श्रीमीनाक्षीस्तोत्रम्
मन्दस्मितोदञ्चितमञ्जुलास्यां कनन्निटालां वरकुङ्कुमेन ।
श्रीसुन्दरेशेन समं निशीथे प्रेङ्खाधिरूढां भज मीननेत्राम् ॥ १॥
दविष्ठलोकांश्च दयोर्मिलेन विलोकनेनैव विशालनेत्रा ।
मत्स्या इवार्भान्परिपालयन्ती डोलाविहारं तनुते झषाक्षी ॥ २॥
कृत्वा तपो दुश्चरमम्बिकायाः
माता भवामीति मनीषया या ।
प्राप्ता पुरा काञ्चनमालया सा
पाण्ड्याधिराज्ञी वितनोतु भव्यम् ॥ ३॥
दिव्यं रूपं दधाना ललिततररवैर्वेणुवीणादिजातैः
प्रापय्यान्तर्मुखत्वं निखिलजनमनांस्यात्मरूपं विवेक्तुम् ।
वृत्तीर्मोदादिरूपा अपि परिगलिताः कुर्वती ब्रह्मविद्या
मीनाक्षी जीवनीडं सुखममृतमहो बोधयन्ती विभाति ॥ ४॥
प्रेङ्खामारुह्य पत्या सह सुररमणीगर्वनिर्वापिकाभिः
नारीभिर्गीयमाना नवनवनटनैस्तोष्यमाणा च नित्यम् ।
आनन्दं देवभोग्यं धिगिति सुमनसामादधाना विरक्तिं
सान्द्रानन्दं महेशं परममृतमहो बोधयत्यम्बिकेयम् ॥ ५॥
या देवी द्वादशान्ते वसति विशदया प्रज्ञयैवाधिगम्या
यस्याः प्राप्त्यै विधत्ते श्रुतिरपि विविधान् यज्ञदानादिधर्मान् ।
साक्षाच्छ्रीमीननेत्रा मघवदधिगता कुम्भजाद्यर्चिताङ्घ्रिः
सा मे सोमावतंसा शिथिलयतु तमो हार्दमाशु प्रगाढम् ॥ ६॥
यस्या गेहं विशालं पुरमिव सकलं वस्तुजातं बिभर्ति
यद्दृष्ट्वैवाशु मोदं वहति भुवि जनो नास्तिकोऽपि प्रकामम् ।
स्तम्भैर्हैमैर्विचित्रैरपि शिखरवरैर्गोपुरैः शौकनीडैः
तीर्थैर्हेमाम्बुजिन्यादिभिरपि परितो भासमानं श्रियै स्तात् ॥ ७॥
सा हि श्रीरमृता सतामिति ऋचः सामानि यस्माद्यजूं-
ष्याम्नायो विदधाति तत्परशिवे मीनाक्षि विद्यां त्रयीम् ।
सम्बोध्यामृतसौख्यहेतुमचिरादव्याजभव्यां दयां
नित्यं धेहि सुते जगज्जननि ते भूयोऽपि भूयो नमः ॥ ८॥
शफरनयने शान्ताराध्ये शिवार्धशरीरिणि
प्रचुरय सुखं दुःखं सर्वं विनाशय सत्वरम् ।
सफलय जनिं सक्तिं देहे निराकुरु सद्धने
चितिसुखतनावात्मन्यास्तां मतिर्मम सन्ततम् ॥ ९॥
इति श्रीचन्द्रशेखरभारतीश्रीचरणकृतं मीनाक्षीस्तोत्रं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan