नारकैः कृतम् विष्णुस्तोत्रम्
नारका ऊचुः -
नमः कृष्णाय हरये विष्णवे जिष्णवे नमः ।
हृषीकेशाय देवाय जगद्धात्रेऽच्युताय च ॥ ३८॥
नमः पङ्कजनेत्राय नमः पङ्कजनाभये ।
जनार्दनाय श्रीशाय श्रीपते पीतवाससे ॥ ३९॥
गोविन्दाय नमो नित्यं नमश्चोदधिशायिने ।
नमः करालवक्त्राय नृसिंहायातिनादिने ॥ ४०॥
शार्ङ्गिणे धृतखड्गाय शङ्खचक्रगदाधृते ।
नमो वामनरूपाय क्रान्तलोकत्रयाय च ॥ ४१॥
वराहरूपाय तथा नमो यज्ञाङ्गधारिणे ।
व्याप्ताशेषदिगन्ताय शान्ताय परमात्मने ॥ ४२॥
वासुदेव नमस्तुभ्यं नमः कैटभसूदन ।
केशवाय नमो व्यापिन्नमस्तेऽस्तु महीधर ॥ ४३॥
इति विष्णुधर्मेषु अष्टसप्ततितमोऽध्यायान्तर्गतं नारकैः कृतं
विष्णुस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran