वरदराजस्तोत्रम्
(काञ्च्याम्)
श्रीमद्वरदराजेन्द्रः श्रीवत्साङ्कः शुभप्रदः ।
तुण्डीरमण्डलोल्लासी तापत्रयनिवारकः ॥ १॥
सत्यव्रतक्षेत्रवासी सत्यवज्जनपोषकः ।
सर्गस्थित्युपसंहारकारी सुगुणवारिधिः ॥ २॥
हरिर्हस्तगिरीशानो हृतप्रणतदुष्कृतः ।
तत्त्वरूपत्वष्टृकृतकाञ्चीपुरवराश्रितः ॥ ३॥
ब्रह्मारब्धाश्वमेधाख्यमहामखसुपूजितः ।
वेदवेद्यो वेगवतीवेगभीतात्मभूस्तुतः ॥ ४॥
विश्वसेतुर्वेगवतीसेतुर्विश्वार्तिकोऽनघः ।
यथोक्तकारिनामाढ्यो यज्ञभृद्यज्ञरक्षकः ॥ ५॥
ब्रह्मकुण्डोत्पन्नदिव्यपुण्यकोटिविमानगः ।
वाणीपत्यर्पितहयवपासुरभिलाधरः ॥ ६॥
वरदाभयहस्ताब्जो वनमालाविराजितः ।
शङ्खचक्रलसत्पाणिश्शरणागतरक्षकः ॥ ७॥
इमं स्तवं तु पापघ्नं पुरुषार्थप्रदायकम् ।
पठतां शृण्वतां भक्त्या सर्वसिद्धिर्भवेद्ध्रुवम् ॥ ८॥
इति श्रीनारदपुराणान्तर्गतं वरदराजस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran