्य व्याख्या समाप्ता । श्रीमते निगमान्त महादेशिकाय नमः । Proofread by Chandrasekhar Karumuri
% Text title            : Shri Hayagriva Stotram - Samskrita Vyakhyanam
% File name             : hayagrIvastotramvyAkhyAnam.itx
% itxtitle              : hayagrIvastotramvyAkhyAnam
% engtitle              : hayagrIvastotramvyAkhyAnam
% Category              : vishhnu, vyAkhyA, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Chandrasekhar Karumuri
% Proofread by          : Chandrasekhar Karumuri
% Indexextra            : (Telugu, stotram)
% Latest update         : September 19, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org