यतिराजस्तोत्रम् २

यतिराजस्तोत्रम् २

धनं यस्य सद्ब्रह्म विद्यानिदानं बुधानन्दरूपं स्वरूपं दधानम् । परप्रापकाङ्घ्रिद्वयीसन्निधानं विधानं विभूतिद्वयेशाभिधानम् । भजे भाष्यकारं भजे लक्ष्मणार्यं भजे सालसद्ग्रामरामानुजार्यम् ॥ १॥ नमोनित्यदिव्यप्रबन्धादिकृद्भ्यो नमः पञ्चरात्रादिविद्भ्यो मुनिभ्यः । नमोमद्गुरुभ्यो नमस्तद्गुरुभ्यो नमः पञ्चसंस्कारविद्यागुरुभ्यः ॥ भजे भाष्य०॥ २॥ नमो वेङ्कटाधीशसत्पादरेणु- स्तवैः पद्यविद्यासहस्रप्रयोक्त्रे । मुमुक्षूञ्जनान्नित्यकल्पान्विधात्रे महाहोबलाचार्यवर्याय पित्रे ॥ भजे भाष्य०॥ ३॥ अहिर्बुध्न्य‍इत्यादि यस्मिन्प्रमाणं कलौ कश्चिदित्यादिशुद्धं पुराणम् । मृषा घोषवादादि येनाधरीणं धुरीणं गुरूणां पुमांसं पुराणम् ॥ भजे भाष्य०॥ ४॥ यतीशाश्रितानां कनिष्ठो भवेयं सदा पञ्चमोपायनिष्ठो भवेयम् । गुरोरङ्घ्रिरूपो भवेयं भवेयं हरेरन्तरङ्गो भवेयं भवेयम् ॥ भजे भाष्य०॥ ५॥ अनन्तोहि भूत्वा महाभाष्यकारः प्रबुद्धं चकार त्रयीशब्दजालम् । पुनस्सोऽयमागत्य मद्भाष्यकारः प्रबुद्धं चकार श्रुतेरर्थमूलम् ॥ भजे भाष्य०॥ ६॥ मृषावादिदुर्वादपङ्के निमग्नं गुणाभावहेयस्वरूपादिभग्नम् । परं ब्रह्म यस्य प्रभावेण लग्नं बभौ दृष्टकल्याणलक्ष्मीवलग्नम् ॥ भजे भाष्य०॥ ७॥ सदैकान्तिभिर्दादशोद्यत्सहस्रै- श्चतुस्सप्ततिस्वीयसिंहासनस्थैः । तथाविष्णुभक्तैरनन्तैरुपेतं महारङ्गराजाङ्गरक्षाविनीतम् ॥ भजे भाष्य०॥ ८॥ न यागो न योगो न वा तन्त्रमन्त्रौ न हि ज्ञानदाने न भक्तिप्रपत्ती । तथाप्यात्मलब्धौ न सन्देहगन्धो बलम्मे महद्भाष्यकारानुबन्धः ॥ भजे भाष्य०॥ ९॥ कृतं वा तपो न्यद्बलंवागुरूणां श्रियःश्रीपतेः किन्नु साक्षादपेक्षा । घृणाभाष्यकारस्य निष्कारणा वा ममैषा मुखेघोषते कापि भाषा ॥ भजे भाष्य०॥ १०॥ परव्यूहलीलान्तरार्चाविशेषै- रशेषैर्हरिर्व्यासमन्वादिवेषैः । समुद्धर्तुमेतन्भवाब्धेरशक्त- स्ततोभूद्यतिः शेषभावानुषक्तः ॥ भजे भाष्य०॥ ११॥ भवाब्धौ निमग्नान्त्समुद्धर्तुकामः परोलक्ष्मणार्याद्गुरुर्नेति नेति । सनिस्साणभेरीमहाकाहलीभि- र्भटैर्घुष्यतां घुष्यतां दिक्तटेषु ॥ भजे भाष्य०॥ १२ ॥ सती ब्रह्मविद्या सुतः शैलदीपो गुरुः पारिजातः श्रितं भाग्यरत्नम् । ततः कालमेघे स्वयं भोगिराजे प्रसन्ने तदस्मिन्नलभ्यं कुतो नः ॥ भजे भाष्य०॥ १३॥ तृणीकृत्यवैरिञ्जिरुद्रप्रतिष्ठां यदीयाङ्घ्रिपाथोजकैङ्कर्यनिष्ठाम् । इहामुत्र च प्राभवाः प्रक्रमन्ते- तदन्यं गुरुं मूढभावा भजन्ते ॥ भजे भाष्य०॥ १४॥ यतीन्द्र्ं विनिन्दत्यसद्ग्रन्थकन्था- धराविश्वमिथ्यानुसन्धानगन्धाः । जगच्चक्षुषं प्रत्नमेकं शतान्धा- नपश्यन्त्यहो कर्मबन्धादिवान्धाः ॥ भजे भाष्य०॥ १५॥ न तर्केऽप्युदर्को न शब्दे च शक्तो न कस्यावतारो न तन्त्रस्वतन्त्रः । कथं कल्पयेत्सर्वभाषासु गाथाः किमाचार्यमाहात्म्यभीतस्सवेधाः ॥ भजे भाष्य०॥ १६॥ अहं तूर्ध्वबाहुर्भणामि श‍ृणुध्वं शठारातिनाथादिवाचः स्मरध्वम् । यतीन्द्राङ्घ्रिकैङ्कर्यमात्रे यतध्वं मनुध्वं मुरध्वंसिलोके रमध्वम् ॥ भजे भाष्य०॥ १७ ॥ सुधापुण्ड्रूरेखा विराजल्ललाटं सुधांशुप्रतीकाशकाशत्किरीटम् । समुद्धाट्य वैकुण्ठकक्ष्याकवाटं सुपर्णादिसंसेव्यमानन्दकूटम् ॥ भजे भाष्य०॥ १८॥ उषस्सान्ध्यरागारुणन्मेघरेखा- कचाकर्षिकाषायखण्डोत्तरीयम् । बृहन्नारदीयोक्तरूपं तुरीयं परं वस्तु पश्यामि लक्ष्मीधरीयम् ॥ भजे भाष्य०॥ १९॥ अलं देशिकैरन्यचित्तैः प्रमत्तै- रलंस्थाणुकल्पैरलक्ष्मीशतल्पैः । अपद्माक्षहारैरचक्राङ्कधारै- रसद्भाष्यकारैरशेषावतारैः ॥ भजे भाष्य०॥ २०॥ प्रफुल्लाब्जनेत्रं प्रभाशोभिगात्रं प्रकृत्या पवित्रं प्रभावैर्विचित्रम् । हरेरातपत्रं सतां जैतपत्रं सुपर्णस्यमित्रं सुमित्रासुपुत्रम् ॥ भजे भाष्य०॥ २१॥ अहो शाङ्कराः किङ्करत्वं प्रयाताः वरे भास्करास्तस्कराकारभाजः । ततो यादवाः पादवारिप्रपूता- स्तथैवागतास्सौगता भाट्टसाङ्ख्याः ॥ भजे भाष्य०॥ २२॥ शठः कापिलः कोऽपि लक्ष्यो न मोक्षे विनष्टस्वरोऽभूत्स माहेश्वरोऽपि । कणादः प्रमाणप्रणादोऽपि शान्तः प्रमाणं ब्रुवाणश्च गाणापतेयः ॥ भजे भाष्य०॥ २३॥ स्वयम्ब्रह्मसूत्रायभावेऽपि बुद्ध्या कथं ब्रह्मसूत्रादिभाष्यं विदध्यात् । कथं तस्य शिष्या बभूवुर्मनुष्याः कुतो नास्ति रोषः कलेरेष दोषः ॥ भजे भाष्य०॥ २४॥ पुरादर्शितं चोलभृत्कीटकण्ठं समारुह्य सह्याचलेन्द्रोपकण्ठम् । अकुण्ठप्रभावोऽत्र वैकुण्ठकल्पः सकण्ठीरवं प्राप्य सोल्लुण्ठमास्ते ॥ भजे भाष्य०॥ २५॥ नमः पुण्यकौण्डिन्यगोत्रोद्भवेभ्यो नमस्सालसद्ग्रामसद्वंशजेभ्यः । नमो वैष्णवेभ्यो महद्भ्योऽर्भकेभ्यो नमः शेषभावादचिद्भ्यश्च चिद्भ्यः । भजे भाष्यकारं भजे लक्ष्मणार्यं भजे सालसद्ग्रामरामानुजार्यम् ॥ २६॥ इति श्रीसालग्रामस्थलाचार्यपुरुषनरपतिराजसंस्थानगुरूद्दण्डवेदान्त- रङ्गार्यविरचितं यतिराजस्तोत्रद्वयं सम्पूर्णम् ॥ २॥ Encoded and proofread by Mohan Chettoor
% Text title            : yatirAjastotram 2
% File name             : yatirAjastotram2.itx
% itxtitle              : yatirAjastotram 2 (raNgAryavirachitam dhanaM yasya sadbrahma vidyAnidAnaM)
% engtitle              : yatirAjastotram 2
% Category              : deities_misc, stotra, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : stotra
% Author                : Rangarya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mohan Chettoor
% Proofread by          : Mohan Chettoor
% Description-comments  : Ramanuja Sampradaya. (Prayer to Shri Ramanujacharya, advice)
% Indexextra            : (Scan)
% Latest update         : June 6, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org