ब्रह्मादिदेवैः कृतं शिवस्तोत्रम्

ब्रह्मादिदेवैः कृतं शिवस्तोत्रम्

देवा ऊचुः - प्रीतये यस्य न रतिर्न कामो यन्मनोभवः । न यस्य जन्मनो हेतुस्तस्मै तुभ्यं नमो नमः ॥ २९॥ यस्य लोकहितायैव जातो जायापरिग्रहः । त्र्यम्बकाय नमस्तस्मै स शिवो नः प्रसीदतु ॥ ३९॥ यन्मन्मथं विना देवं श‍ृङ्गाराद्या विशन्ति च । स्वबलेनैव तं देवं त्वां वयं प्रणता हरम् ॥ ३१॥ हिरण्यरेताः स्वर्णाभो यो हिरण्यभुजाह्वयः । स त्वं सर्गहरो देवो नित्यं नोऽभिप्रसीदतु ॥ ३२॥ जगन्मयी योगनिद्रा विष्णुमाया बलीयसी । तस्याभवत्स्वयं जाया तस्मै तुभ्यं नमो नमः ॥ ३३॥ पञ्चभूतमयं यस्य पञ्चशीर्षं विराजते । तं पञ्चवदनं देवं भक्त्या त्वां प्रणमामहे ॥ ३४॥ सद्योजातमघोरं च वामदेवमुमापतिम् । ईशानं प्रणमामोऽद्य यं तत्पुरुषमाह वै ॥ ३५॥ योऽसतामशिवो नित्यं यो वा भक्तिमतां शिवः । शिवाशिवस्वरूपाय नमस्तस्मै शिवाय ते ॥ ३६॥ रूपैस्त्रिभिर्यः स्थितिसृष्टिनाशं विष्ण्वात्मभिः शम्भुरिति प्रसिद्धैः । करोति शश्वज्जगतां नुमस्तं शिवं विरूपाक्षममुं शिवेशम् ॥ ३७॥ अः शूलखट्वाङ्गमृगाङ्कधारी यो गोध्वजः शक्तिमान् पञ्चरूपी । तस्मै तुभ्यं जातवेदः प्रभाय भूयो भूयो नमो नमः शङ्कराय ॥ ३८॥ ब्रह्मार्चिष्मान् भोगभृद्दैत्यहन्ता यन्ता योद्धा वीतगर्भो जगत्याः । स त्वं स्तुतो नः प्रसीदत्वनन्तो नित्योद्रेकी उक्तरूपः प्रधानः ॥ ३९॥ परब्रह्मरूपी नियतैकमुक्तः परञ्ज्योतिरूपी नियतस्त्वनन्तः । परः पाररूपी नियतात्मभागी आ नो भर्गरूपी गिरिशोऽस्तु भूत्यै ॥ ४०॥ उमापतिं महामायं महादेवं जगत्पतिम् । शिवं शिवकरं शान्तं नमामः स प्रसीदतु ॥ ४१॥ इति कालिकापुराणे षट्चत्वारिंशाध्यायान्तर्गतं ब्रह्मादिदेवैः कृतं शिवस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Brahmadidevaih Kritam Shiva Stotram
% File name             : shivastotrambrahmAdidevaiHkRRitaM.itx
% itxtitle              : shivastotram brahmAdidevaiHkRitaM (kAlikApurANAntargatam)
% engtitle              : shivastotram brahmAdidevaiHkRitaM
% Category              : shiva, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Kalikapurana Adhyaya 46 shloka 29-41
% Indexextra            : (Parts 1, 2) 
% Latest update         : January 15, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org