श्रीचक्रवर्तीश्वरस्तोत्रम्
(शार्दूलविक्रीडितवृत्तम्)
भक्तानां विभवप्रदो भवहरो विज्ञानदो दुःखहा
भक्ते प्रीतिकरो ह्यशेषविषयव्यामोहभिच्छङ्करः ।
नित्यानन्दपदे निजे निरवधौ संस्थापको निर्मलः
सर्वेषामिह शं तनोतु भगवान् श्रीचक्रवर्तीश्वरः ॥ १॥
धर्मग्लानिरहो यदा सुकृतिनां कष्टं च दुष्टैर्महत्
कामक्रोधमदादिकाश्च नितरां सम्पीडयन्ति क्षितौ ।
तस्मिन्यः स हि भक्तहृद्गतविभुर्धर्माय चावातरत्
सर्वेषामिह शं तनोतु भगवान् श्रीचक्रवर्तीश्वरः ॥ २॥
यो मायारहितश्चकास्ति सततं ब्रह्मेति वेदस्तुतः
यस्मिन् कार्यमिदं विभाति सकलं रज्जौ यथाऽहेर्भ्रमः ।
सर्वस्याहमितीह च स्मृतिरियं विभ्राजतेऽहर्निशं
सर्वेषामिह शं तनोतु भगवान् श्रीचक्रवर्तीश्वरः ॥ ३॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचितं श्रीचक्रवर्तीश्वरस्तोत्रं सम्पूर्णम् ।
आश्वयुज शुद्ध १२, आलमोडु,
रचनास्थानं श्री महाकाळ श्री चक्रवर्तीश्वर क्षेत्रं,
संवत्सरः - १९४६
Proofread by Manish Gavkar