कौशिकब्राह्मणेन राक्षसाय प्रोक्तं सारस्वतस्तोत्रम्
श्रूयतां तव यच्छ्रेयस्तथान्येषां च पापिनाम् ।
समस्तपापशुद्ध्यर्थं पुण्योपचयदं च यत् ॥ ४१॥
प्रातरुत्थाय सततं मध्याह्नेऽह्नःक्षयेऽपि वा ।
अयं शस्तः सदा जापः सर्वपापोपशान्तिदः ॥ ४२॥
हरिं कृष्णं हृषीकेशं वासुदेवं जनार्दनम् ।
प्रणतोऽस्मि जगन्नाथं स मे पापं व्यपोहतु ॥ ४३॥
विश्वेश्वरमजं विष्णुमप्रमेयपराक्रमम् ।
प्रणतोऽस्मि प्रजापालं स मे पापं व्यपोहतु ॥ ४४॥
विष्णुमच्युतमीशानमनन्तमपराजितम् ।
प्रणतोऽस्मि महात्मानं स मे पापं व्यपोहतु ॥ ४५॥
चराचरगुरुं नाथं गोविन्दं शेषशायिनम् ।
प्रणतोऽस्मि परं देवं स मे पापं व्यपोहतु ॥ ४६॥
गोवर्धनधरं धीरं गोब्राह्मणहिते स्थितम् ।
प्रणतोऽस्मि गदापाणिं स मे पापं व्यपोहतु ॥ ४७॥
शङ्खिनं चक्रिणं शान्तं शार्ङ्गिणं स्रग्धरं परम् ।
प्रणतोऽस्मि पतिं लक्ष्म्याः स मे पापं व्यपोहतु ॥ ४८॥
दामोदरमुदाराक्षं पुण्डरीकाक्षमव्ययम् ।
प्रणतोऽस्मि स्तुतं स्तुत्यैः स मे पापं व्यपोहतु ॥ ४९॥
नारायणं नरं शौरिं माधवं मधुसूदनम् ।
प्रणतोऽस्मि धराधारं स मे पापं व्यपोहतु ॥ ५०॥
केशवं केशिहन्तारं कंसारिष्टनिसूदनम् ।
प्रणतोऽस्मि चतुर्बाहुं स मे पापं व्यपोहतु ॥ ५१॥
श्रीवत्सवक्षसं श्रीशं श्रीधरं श्रीनिकेतनम् ।
प्रणतोऽस्मि श्रियः कान्तं स मे पापं व्यपोहतु ॥ ५२॥
यमीशं सर्वभूतानां ध्यायन्ति यतयोऽक्षरम् ।
वासुदेवमनिर्देश्यं तमस्मि शरणं गतः ॥ ५३॥
समस्तालम्बनेभ्योऽयं संहृत्य मनसो गतिम् ।
ध्यायन्ति वासुदेवाख्यं तमस्मि शरणं गतः ॥ ५४॥
सर्वगं सर्वभूतं च सर्वस्याधारमीश्वरम् ।
वासुदेवं परं ब्रह्म तमस्मि शरणं गतः ॥ ५५॥
परमात्मानमव्यक्तं यं प्रयान्ति सुमेधसः ।
कर्मक्षयेऽक्षयं देवं तमस्मि शरणं गतः ॥ ५६॥
पुण्यपापविनिर्मुक्ता यं प्रविश्य पुनर्भवम् ।
न योगिनः प्राप्नुवन्ति तमस्मि शरणं गतः ॥ ५७॥
ब्रह्मा भूत्वा जगत्सर्वं सदेवासुरमानुषम् ।
यः सृजत्यच्युतो देवस्तमस्मि शरणं गतः ॥ ५८॥
ब्रह्मत्वे यस्य वक्त्रेभ्यश्चतुर्वेदमयं वपुः ।
सूतं प्रभो पुरा जज्ञे तमस्मि शरणं गतः ॥ ५९॥
ब्रह्मरूपधरं देवं जगद्योनिं जनार्दनम् ।
स्रष्टृत्वे संस्थितं सृष्टौ प्रणतोऽस्मि सनातनम् ॥ ६०॥
यः पाति सृष्टं च विभुः स्थितावसुरसूदनः ।
तमादिपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥ ६१॥
धृता मही हता दैत्याः परित्रातास्तथामराः ।
येन तं विष्णुमाद्येशं प्रणतोऽस्मि सनातनम् ॥ ६२॥
यज्ञैर्यजन्ति यं विप्रा यज्ञेशं यज्ञभावनम् ।
तं यज्ञपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥ ६३॥
वर्णाश्रमान्स्थितावाद्यो यः स्थापयति वर्त्मनि ।
तमादिपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥ ६४॥
कल्पान्ते रुद्ररूपो यः संहरत्यखिलं जगत् ।
तमादिपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् ॥ ६५॥
पातालवीथीभूरादींस्तथा लोकान्बिभर्ति यः ।
तमन्तपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् ॥ ६६॥
सम्भक्षयित्वा सकलं यथा सृष्टमिदं जगत् ।
यो नृत्यत्यतिरौद्रात्मा प्रणतोऽस्मि जनार्दनम् ॥ ६७॥
सुरासुराः पितृगणा यक्षगन्धर्वराक्षसाः ।
यस्यांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥ ६८॥
समस्तदेवाः सकला मानुषाणां च जातयः ।
यस्यांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥ ६९॥
वृक्षगुल्मादयो यस्य तथा पशुमृगादयः ।
एकांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥ ७०॥
यस्मान्नान्यत्परं किञ्चिद्यस्मिन्सर्वं महात्मनि ।
यः सर्वमव्ययोऽनन्तः सर्वगं तं नमाम्यहम् ॥ ७१॥
यथा सर्वेषु भूतेषु स्थावरेषु चरेषु च ।
विष्णुरेव तथा पापं ममाशेषं प्रणश्यतु ॥ ७२॥
यथा विष्णुमयं सर्वं यत्सर्वेन्द्रियगोचरम् ।
यच्च ज्ञानपरिच्छेद्यं पापं नश्यतु मे तथा ॥ ७३॥
प्रवृत्तं च निवृत्तं च कर्म विष्णुमयं यथा ।
अनेकजन्मकर्मोत्थं पापं नश्यतु मे तथा ॥ ७४॥
यन्निशायां तथा प्रातर्यच्च मध्यापराह्णयोः ।
सन्ध्ययोश्च कृतं पापं कर्मणा मनसा गिरा ॥ ७५॥
तिष्ठता व्रजता यच्च शय्यासनगतेन च ।
कृतं यदशुभं कर्म कायेन मनसा गिरा ॥ ७६॥
अज्ञानतो ज्ञानतो वा वासुदेवस्य कीर्तनात् ।
तत्सर्वं विलयं यातु तोयस्थं लवणं यथा ॥ ७७॥
परदारपरद्रव्यवाञ्छाद्रोहोद्भवं च यत् ।
परिपीडोद्भवं निन्दां कुर्वतो यन्महात्मनाम् ॥ ७८॥
यच्च भोज्ये तथा पेये यच्च कण्डूयनादिषु ।
तद्यातु विलयं तोये यथा लवणभाजनम् ॥ ७९॥
यद्बाल्ये यच्च कौमारे यत्पापं यौवने मम ।
वयःपरिणतौ यच्च यच्च जन्मान्तरेषु मे ॥ ८०॥
तन्नारायणगोविन्दहरिकृष्णेशकीर्तनात् ।
प्रयातु विलयं तोये यथा लवणभाजनम् ॥ ८१॥
विष्णवे वासुदेवाय हरये केशवाय च ।
जनार्दनाय कृष्णाय नमो भूयो नमो नमः ॥ ८२॥
इदं सारस्वतं स्तोत्रमशेषाघविनाशनम् ।
पठतां शृण्वतां चैव सर्वपापविनाशनम् ॥ ८३॥
इदं यः प्रातरुत्थाय प्रणिपत्य जनार्दनम् ।
जपत्येकमनाः पापं समस्तं स व्यपोहति ॥ ८४॥
यस्तु संवत्सरं पूर्णं सायं प्रातः समाहितः ।
जपत्येतन्नरः पुण्यं कृत्वा मनसि केशवम् ॥ ८५॥
शारीरं मानसं वाग्जं ज्ञानतोऽज्ञानतोऽपि वा ।
कृतं तेन तु यत्पापं सप्तजन्मान्तराणि वै ॥ ८६॥
महापातकमल्पं वा तथा यच्चोपपातकम् ।
सकलं नाशयत्येतत्तथान्यत्पुण्यमृच्छति ॥ ८७॥
विप्राय सुविशिष्टाय तिलपात्राणि षोडश ।
अहन्यहनि यो दद्यात्पठत्येतच्च तत्समम् ॥ ८८॥
अविप्लुतमतिश्चान्ते सम्प्राप्य स्मरणं हरेः ।
विष्णुलोकमवाप्नोति सत्यमेतन्मयोदितम् ॥ ८९॥
यथैनं पठति नित्यं स्तवं सारस्वतं पुमान्
अपि पापसमायुक्तो मोक्षं प्राप्नोत्यसावपि
यथैतत्सत्यमुक्तं मे नात्राल्पमपि वै मृषा ।
राक्षसग्रस्तसर्वाङ्गं तथा मामेष मुञ्चतु ॥ ९०॥
इति विष्णुधर्मेषु सप्ततितमोऽध्यायान्तर्गतं कौशिकब्राह्मणेन राक्षसाय
प्रोक्तं सारस्वतस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran