श्रीदधिवामनस्तोत्रम्
हेमाद्रिशिखराकारं शुद्धस्फटिङ्कभिम् ।
पूर्णचन्द्र निभं देवं द्विभुजं वामनं स्मरेत् ॥ १॥
पद्मासनस्थं देवेशं चन्द्रमण्डलमध्यगम् ।
ज्वलत्कोटितटित्प्रख्यं तटित्कोटिसमप्रभम् ॥ २॥
सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् ।
चन्द्रमण्डलमध्यस्थं विष्णुमव्ययमच्युतम् ॥ ३॥
श्रीवत्सकौस्तुभोरस्कं दिव्यरत्नविभूषितम् ।
पीताम्बरमुदाराङ्गं वनमालाविभूषितम् ॥ ४॥
सुन्दरं पुण्डरीकाक्षं किरीटेन विराजितम् ।
षोडशस्त्रीवृतं सम्यगप्सरोगणसेवितम् ॥ ५॥
ऋग्यजुस्सामाथर्वाद्यैर्गीयमान जनार्दनम् ।
चतुर्मुरवादिदेवेशैर्गीयमानं मुदा सदा ॥ ६॥
दधिमिश्रान्नकबलं रुक्मपात्रं च दक्षिणे ।
करे तु चिन्तयेद् ध्यायेत्पीयूषममृतं सुधीः ॥ ७॥
साधकानां प्रयच्छन्तमन्नपानमनुत्तमम् ।
ब्राह्मे मुहूर्त उत्थाय ध्यायेद्द्येयमधोक्षजम् ॥ ८॥
अत्रपुमलगात्रं रुक्मपात्रस्थमन्नं
सकलशदधिरवण्डं पणिना दक्षिणेन ।
कलशममृतपूर्णं वामहस्ते दधानं
तरति सकलदुःखाद्वा (खं वा) मनं भावयेद्यः ॥ ९॥
अन्नदाता भवेदन्नं अन्नमन्नाद एव च ।
क्षीरमन्नं घृतं चैव आयुरारोग्यमेव च ॥ १०॥
पुरस्तादनमाप्तव्यं पुनरावृत्तिवर्जितम् ।
आयुरारोग्यमैश्वर्यं लभते चान्नसम्पदम् ॥ ११॥
एवं स्तोत्रं पठेद्यस्तु प्रातः काले द्विजोत्तमः ।
अक्लेशादन्नसिद्द्यर्थं ज्ञानसिद्द्यर्थमेव च ॥ १२॥
इति श्रीवामनपुराणे श्रीदधिवामनस्तोत्रं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan