हिमवता कृतं गिरिजास्तोत्रम्
हिमवानुवाच -
अद्य मे सफलं जन्म अद्य मे सफलं तपः ॥ १॥
यन्मे साक्षात्त्वमव्यक्ता प्रसन्ना दृष्टिगोचरा ।
त्वया सृष्टं जगत्सर्वं प्रधानाद्यं त्वयि स्थितम् ॥ २॥
त्वय्येव लीयते देवि त्वमेव च परा गतिः ।
वदन्ति केचित्त्वामेव प्रकृतिं प्रकृतेः पराम् ॥ ३॥
अपरे परमार्थज्ञाः शिवेति शिवसंश्रयात् ।
त्वयि प्रधानं पुरुषो महान् ब्रह्मा तथेश्वरः ॥ ४॥
अविद्या नियतिर्माया कलाद्याः शतशोऽभवन् ।
त्वं हि सा परमा शक्तिरनन्ता परमेष्ठिनी ॥ ५॥
सर्वभेदविनिर्मुक्ता सर्वेभेदाश्रयाश्रया ।
त्वामधिष्ठाय योगेशि महादेवो महेश्वरः ॥ ६॥
प्रधानाद्यं जगत्कृत्स्नं करोति विकरोति च ।
त्वयैव सङ्गतो देवः स्वमानन्दं समश्नुते ॥ ७॥
त्वमेव परमानन्दस्त्वमेवानन्ददायिनी ।
त्वमक्षरं परं व्योम महज्ज्योतिर्निरञ्जनम् ॥ ८॥
शिवं सर्वगतं सूक्ष्मं परं ब्रह्म सनातनम् ।
त्वं शक्रः सर्वदेवानां ब्रह्मा ब्रह्मविदामसि ॥ ९॥
वायुर्बलवतां देवि योगिनां त्वं कुमारकः ।
ऋषीणां च वसिष्ठस्त्वं व्यासो वेदविदामसि ॥ १०॥
साङ्ख्यानां कपिलो देवो रुद्राणामसि शङ्करः ।
आदित्यानामुपेन्द्रस्त्वं वसूनां चैव पावकः ॥ ११॥
वेदानां सामवेदस्त्वं गायत्री छन्दसामसि ।
अध्यात्मविद्या विद्यानां गतीनां परमा गतिः ॥ १२॥
माया त्वं सर्वशक्तीनां कालः कलयतामसि ।
ओङ्कारः सर्वगुह्यानां वर्णानां च द्विजोत्तमः ॥ १३॥
आश्रमाणां च गार्हस्थ्यमीश्वराणां महेश्वरः ।
पुंसां त्वमेकः पुरुषः सर्वभूतहृदि स्थितः ॥ १४॥
सर्वोपनिषदां देवि गुह्योपनिषदुच्यते ।
ईशानश्चासि कल्पानां युगानां कृतमेव च ॥ १५॥
आदित्यः सर्वमार्गाणां वाचां देवि सरस्वती ।
त्वं लक्ष्मीश्चारुरूपाणां विष्णुर्मायाविनामसि ॥ १६॥
अरुन्धती सतीनां त्वं सुपर्णः पततामसि ।
सूक्तानां पौरुषं सूक्तं साम ज्येष्ठं च सामसु ॥ १७॥
सावित्री चासि जाप्यानां यजुषां शतरुद्रियम् ।
पर्वतानां महामेरुरनन्तो भोगिनामसि ॥ १८॥
सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि ॥ १९॥
रूपं तवाशेषकलाविहीनमगोचरं निर्मलमेकरूपम् ।
अनादिमध्यान्तमनन्तामाद्यं नमामि सत्यं तमसः परस्तात् ॥ २०॥
यदेव पश्यन्ति जगत्प्रसूतिं वेदान्तविज्ञानविनिश्चितार्थाः ।
आनन्दमात्रं प्रणवाभिधानं तदेव रूपं शरणं प्रपद्ये ॥ २१॥
अशेषभूतान्तरसन्निविष्टं प्रधानपुंयोगवियोगहेतुम् ।
