वसुकृतम् विष्णुस्तोत्रम्

वसुकृतम् विष्णुस्तोत्रम्

वसुरुवाच - स्तौमि देवमजं नित्यं परिणामविवर्जितम् । अवृद्धिक्षयमीशानमच्युतं परतः परम् ॥ ५१॥ कल्पनाकृतनामानमनिर्देश्यमजं विभुम् । मूलहेतुमहेतुं त्वां वासुदेवं नमाम्यहम् ॥ ५२॥ परमार्थपरैरीशश्चिन्त्यते यः प्रजाकरैः । तं वासुदेवमीशेशं नमाम्यद्य गुणं परम् ॥ ५३॥ यस्मादिदं यत्र चेदमिदं यो विश्वमव्ययम् । तं वासुदेवममलं नमामि परमेश्वरम् ॥ ५४॥ ज्ञेयं ज्ञातारमजरं भोक्तारं प्रकृतेः प्रभुम् । पुरुषस्वरूपिणं देवं नतोऽस्मि पुरुषं परम् ॥ ५५॥ प्रधानादिविशेषान्तस्वरूपमजमव्ययम् । स्थूलसूक्ष्ममयं सर्वव्यापिनं तं नमाम्यहम् ॥ ५६॥ स्रष्टा पालयिता चान्ते यश्च संहारकारकः । त्रयीमयं तं त्रिगुणं नतोऽस्मि पुरुषोत्तमम् ॥ ५७॥ आब्रह्मस्थावरान्ते च यो जगत्यत्र संस्थितः । व्यक्तरूपी च तं देवं नतोऽहं विष्णुमव्ययम् ॥ ५८॥ नमो नमोऽस्तु ते देव जगतामीश्वरेश्वर । परमार्थ पराचिन्त्य विधातः परमेश्वर ॥ ५९॥ त्वमादिरन्तो मध्यं च जगतोऽस्य जगत्पते । जगत्त्वयि जगच्च त्वं जगत्त्वत्तो जगन्मय ॥ ६०॥ तवाग्निरासं वसुधाङ्घ्रियुग्मं नभः शिरश्चन्द्ररवी च नेत्रे । समस्तलोका जठरं भुजाश्च दिशश्चतस्रो भगवन्नमस्ते ॥ ६१॥ यद्भूगतं यद्गगनान्तराले यद्वा नभस्यखिललोकगं च । यत्स्थूलं सूक्ष्मं परतस्ततोऽपि यदस्ति यन्नास्ति च तत्त्वमीश ॥ ६२॥ वेदाश्च वेद्यं च भगवाननन्तो वेदान्तवेद्यश्च समस्तहेतो । वदन्ति तत्त्वा मुनयः परेशं त्वयि प्रसन्ने परमार्थदृश्ये ॥ ६३॥ नमो हृषीकेश तवाप्रमेय नमश्च तुभ्यं परमार्थसार । विष्णो नमस्तेऽस्तु परापरेश कृष्णाच्युतानन्त जगन्निवास ॥ ६४॥ नमोऽस्तु तुभ्यं परमेश्वराय नमस्तथान्तःकारणस्थिताय । प्रधानभूताय नमश्च तुभ्यं व्यक्तस्वरूपेण च संस्थिताय ॥ ६५॥ संहृत्य विश्वं जलशायिने नमो नमश्च ते कैटभसूदनाय । स्वनाभिपद्मोदरशायिने च ब्रह्मस्वरूपोपनताय चैव ॥ ६६॥ स्रष्ट्रे नमः पालयित्रे स्थितौ च सर्वेश तुभ्यं पुरुषोत्तमाय । रुद्राय चान्ते क्षयहेतवे ते नतोऽस्मि संहारकराय विष्णो ॥ ६७॥ जय प्रपन्नार्तिहराप्रमेय जयाग्निवस्वश्विमय प्रजेश । रुद्रेन्द्रचन्द्रस्तुत देवदेव जयामराणामरिशातनाय ॥ ६८॥ जितं त्वया सर्वग सर्वसारं सर्वात्मभूताखिल वेदवेद्य । जितं जिताक्षामलचित्तदृश्य चराचराधार धराधरेड्य ॥ ६९॥ यज्ञाश्रयो यज्ञपुमानशेष देवेश मर्त्यासुरयज्ञभोक्तः । त्वमीड्यमानोऽभिमतं ददासि धराधरेशाच्युत वासुदेव ॥ ७०॥ नमस्ते देवदेव त्वं यथा पास्यखिलं जगत् । स्थितौ तथा समस्तेभ्यो दोषेभ्यो मां समुद्धर ॥ ७१॥ कृष्णाच्युत हृषीकेश सर्वभूतेश केशव । महात्मंस्त्राहि मां भक्तं वासुदेव प्रसीद मे ॥ ७२॥ इति विष्णुधर्मेषु द्विसप्ततितमोऽध्यायान्तर्गतं वसुकृतं विष्णुस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Vasukritam Vishnu Stotram
% File name             : viShNustotraMvasukRRitam.itx
% itxtitle              : viShNustotraM vasukRitam (viShNudharmopapurANAntargatam)
% engtitle              : viShNustotraMvasukRitam
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : from Vishnudharma Upapurana. Adhyaya 72
% Indexextra            : (Text)
% Latest update         : December 25, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org