ऋषिभिः कृतं शिवस्तोत्रम्
ऋषयः ऊचुः -
यत् प्रत्यक्षं दृश्यते शुद्धरूपं
चन्द्रप्रख्यं चन्द्रखण्डोपशोभि ।
अन्तःप्रज्ञं भावितं तन्मुनीनां
भाग्यं दृष्टं भागधेयेन मुक्तैः ॥ १४॥
प्रज्ञातन्त्रं ध्यानतन्त्रं पुरस्ता-
न्नित्यं ध्येयं ध्यायिनां स्वप्रकाशम् ।
पुञ्जीभूतं बाह्यतत्त्वेन शश्वद्-
योग्यप्राप्यं धाम शम्भोरुदारम् ॥ १५॥
दृष्ट्वा यस्यैवाग्रभागं स नेत्रं
त्राणाय स्याद्दर्शनं सूर्यतुल्यम् ।
तद्धामेदं स्थानसर्वस्य नित्यं
भक्त्या स्तुत्यं तं नमः शम्भुदेहम् ॥ १६॥
प्रकाशते यः प्रथमादिभागतः
स्थितः स वामे य इहैव नेता ।
सोऽस्माकमस्तु प्रथमं स्वसिद्ध्यै
हरस्य शक्त्या विधृतो ललाटे ॥ १७॥
यः प्रधानात्मकः सत्त्वरजोभ्यां तमसान्वितः ।
पुरुषः सर्वजगतां स हरो नः प्रसीदतु ॥ १८॥
इति कालिकापुराणे चतुर्चत्वारिंशाध्यायान्तर्गतं
ऋषिभिः कृतं शिवस्तोत्रम् ।
Proofread by PSA Easwaran