श्रीमातृभूतेश्वरस्तोत्रम्
प्रसन्नवक्त्रमेकदन्तमादिपूज्यमीश्वरं
सुरासुरेन्द्रसेव्यमानपादपद्ममव्ययम् ।
समस्तशोकनाशकारणं सुखप्रदं नृणां
उमासुतं नमामि तं समस्तविघ्नशान्तिदम् ॥ १॥
अजायमानमप्यनेकधा सुजायमानमुं(?)
पुराणमप्यहं युवानमादिकारणं शिवम् ।
अपाणिपादमप्यनेकपादपाणिचक्षुषं
नमामि मातृभूतसाम्बमूर्तिमेव सन्ततम् ॥ २॥
अनन्तरूपनामधेयमप्यनामरूपकं
कपालभिक्षमप्यशेषलोकसर्वकामदम् ।
अनाथमप्यशेषलोकनाथमीशमच्युतं
नमामि मातृभूतसाम्बमूर्तिमेव सन्ततम् ॥ ३॥
अजीवमप्यनन्तजीवरक्षकं सुजीविनं
महान्तमप्यणुं हृदि स्थितं न दृश्यमीडितम् ।
बहिःस्थितं नरामरैः स्वभक्तनेतृगोचरम् ।
नमामि मातृभूतसाम्बमूर्तिमेव सन्ततम् ॥ ४॥
उमावचःप्रतिप्रभाषणाज्ञमप्यधीश्वरं
सुवाग्मिनामपि प्रियं जितेन्द्रियोत्तमं रतौ ।
अजय्यमप्युमामुदे सुमेषुणा विनिर्जितं
नमामि मातृभूतसाम्बमूर्तिमेव सन्ततम् ॥ ५॥
कुरङ्गलोचनाऽगजाविलासहर्षमानसं
गजास्यशौरिबालकेलिदर्शनातिविस्मितम् ।
सुनन्दिबाणभृङ्गिचण्डिरावणादिपूजितं
नमामि मातृभूतसाम्बमूर्तिमेव सन्ततम् ॥ ६॥
सुमृत्तिकाशिलादिषूधियामपीष्टदायकं (?)
सुपुत्रनीलकण्ठनामधेयवक्तुरिष्टदम् ।
मृगं हरेषुमाहरेति वक्तुराशु मुक्तिदं
नमामि मातृभूतसाम्बमूर्तिमेव सन्ततम् ॥ ७॥
समस्तलोकदग्धुकामकालकूटभक्षकं
भिषग्वरं त्रिविष्टपस्य मातृभूतमीश्वरम् ।
मृकण्डुसूनुरक्षणाय मृत्युदर्पभञ्जकं
नमामि मातृभूतसाम्बमूर्तिमेव सन्ततम् ॥ ८॥
अनाथगर्भिणीस्त्रियः शिशोः सुतस्य मे सदा
सुखप्रदं सुमातृवत् शरण्यमेव नान्यथा ।
कृपारसार्द्रमानसेशमच्युतप्रियं शिवं
नमामि मातृभूतसाम्बमूर्तिमेव सन्ततम् ॥ ९॥
सुगन्धिकुन्तलाम्बिकासमेतमद्रिवासिनं
समीपवर्तिरङ्गनाथजम्बुकेश्वरप्रभुम् ।
अनाथगर्भिणीवधूसुखप्रसूतिकारकं
नमामि मातृभूतसाम्बमूर्तिमेव सन्ततम् ॥ १०॥
इयं समस्तकामदा नवप्रसूनमालिका
नृणामशेषकर्मजन्यशोककक्षपावका ।
सुदर्शनाख्यपण्डितेन भक्तियुक्तचेतसा
विलिख्यते शिवप्रसादलेशलाभवैभवात् ॥ ११॥
या कृपा गर्भिणीत्राणे या कृपा मुनिनन्दने ।
मातृभूतेश्वर क्षिप्रं सा कृपा मयि दीयताम् ॥ १२॥
या कृपा मुनिसन्त्राणे या कृपा कपिनायके ।
या विभीषणरक्षायां सा कृपा मयि दीयताम् ॥ १३॥
अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ ।
आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ
(अधश्चोर्ध्वं च रक्षेतां रामकृष्णौ धनुर्धरौ) ॥ १४॥
॥ इति श्रीमातृभूतेश्वरस्तोत्रं सम्पूर्णम् ॥
Proofread by Aruna Narayanan