तेजोमयं जन्मविनाशहीनं प्राणाभिधानं प्रणतोऽस्मि रूपम् ॥ २२॥
आद्यन्तहीनं जगदात्मभूतं विभिन्नसंस्थं प्रकृतेः परस्तात् ।
कूटस्थमव्यक्तवपुस्तथैव नमामि रूपं पुरुषाभिधानम् ॥ २३॥
सर्वाश्रयं सर्वजगद्विधानं सर्वत्रगं जन्मविनाशहीनम् ।
सूक्ष्मं विचित्रं त्रिगुणं प्रधानं नतोऽस्मि ते रूपमरूपभेदम् ॥ २४॥
आद्यं महान्तं पुरुषात्मरूपं प्रकृत्यवस्थं त्रिगुणात्मबीजम् ।
ऐश्वर्यविज्ञानविरागधर्मैः समन्वितं देवि नतोऽस्मि रूपम् ॥ २५॥
द्विसप्तलोकात्मकमम्बुसंस्थं विचित्रभेदं पुरुषैकनाथम् ।
अनन्तभूतैरधिवासितं ते नतोऽस्मि रूपं जगदण्डसञ्ज्ञम् ॥ २६॥
अशेषवेदात्मकमेकमाद्यं स्वतेजसा पूरितलोकभेदम् ।
त्रिकालहेतुं परमेष्ठिसञ्ज्ञं नमामि रूपं रविमण्डलस्थम् ॥ २७॥
सहस्रमूर्धानमनन्तशक्तिं सहस्रबाहुं पुरुषं पुराणम् ।
शयानमन्तः सलिले तथैव नारायणाख्यं प्रणतोऽस्मि रूपम् ॥ २८॥
दंष्ट्राकरालं त्रिदशाभिवन्द्यं युगान्तकालानलकल्परूपम् ।
अशेषभूताण्डविनाशहेतुं नमामि रूपं तव कालसञ्ज्ञम् ॥ २९॥
फणासहस्रेण विराजमानं भोगीन्द्रमुख्यैरभिपूज्यमानम् ।
जनार्दनारूढतनुं प्रसुप्तं नतोऽस्मि रूपं तव शेषसञ्ज्ञम् ॥ ३०॥
अव्याहतैश्वर्यमयुग्मनेत्रं ब्रह्मामृतानन्दरसज्ञमेकम् ।
युगान्तशेषं दिवि नृत्यमानं नतोऽस्मि रूपं तव रुद्रसञ्ज्ञम् ॥ ३१॥
प्रहीणशोकं विमलं पवित्रं सुरासुरैरर्चितापादपद्मम् ।
सुकोमलं देवि विभासि शुभ्रं नमामि ते रूपमिदं भवानि ॥ ३२॥
ॐ नमस्तेऽस्तु महादेवि नमस्ते परमेश्वरि ।
नमो भगवतीशानि शिवायै ते नमो नमः ॥ ३३॥
त्वन्मयोऽहं त्वदाधारस्त्वमेव च गतिर्मम ।
त्वामेव शरणं यास्ये प्रसीद परमेश्वरि ॥ ३४॥
मया नास्ति समो लोके देवो वा दानवोऽपि वा ।
जगन्मातैव मत्पुत्री सम्भूता तपसा यतः ॥ ३५॥
एषा तवाम्बिका देवि किलाभूत्पितृकन्यका ।
मेनाऽशेषजगन्मातुरहो पुण्यस्य गौरवम् ॥ ३६॥
पाहि माममरेशानि मेनया सह सर्वदा ।
नमामि तव पादाब्जं व्रजामि शरणं शिवाम् ॥ ३७॥
अहो मे सुमहद्भाग्यं महादेवीसमागमात् ।
आज्ञापय महादेवि किं करिष्यामि शङ्करि ॥ ३८॥
एतावदुक्त्वा वचनं तदा हिमगिरीश्वरः ।
सम्प्रेक्षणमाणो गिरिजां प्राञ्जलिः पार्श्वतोऽभवत् ॥ ३९॥
इति कूर्मपुराणे पूर्वभागे द्वादशाध्यायान्तर्गतं
हिमवता कृतं गिरिजास्तोत्रं समाप्तम् ।
कूर्मपुराणे पूर्वभागे १२/२०७-२४४
Proofread by PSA Easwaran