अर्जुनकृतम् श्रीकृष्णस्तोत्रम्

अर्जुनकृतम् श्रीकृष्णस्तोत्रम्

पुलस्त्य उवाच - एवमुक्तोऽर्जुनः सम्यक् प्रणिपत्य जनार्दनम् । तुष्टाव वाग्भिरिष्टाभिरुद्भूतपुलकस्ततः ॥ १९॥ अर्जुन उवाच - नमोऽस्तु ते चक्रधरोग्ररूप नमोऽस्तु ते शार्ङ्गधरारुणाक्ष । नमोऽस्तु तेऽभ्युद्यतखड्ग रौद्र नमोऽस्तु विभ्रान्तगदान्तकारिन् ॥ २०॥ भयेन सन्नोऽस्मि सवेपथेन नाङ्गानि मे देव वशं प्रयान्ति । वाचः समुच्चारयतः स्खलन्ति केशा हृषीकेश समुच्छ्वसन्ति ॥ २१॥ कालो भवान्कालकरालकर्मा येनैतदेवं क्षयमक्षयात्मन् । क्षत्रं समुद्भूतरुषा समस्तं नीतं भुवो भारविरेचनाय ॥ २२॥ प्रसीद कर्तर्जय लोकनाथ प्रसीद सर्वस्य च पालनाय । स्थितौ समस्तस्य च कालरूप कृतोद्यमेशान जयाव्ययात्मन् ॥ २३॥ न मे दृगेषा तव रूपमेतद्द्रष्टुं समर्था क्षुभितोऽस्मि चान्तः । पूर्वस्वभावस्थितविग्रहोऽपि संलक्ष्यसेऽत्यन्तमसौम्यरूप ॥ २४॥ स्मरामि रूपं तव विश्वरूपं यद्दर्शितं पूर्वमभून्ममैव । यस्मिन्मया विश्वमशेषमासीद्दृष्टं सयक्षोरगदेवदैत्यम् ॥ २५॥ सा मे स्मृतिर्दर्शनभाषणादि प्रकुर्वतो नाथ गता प्रणाशम् । कालोऽहमस्मीत्युदिते त्वया तु समागतेयं पुनरप्यनन्त ॥ २६॥ कर्ता भवान्कारणमप्यशेषं कार्यं च निष्कारण कर्तृरूप । आदौ स्थितौ संहरणे च देव विश्वस्य विश्वं स्वयमेव च त्वम् ॥ २७॥ ब्रह्मा भवान्विश्वसृगादिकाले विश्वस्य रूपोऽसि तथा विसृष्टौ । विष्णुः स्थितौ पालनबद्धकक्षो रुद्रो भवान्संहरणे प्रजानाम् ॥ २८॥ एभिस्त्रिभिर्नाथ विभूतिभेदैर्यश्चिन्त्यते कारणमात्मनोऽपि । वेदान्तवेदोदितमस्ति विष्णोः पदं ध्रुवं तत्परमं त्वमेव ॥ २९॥ यन्निर्गुणं सर्वविकल्पहीनमनन्तमस्थूलमरूपगन्धम् । परं पदं वेदविदो वदन्ति त्वमेव तच्छब्दरसादिहीनम् ॥ ३०॥ यथा हि मूले विटपी महाद्रुमः प्रतिष्टितस्कन्धवरोग्रशाखः । तथा समस्तामरमर्त्यतिर्यग्व्योमादिशब्दादिमयं त्वयीदम् ॥ ३१॥ मुञ्चामि यावत्परमायुधानि वैरिष्वनन्ताहवदुर्मदेषु । दृष्ट्वा हि तावत्सहसा पतन्तो नूनं तवैवाच्युत स प्रभावः ॥ ३२॥ हता हतास्ते भवतो दृशैव मया पुनः केशव शस्त्रपूगैः । काः कर्णभीष्मप्रमुखान्विजेतुं युष्मत्प्रसादेन विना समर्थः ॥ ३३॥ त्रिशूलपाणिर्मम यः पुरस्तान्निषूदयन्वैरिबलं जगाम । ज्ञातं मया साम्प्रतमेतदीश तव प्रसादस्य हि सा विभूतिः ॥ ३४॥ यमेन्द्रवित्तेशजलेशवह्निसूर्यात्मको यश्च ममास्त्रपूगः । नाशाय नाभूत्पतितोऽपि काये त्वत्सन्निधानस्य हि सोऽनुभावः ॥ ३५॥ बाल्ये भवान्यानि चकार देव कर्माण्यसह्यानि सुरासुराणाम् । तैरेव जानीम न यत्परं त्वां दोषः स निर्दोषमनुष्यतायाः ॥ ३६॥ तालोच्छ्रिताग्रं गुरुभारसारमायामविस्तारवदद्य जातः । पादाग्रविक्षेपविभिन्नभाण्डं चिक्षेप कोऽन्यः शकटं यथा त्वम् ॥ ३७॥ अन्येन केनाच्युत पूतनायाः प्राणैः समं पीतमसृग्विमिश्रम् । त्वया यथा स्तन्यमतीव बाल्ये गोष्ठे च भग्नौ यमलार्जुनौ तौ ॥ ३८॥ विषानलोष्णाम्बुनिपातभीममास्फोट्य को वा भुवि मानुषोऽन्यः । ननर्त पादाब्जनिपीडितस्य फणं समारुह्य च कालियस्य ॥ ३९॥ सुरेशसन्देशविरोधवत्सु वर्षत्सु मेघेषु गवान्निमित्तम् । दिनानि सप्तास्ति च कस्य शक्तिर्गोवर्धनं धारयितुं करेण ॥ ४०॥ प्रलम्बचाणूरमुखान्निहत्य कंसासुरं यस्य बिभेति शक्रः । तमष्टवर्षो निजघान कोऽन्यो निरायोधो नाथ मनुष्यजन्मा ॥ ४१॥ बाणार्थमभ्युद्यतमुग्रशूलं निर्जित्य सङ्ख्ये त्रिपुरारिमेकः । सकार्त्तिकेयज्वरमस्त्रबाहुं करोति को बाणमनच्युतोऽन्यः ॥ ४२॥ कः पारिजातं सुरसुन्दरीणां सदोपभोग्यं विजितेन्द्रसैन्यः । स्वर्गान्महीमुच्छ्रितवीर्यधैर्यः समानयामास यथा प्रभो त्वम् ॥ ४३॥ हत्वा हयग्रीवमुदारवीर्यं निशुम्भशुम्भौ नरकं च कोऽन्यः । जग्राह कन्यापुरमात्मनोऽर्थं प्राग्ज्योतिषाख्ये नगरे महात्मन् ॥ ४४॥ स्थितौ स्थितस्त्वं परिपासि विश्वं तैस्तैरुपायैरविनीतभीतैः । मैत्री न येषां विनयाय तांस्तान्सर्वान्भवान्संहरतेऽव्ययात्मन् ॥ ४५॥ हिताय तेषां कपिलादिरूपिणा त्वयानुशस्ता बहवोऽनुजीवाः । येषां न मैत्री हृदि ते न नेया विश्वोपकारी वध एव तेषाम् ॥ ४६॥ इत्थं भवान्दुष्टवधेन नूनं विश्वोपकाराय विभो प्रवृत्तः । स्थितौ स्थितं पालनमेव विष्णुः करोति हन्त्यन्तगतोऽन्तरुद्रः ॥ ४७॥ एतानि चान्यानि च दुष्कराणि दृष्टानि कर्माणि तथापि सत्यम् । मन्यामहे त्वां जगतः प्रसूतिं किं कुर्म माया तव मोहनीयम् ॥ ४८॥ त्वं सर्वमेतत्त्वयि सर्वमेतत्त्वत्तस्तथैतत्तव चैतदीश । एतत्स्वरूपं तव सर्वभूतं विभूतिभेदैर्बहुभिः स्थितस्य ॥ ४९॥ प्रसीद कृष्णाच्युत वासुदेव जनार्दनानन्त नृसिंह विष्णो । मनुष्यसामान्यधिया यदीश दृष्टो मया तत्क्षमस्वादिदेव ॥ ५०॥ न वेद्मि सद्भावमहं तवाद्य सद्भावभूतस्य चराचरस्य । यो वै भवान्कोऽपि नतोऽस्मि तस्मै मनुष्यरूपाय चतुर्भुजाय ॥ ५१॥ देवदेव जगन्नाथ सर्वपापहरो भव । हेतुमात्रस्त्वहं तत्र त्वयैतदुपसंहृतम् ॥ ५२॥ प्रसीदेश हृषीकेश अक्षौहिण्या दशाष्ट च । त्वया ग्रस्ता भुवो भूत्यै हेतुभूता हि मद्विधाः ॥ ५३॥ वयमन्ये च गोविन्द नराः क्रीडनकास्तव । मद्विधैः करणैर्देव करोषि स्थितिपालनम् ॥ ५४॥ यदत्र सदसद्वापि किञ्चिदुच्चारितं मया । भक्तिमानिति तत्सर्वं क्षन्तव्यं मम केशव ॥ ५५॥ इति विष्णुधर्मेषु पञ्चत्रिंशोऽध्यायान्तर्गतं अर्जुनप्रोक्तं श्रीकृष्णस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Arjunakritam Shri Krishna Stotram
% File name             : kRRiShNastotraMarjunakRRitam.itx
% itxtitle              : kRiShNastotraM arjunakRitam (viShNudharmopapurANAntargatam)
% engtitle              : kRiShNastotraM arjunakRitam
% Category              : vishhnu, stotra, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : from Vishnudharma Upapurana. Adhyaya 35
% Indexextra            : (Text)
% Latest update         : December 25, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org