श्रीविवेकानन्दस्तोत्रम्
जीवसेवाव्रतं यस्य लक्ष्यमासीन्महीतले
ज्ञानमात्मगतं यो वै तेन मार्गेण सङ्गतः ।
कर्मिणे ज्ञानिने चैव भक्ताय स्वामिने पुनः
विवेकानन्दरूपाय भूयो भूयो नमाम्यहम् ॥ १॥
यत्सेवाव्रतमामनन्ति मुनयो बुद्धो जिनः शङ्करः
श्रीरामः कमनीयकाम्यकवने वृन्दावने माधवः ।
जाह्नव्याः सुतटेषु गौड़गहने गौराङ्गदेवस्तथा
तत्सेवाव्रतमद्य साधकवरः स्वामी पुनर्घोषते ॥ २॥
देवा नागाश्च यक्षाः खगभुजगगनाश्चाप्सरोरंशभूता
गन्धर्वा राक्षसा ये सकलभुवनजाश्चासुरा वृक्षजाताः ।
शत्रुर्मित्रं च ये वा निखिलनरकजा यातनास्थाश्च जीवा
आब्रह्म स्तम्बरूपं जगदिदमखिलं तृप्यतां तृप्यतां भोः ॥ ३॥
चण्डालो ब्राह्मणो वा गुरुरुत वयसा लाघवः पण्डितो वा
मूर्खो दीनो धनाढ्यः सकलगुणगणैरन्वितो निर्गुणो वा ।
सर्वे नारायणास्ते वयमपि च तथा यूयमप्यत्र भूता
आत्मा नारायणोऽयं प्रचरति बहुशः सेव्यतामात्मरूपः ॥ ४॥
द्वारे भिक्षुर्बुभुक्षुः कथयति करुणं ``मुष्टिनेयं कदन्नं''
क्षुद्रो मार्जारको मे विलपति नितरां ``देहि मे मत्स्यखण्डम्'' ।
ते सर्वे भूतजाताः सममपि जगतां सेविताश्चेद्भवेयु-
र्नूनं सैवात्मसेवा भवति च सकला नान्यताः सेवनान्मे ॥ ५॥
एवं पुत्राश्च दाराः सकलपरिजना बान्धवाश्चार्थराशिः
सर्वं यद्वास्मदीयं भवति च भुवने तत्तु नारायणार्थम् ।
वाक्यं कायो मनो मे भवति भगवता चालितं हृद्गतेन
दीनोऽहं भगवन् तवैव नियतं दासोऽस्मि दासाधमः ॥ ६॥
दासोऽहं भवतो गृहाण कृपया मत्कर्मलब्धं फल-
मेवं कर्मफलं समर्प्य भगवन्नारायणोद्देशतः ।
मुक्तः कर्मफलाद्विशुद्धहृदयो योगे मनो दीयतां
मुक्तिं बन्धनतो लभस्व नियतां ``कस्त्वं'' पुनश्चिन्त्यताम् ॥ ७॥
नाहं कायो जघन्यः कफमलसहितः पञ्चभूतात्मको वा
नाहं छेद्यो न दाह्यो न च मरणवशो नापि जातः कदाचित् ।
नाहं कर्मी न भक्तो न च सुखमपि वा दुःखलेशो मदीयः
सोऽहं यः षष्ठचक्रे विलसति नियतं ``सच्चिदानन्दरूपः'' ॥ ८॥
इत्येतत्तत्त्वजातं नवतरभुवने प्राच्यपाश्चात्यभागे
योऽयं नव्यावतारो गुरुकुलतिलको घोषयामास नादैः ।
येनायं धर्मराज्ये सकलजनगुरुर्भारतोऽस्यां धरण्या
ह्येत्यतत् साधितं वै सुनिपुणवचसा पूजितः सर्वथाऽसौ ॥ ९॥
हे मुक्त ! लोकस्थित-सिद्धसाधो !
भक्ताधमोऽहं न च कर्मलिप्सुः ।
ज्ञानामृतं किं न हि तत् प्रजाने
निराश्रयोऽहं शरणं प्रयाचे ॥ १०॥
इति श्रीदक्षिणारञ्जनभट्टाचार्यविरचितं
``श्रीविवेकानन्दस्तोत्रम्'' सम्पूर्णम् ।
Proofread by Aruna Narayanan