शुकविरचितं शिवमहिम्नस्तोत्रम्

शुकविरचितं शिवमहिम्नस्तोत्रम्

पतङ्गदृगपाङ्गतो भवभुजङ्गभङ्गो भवेत् समुल्लसितपल्लवैर्भजति मुक्तिवल्लीव माम् । कुरङ्गकिणसङ्गदृक्प्रसरतोऽद्य सांसारिकं रुजं हर दयाधनैर्वितर दृष्टिवर्षं मयि ॥ १५॥ निशापतिकलाधरं कुलिशपाणिसम्पूजितं सुशोभिजटजह्नुजामृडशिखण्डचूडाधुना । दृढं तव पदाम्बुजं शिव भजामि हृत्पद्मके शिवासख सुखं सदा शिखिसखाकृते पाहि माम् ॥ १६॥ शान्तं दान्तहृदन्तरे सुविहितं यान्तं वृषेन्द्रेण तं स्वान्तस्थं सकलेषु भान्तमखिलं तान्तं सदा पोषकम् । वान्तप्रायभवेषु तुच्छितधियं तं मुक्तिकान्ताप्रियं देवं दान्तशमप्रशान्तमनसा यामीषणावर्जितः ॥ १७॥ अम्बरकेशसुशम्बरवैरिन् त्रिपुरहराम्बरहृदि विहर । मुरहर शङ्कर द्विरजवरानन शरवणभवनुत परिपाहि ॥ १८॥ एकैवास्मि न संशयस्त्रिभुवने नेहास्ति नाना जगत् मिथ्यैवाहिभयं यथा मरुमरीच्यार्द्रीकृता भूर्भवेत् । शुक्तौ यत्कलधौतवन्मृदि महाकुम्भोपमानं तथा वाचारम्भणमेव युक्तिजनकं कार्यं न वै कारणम् ॥ १९॥ यद्भासा जगदद्य भाति नितरां सूर्यानलौ वायवो भीत्या भान्ति स्वतेजसामपि परं जानन्ति नो मां स्थितम् । को मोहो मयि पश्यतां स्थिरचरं त्वेकत्वनानात्वधी - र्भिद्यत्येव विभेदभावजनकं त्वज्ञानमेतत्स्फुटम् ॥ २०॥ ईशावास्यमिदं जगच्श्रुतिशतैः प्रोक्तं च तद्भेदधीः नो कश्चिद्विनिवर्तते च यतते मोक्षाश्रमे श्रान्तियुक् । त्वद्भक्त्या विमुखः सदैव हि वृथा बोधाद्भवे भ्रश्यते बुद्ध्या वृद्धधियो भवन्ति च वृथा किञ्चायुषोऽन्ते नराः ॥ २१॥ विद्या सुद्योततेऽन्तर्हृदि जटिलतमो भिद्यते खिद्यतेऽन्तः खद्योतद्युतिवत्सविद्युत इमा नो भान्ति चन्द्रानलाः । यूकाशूकसमो मयूखसमहामाली च लीला हि ते घूकास्तर्कवितर्कजालजटिला विध्वंसितास्त्वद्दृशा ॥ २२॥ सीमाभूमा त्वमीशो दृढतरमहिमा त्वत्पदाब्जे किलैको यस्त्वां ध्यायति ध्यानहीनवपुषा स त्वं त्वमात्मा परः । नो तत्र त्रिपुटीकुटीरकुटिल चित्तं निटालेक्षण लक्ष्यात्मा त्वपलक्ष्यलक्षितहृदा त्वं वेत्सि तं त्वामनु ॥ २३॥ शमितो मृगतृष्णिकेव भूमौ मृगदृष्ट्यैव स एव बन्धहेतुः । सुभवोद्भवपादसेविनां सुगमा वै निगमागमोरुशीर्षाः ॥ २४॥ पदजातप्रकटप्रभावबोधैरहमेव त्वमसि क्व भेदहेतुः ॥ २५॥ तन्त्रयन्त्रकृतमन्त्रविभक्तैर्मान्त्रिकोऽहमिति धीर्न विमुक्त्यै । भेदभानकलनाविचारतः त्वां न जानत इमे पशवः स्युः ॥ २६॥ युक्तियुक्तमपि भुक्तमखेदं भक्तमेव विगुणं न तु भुक्त्यै । मुक्तिमार्गफलने श्रुतिसूक्ता वक्ति तत्वमसि वाक्यतोऽर्थवत् ॥ २७॥ बहुत्वेऽप्येकत्वे भ्रमभवनतान्ताः किल नराः न चैकं द्वित्वं वा श्रुतिशिरसि वाक्यार्थकलने । न बन्धो मोक्षो वा न परमवरो नापि हि नरः चकास्ति ब्रह्मेदं परमशिव एको ध्रुवसुखः ॥ २८॥ वित्तपित्तमपनीय चित्ततो हृत्तमो रसदृशा परिधूय । कर्तृतामपि निजात्मविद्यया भोक्तृतामपि सदात्मदर्शनात् ॥ २९॥ दर्शनं च हृदि तत्र विलाप्य प्राप्तकामकलनो दलिताशः । मूलकूलजनितामथ विद्यां हृद्यमेन परिधूय अविद्याम् ॥ ३०॥ उमाजाने जाने तव भव यदार्तं जगदिदं न जाने तद्भिन्नं शिव भजनबोधैर्गुरुजनैः । रमाजानेर्जानिं जनिमृतिनिदानादिविमुखं महीजानेः सौख्यं लवशतसुराणां मम कियत् ॥ ३१॥ तर्कैस्तर्कितुमप्यशक्तकरणैर्मीमांस्यमेतन्न वै शब्दैश्चापि जडैश्च तन्त्रनिवहैः दृश्यः किमात्मा भवान् । मनःक्लृप्तास्तर्का गुणगुणजबुद्धिप्रतिभुवो विचारं चेतो यत्तदपि शिव मीमांसकमतम् ॥ ३२॥ यतः शब्दो वाग्भूर्मनवचनदरे त्वमसि दृक् न वै जातं किञ्चिन्न च भवति सम्प्रत्यति भवत् । न वै कार्यं तस्य प्रभुरणुरपि स्थूलमपि न न रूपं त्वग्गन्धो न रसरसना वापि भगवन् ॥ ३३॥ त्वमात्मा स्वे धाम्नि स्थित इव विभासीदमखिलं न चोपाधिर्भूतान्यखिलतनवः कल्पितधिया । महाविद्यामोहाद्विविधतग्शास्त्रस्य विषयं अविद्यावत्सर्वं भवति त्वयि दृष्टे परतरे ॥ ३४॥ तदेतत्त्वं चापि त्वमहमिति दृश्यं च न हि दृगखण्डे पिण्डाण्डप्रभवविहिते बुद्धिकरणे । ततो जातं शास्त्रं तव शिवद बोधे कथमिदं जडं चेतोवाग्मिः प्रतिपदविमृश्यं भवशतैः ॥ ३५॥ कुमर्कैर्नानेव प्रभवसि च भक्त्यैव सुकरः ॥ ३६॥ श्रद्धां ते श्रुतिराह सौम्यपुरुषेत्येतत्परे निर्गुणे साम्बे रूपगुणैकवाग्विषयके नाम्न्यर्चने वा त्वयि । प्रारब्धान्तिमसम्भवेन हि पथा योऽयं चकास्ते यथा यावच्चाप्यधिकारसाधनपदं तस्य त्वमात्मा सदा ॥ ३७॥ कुटिलजटिलशब्दतर्कजालैः श्रुतिहरिणीं भषन्ति वाक्श्रमास्ते । गुणगणविहिताः शुनां गणास्ते तव भक्त्या रहिताऽप्याबुद्धबोधाः ॥ ३८॥ मिथ्या जगद्युगभवाः प्रतिकल्पमेवं मूढा गुणप्रभवतो मुनयोऽपि चान्धाः । शास्त्राणि तन्वत जगत्परिवञ्चकास्ते पूर्वापरोरुवचनैः स्वधियैव मुग्धाः ॥ ३९॥ तस्मात्तान्परिवञ्चसेऽद्य भगवन्नानार्थशास्त्रभ्रमैः मिथ्यावर्णनिबन्धनाश्रमगणश्रान्तान्वितर्के रतान् । तांस्तांस्तद्भवभावबोधसहितान्स्वर्गभ्रमे दुःखितान् यातायातशतेषु दुःखभवने याम्ये च दुःखोत्कटान् ॥ ४०॥ स्वमतिमतकृतं वितत्य शास्त्रं परिनिन्दत्यनिशं विहाय वेदान् । तव मायामयपाशबद्धकीशाः फलजालेषु वृथैव वर्धिताशाः ॥ ४१॥ अशनवसनमात्रसाभिलाषाः भ्रमतोऽन्योन्यमुपासकाश्च भण्डाः । गुणखण्डहृदा वदन्ति युद्धे मधुमाद्यन्मधुपा यथैव भण्डाः ॥ ४२॥ केचिन्मुण्डाः कुटीलजटिलाश्चक्रतप्तास्तथान्ये नग्ना बौद्धाः श्रमणनिचयास्तुङ्गलिङ्गं वहन्तः । विप्रा वर्णाश्रमवरभरा हिंसवा स्वर्गकामाः कामारातौ विमुखहृदया ज्ञानहीना भ्रमन्ति ॥ ४३॥ कुरङ्गा मोहान्धा मरुजलधिबुद्ध्यातपतपाः यथा धावन्तीश प्रशिथिलधिया तर्षितजलाः । तथेमे मोहान्धाः हृदयदहरे त्वामधिवप्तं भवन्तं हित्वैव प्रभवमरणैर्भ्रान्तिवशगाः ॥ ४४॥ अभेद्यं भेद्येषु प्रकटरहृत्पद्मसदनं अविज्ञातं ज्ञातं निरवधिकसच्चित्सुखवपुः । भवन्मायामोहाद्भ्रमति परमानन्दविमुखं जगल्लोकालोकं सुसस्वरतिर्यग्गतधियम् ॥ ४५॥ नाहं न त्वं न चेमे भव भवभवं वै गतभयं (?) सदानन्दं सान्द्रं विरलमपि भेदं नहि मनाक् । अखण्डं पिण्डाङ्गं न च भवति कार्यं च करणं न मोक्षो नो बन्धो भवति भवदालोकनवशात् ॥ ४६॥ अनुभवमिदमेव वेदवेद्यं यदि हित्वानुभवे भवोद्भवाद्यम् । अनुभवशतकोत्थकर्मचित्रं न हि नाशाय भवोद्भवेषु तस्य ॥ ४७॥ शान्तं वेदवचोभिरीडितपरः स्वान्तं निशान्ते सदा चिन्तशान्तनितान्तशान्तमनसा कोहं कथं वै जगत् । नानास्तीति विचार्य वेदनिवहैर्मुक्तः स युक्तो भवेत् तद्ध्यानेऽपि च दुर्लभो यदि भवेद्र्रूपं तव प्रेमकृत् ॥ ४८॥ स्वान्तं शान्तमनन्तमव्ययमुमाकान्तं सदा चिन्तयेत् तेनैवाशु विनाशिताघनिचयो भूयात्प्रमोदाधिकः । कामारातिपदाम्बुजार्चनरतो भस्माक्षधृङ्मुक्तये ॥ ४९॥ यावत्कायमयाय दायकमिदं कामस्य यत्सायकैः भेद्यं वेद्यशतैः चिकित्सितवयः पाके उपायैरपि । तस्मादेवमुमासाहयमधुना ध्याये विनाश्यं सदा हायं जन्मविनाशभोगरहितो यावद्दृढाङ्गः सदा ॥ ५०॥ धनगणगणनाविनाशकाले विगुणैवेह सदा मदाय देहे । गणगणविनर्तं यदा प्रपद्ये त्रिगुणातीतगुणस्तदा मुदाऽहम् ॥ ५१॥ शर्वाणीरमणार्चनेन हि सदा वाताद्भयं (पाताद्भयं) सर्गतो (स्वर्गतः , सर्गतः) गर्वेणापि अखर्वपातकवरैः किं नो भयं संसृतेः । मय्यानन्दपयोनिधौ सुरसरित्कूलाः प्रयान्त्येव ते शम्भोः शम्भुव एव पादकमलामोदैकमाद्यं मनः ॥ ५२॥ इति सन्ततमन्तकान्तकं विमृशन्तः स्वहृदा प्रकाशमानम् । शमितेतरसङ्गभङ्गतः स्वत एवात्र भवन्ति ते ह्यसङ्गाः ॥ ५३॥ ॥ इति शिवरहस्यान्तर्गते शिवाख्ये शुकविरचितं शिवमहिम्नस्तोत्रं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः २०। १५-५३॥ - .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 20. 15-53.. Notes: Shuka Muni शुकमुनि; who is Graced with Pārameśvarajñānam पारमेश्वरज्ञानं by Śiva शिव Himself, expresses his bhakti and gratitude in form of a Śiva-Mahimna-Stotram शिवमहिम्नस्तोत्रम्. Proofread by Ruma Dewan
% Text title            : Shukavirachitam Shivamahimna Stotram
% File name             : shukavirachitaMshivamahimnastotraM.itx
% itxtitle              : shivamahimnastotraM (shukavirachitaM shivarahasyAntargatam pataNgadRigapANgato bhavabhujaNgabhaNgo bhavet)
% engtitle              : shukavirachitaM shivamahimnastotraM
% Category              : shiva, shivarahasya, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shivAkhyaH chaturthAMshaH | adhyAyaH 20| 15-53||
% Indexextra            : (Scan)
% Latest update         : August 20, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org