श्रीमहापुरुषचरणारविन्दस्तोत्रम्
ध्येयं सदा परिभवघ्नमभीष्टदोहं
तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् ।
भृत्यार्तिहं प्रणतफालभवाब्धिपोतं
वन्दे महापुरुष ते चरणारविन्दम् ॥ १॥
शोणारविन्दकलशध्वजकल्पकादि-
मीनातपत्रमकराङ्कुशवशङ्खैः ।
यच्चिह्नितं परमयोगिमुनीन्द्रसेव्यं
वन्दे महापुरुष ते चरणारविन्दम् ॥ २॥
मुक्तिप्रदं परमयोगिमुनीन्द्रसेव्यं
तापत्रयानलनिवारणमादिभूतम् ।
वृन्दावनस्थलविहारविनोदलीलं
वन्दे महापुरुष ते चरणारविन्दम् ॥ ३॥
विन्यस्तमरतमथ शस्तसमस्त-
कल्याणवैभवसुधास्पदमास (माशु) गम्यम् ।
मन्दाकिनीजननकारणहेतुभूतं
वन्दे महापुरुष ते चरणारविन्दम् ॥ ४॥
यत्कालियोरगफणामणिरत्नशोणं
गोपाङ्गनाकरसरोरुहयोगयोग्यम् ।
नानाविधश्रुतिलतोत्पलमूलकन्दं
वन्दे महापुरुष ते चरणारविन्दम् ॥ ५॥
इति श्रीमहापुरुषचरणारविन्दस्तोत्रं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan