ब्राह्मणकृतम् विष्णुस्तोत्रम्

ब्राह्मणकृतम् विष्णुस्तोत्रम्

ब्राह्मण उवाच - प्रणिपत्याक्षरं विश्वं विश्वहेतुं निरञ्जनम् । यत्प्रार्थयाम्यविकलं सकलं तत्प्रयच्छतु ॥ ७७॥ कर्तारमकृतं विष्णुं सर्वकारणकारणम् । अणोरणीयांसमजं सर्वव्यापिनमीश्वरम् ॥ ७८॥ परात्परतरं यस्मान्नास्ति सर्वेश्वरात्परम् । तं प्रणम्याच्युतं देवं प्रार्थयामि यदस्तु तत् ॥ ७९॥ सर्वेश्वराच्युतानन्त परमात्मञ्जनार्दन । संसाराब्धिमहापोत समुद्धर महार्णवात् ॥ ८०॥ व्योमानिलाग्न्यम्बुधरस्वरूप तन्मात्रसर्वेन्द्रियबुद्धिरूप । अन्तःस्थितात्मन्परमात्मरूप प्रसीद सर्वेश्वर विश्वरूप ॥ ८१॥ तमादिरन्तो जगतोऽस्य मध्यमादेस्त्वमादिः प्रलयस्य चान्तः । त्वत्तो भवत्येतदशेषमीश त्वय्येव चान्ते लयमभ्युपैति ॥ ८२॥ प्रदीपवर्त्यन्तगतोऽग्निरल्पो यथातिकक्षे विततं प्रयाति । तद्वद्विसृष्टेरमरादिभिन्नैर्विकाशमायासि विभूतिभेदैः ॥ ८३॥ यथा नदीनां बहवोऽम्बुवेगाः समन्ततोऽब्धिं भगवन्विशन्ति । त्वय्यन्तकाले जगदच्युतेदं तथा लयं गच्छति सर्वभूते ॥ ८४॥ त्वं सर्वमेतद्बहुधैक एव जगत्पते कार्यमिवाभ्युपेतम् । यदस्ति यन्नास्ति च तत्त्वमेव हरे त्वदन्यद्भगवन्किमस्ति ॥ ८५॥ किन्त्वीश माया भवतो निजेयमाविष्कृताविष्कृतलोकसृष्टे । ययाहमेषोऽन्यतमो ममेति मदीयमस्याभिवदन्ति मूढाः ॥ ८६॥ तया विमूढेन मयाब्जनाभ न यत्कृतं तत्क्वचिदस्ति किञ्चित् । भूम्यम्बराग्निसलिलेषु देव जाग्रत्सुषुप्त्यादिषु दुःखितेन ॥ ८७॥ न सन्ति तावन्ति जलान्यपीड्य सर्वेषु नाथाब्धिषु सर्वकालम् । स्तन्यानि यावन्ति मयातिघोरे पीतानि संसारमहासमुद्रे ॥ ८८॥ सम्पच्छिलानां हिमवन्महेन्द्र कैलासमेर्वादिषु नैव तादृक् । देहान्यनेकान्यनुगृह्णतो मे प्राप्तास्थिसम्पन्महति यथेश ॥ ८९॥ त्वय्यर्पितं नाथ पुनः पुनर्मे मनः समाक्षिप्य सुदुर्धरोऽपि । रागो हि वश्यं कुरुते ततोऽनु लोभादयः किं भगवन्करोमि ॥ ९०॥ एकाग्रतामूल्यबलेन लभ्यं भवौषधं त्वं भगवन्किलैकः । मनः परायत्तमिदं भवेऽस्मिन्संसारदुःखात्किमहं करोमि ॥ ९१॥ न सन्ति ते देव भुवि प्रदेशा न येषु जातोऽस्मि तथा विनष्टः । अत्ता मया येषु न जन्तवश्च सम्भक्षितो यैश्च न जन्तुसङ्घैः ॥ ९२॥ सिंहेन भूत्वा बहवो मयात्ता व्याघ्रेण भूत्वा बहवो मयात्ताः । तथान्यरूपैर्बहवो मयात्ताः सम्भक्षितोऽहं बहुभिस्ततश्च ॥ ९३॥ उत्क्रान्तिदुःखान्यतिदुःसहानि सहस्रशो यान्यनुसंस्मरामि । तैः संस्मृतैस्तत्क्षणमेव देव तडिद्यथा मे हृदयं प्रयाति ॥ ९४॥ ततश्च दुःखान्यनिवारणानि यन्त्राग्निशस्त्रौघसमुद्भवानि । भवन्ति यान्यच्युत नारकानां तान्येव तेषामुपमानमात्रम् ॥ ९५॥ दुःखान्यसह्यानि च गर्भवासे विण्मूत्रमध्येऽतिनिपीडितस्य । भवन्ति यानि च्यवतश्च गर्भात्तेषां स्वरूपं गदितुं न शक्यम् ॥ ९६॥ दुःखानि बालेषु महान्ति नाथ कौमारके यौवनिनश्च पुंसः । ज्वरातिसाराक्षिरुगादिकानि समस्तदुःखालय एव वृद्धः ॥ ९७॥ करोति कर्माच्युत तत्क्षणेन पापं नरः कायमनोवचोभिः । यस्याब्दलक्षैरपि नान्तमेति शस्त्रादियन्त्राग्निनिपीडनेषु ॥ ९८॥ दुःखानि यानीष्टवियोगजानि भवन्ति संसारविहारभाजाम् । प्रत्येकशस्तेषु नरा विनाशमिच्छन्त्यसूनां ममताभिभूताः ॥ ९९॥ शोकाभिभूतस्य ममाश्रु देव यावत्प्रमाणं न जलं पयोदा । तावत्प्रमाणं न जलं पयोदा मुञ्चन्त्यनेकैरपि वर्षलक्षैः ॥ १००॥ मन्ये धरित्री परमाणुसङ्ख्यामुपैति पित्रोर्गणनामशेषम् । मित्राण्यमित्राण्यनुजीविबन्धून्सङ्ख्यातमीशोऽस्मि न देवदेव ॥ १०१॥ सोऽहं भृशार्तः करुणां कुरु त्वं संसारगर्ते पतितस्य विष्णो । महात्मनां संश्रयमभ्युपेतो नैवावसीदत्यतिदुर्गतोऽपि ॥ १०२॥ परायणं रोगवतां हि वैद्यो महाब्धिमग्नस्य च नौर्नरस्य । बालस्य मातापितरौ सुघोरसंसारखिन्नस्य हरे त्वमेकः ॥ १०३॥ प्रसीद सर्वेश्वर सर्वभूत सर्वस्य हेतो परमार्थसार । मामुद्धरास्मादुरुदुःखपङ्कात्संसारगर्तात्स्वपरिग्रहेण ॥ १०४॥ धर्मात्मनामविकलां त्वयि नाथ भक्तिं श्रद्धावतां सततमुद्वहतां वरेण्य । कार्यं कियन्मम विमूढधियोऽधमस्य भूत्वा कृपालुरमलामज देहि बुद्धिम् ॥ १०५॥ ज्ञात्वा ययाखिलमसारमसारमेव भूतेन्द्रियादिकमपारममुक्तिमूलम् । मायान्तरेयमचलां तव विश्वरूप सम्मोहितं सकलमेव जगद्ययैतत् ॥ १०६॥ ब्रह्मेन्द्ररुद्रमरुदश्विदिवाकराद्या ज्ञातुं न यं परमगुह्यतमं समर्थाः । न त्वामलं स्तुतिपथेष्वहमीशितारं स्तोष्यामि मोहकलुषाल्पमतिर्मनुष्यः ॥ १०७॥ यस्मादिदं भवति यत्र जगत्तथेदं यस्मिंल्लयं व्रजति यश्च जगत्स्वरूपः । तं सर्गसंस्थितिविनाशनिमित्तभूतं स्तोतुं भवन्तमलमीश न कश्चिदस्ति ॥ १०८॥ मूढोऽयमल्पमतिरल्पसुचेष्टितोऽयं क्लिष्टं मनोऽस्य विषयैर्न मयि प्रसङ्गि । इत्थं कृपां कुरु मयि प्रणते किलेश त्वां स्तोतुमम्बुजभवोऽपि हि देव नेशः ॥ १०९॥ यस्योदरे सकल एव महीध्रचन्द्र - देवेन्द्ररुद्रमरुदश्विदिवाकराग्नि- । भूम्यम्बुवायुगगनं जगतां समूहं स्तोष्यामि तं स्तुतिपदैः कतमैर्भवन्तम् ॥ ११०॥ यस्याग्निरुद्रकमलोद्भववासवाद्यैः स्वांशावतारकरणेषु सदाङ्घ्रियुग्मम् । अभ्यर्च्यते वद हरे स कथं मयाद्य सम्पूजितः परमुपैष्यसि तोषमीश ॥ १११॥ न स्तोतुमच्युत भवन्तमहं समर्थो नैवार्चनैरलमहं तव देव योग्यः । चित्तं च न त्वयि समाहितमीश दोषैः आक्षिप्यते कथय किं नु करोमि पापः ॥ ११२॥ तत्त्वं प्रसीद भगवन्कुरु मय्यनाथे विष्णो कृपां परमकारुणिकः किल त्वम् । संसारसागरनिमग्नमनन्त दीनं उद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि ॥ ११३॥ इति विष्णुधर्मेषु चतुर्नवतितमोऽध्यायान्तर्गतं ब्राह्मणकृतं विष्णुस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Brahmanakritam Vishnu Stotram
% File name             : viShNustotrambrAhmaNakRRitam.itx
% itxtitle              : viShNustotraM brAhmaNakRitam (viShNudharmopapurANAntargatam)
% engtitle              : viShNustotraM brAhmaNakRitam
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : from Vishnudharma Upapurana. Adhyaya 94
% Indexextra            : (Text)
% Latest update         : December 25, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org