श्रीगौतमस्तोत्रम्
जय सर्वार्थसच्छील जय सद्भोग्यसद्गुण ।
जय पन्नगपरीङ्क जय पद्मायतेक्षण ॥ १॥
देवेश भिन्नदैत्याङ्ग देवषिध्यानदुर्ग्रह ।
दिव्यलोक दयासिन्धो श्रीरङ्गेश नमोऽस्तु ते ॥ २॥
देवदेव जगन्नाथ सर्वकारणकारण ।
सर्वाधार निराधार श्रीरङ्गेश नमोऽस्तु ते ॥ ३॥
श्रीधराश्रितसङ्कल्प सर्वाभीष्टप्र दायक ।
विष्णुरूप विचित्राङ्ग श्रीरङ्गेश नमोऽस्तु ते ॥ ४॥
विशृङ्खलगते तुभ्यं चिदचिद्वस्तुशेषिणे ।
स्थिरत्रयपते तुभ्यं श्रीरङ्गेश नमोऽस्तु ते ॥ ५॥
वेदाय वेदरूपाय वेदरूपधराय च ।
वेदवेदान्तवेद्याय श्रीरङ्गेश नमोऽस्तु ते ॥ ६॥
यज्ञाय यज्ञरूपाय यज्ञपूरुषरूपिणे ।
यज्ञाधाराययज्ञेश श्रीरङ्गेश नमोऽस्तु ते ॥ ७॥
विश्वेश्वराय विश्वाय विश्वरूपधराय च ।
व्यस्त (व्यसन) हस्ताय श्रीरङ्गेश नमोऽस्तु ते ॥ ८॥
ब्रह्मेश्वराय ब्रह्माय ब्रह्ममूर्तिबृहस्पते ।
बृहस्पतिविदे तुभ्यं श्रीरङ्गेश नमोऽस्तु ते ॥ ९॥
शिवाय शिवरूपाय शिवत्राणपराय च ।
शिवाधाराय शान्ताय श्रीरङ्गेश नमोऽस्तु ते ॥ १०॥
सर्वेश्वराय सर्वाय सर्वशास्त्रस्वरूपिणे ।
सर्वाराध्याय मेध्याय श्रीरङ्गेश नमोऽस्तु ते ॥ ११॥
अब्जौकाद्यमरेशाय सच्चिदानन्दरूपिणे ।
चिन्मात्ररूपिणे नित्यं श्रीरङ्गेश नमोऽस्ते ते ॥ १२॥
सर्वं शरीरं भवतः शरीरी त्वं रमापते ।
अतोऽत्र भिन्नः सर्वस्मात् श्रीरङ्गेश नमोऽस्तु ते ॥ १३॥
इति स्तुतो जगन्नाथो गौतम रङ्गनायकः ।
स्तोत्रेणेत्थं कृतेनेह यः स्तोष्यति सदा नरः ।
यं यं कामयते कामं तं तमाप्नोत्यसंशयः ॥ १४॥
इति गौतमस्तोत्रं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan