रामानुजाष्टोत्तरशतनामस्तोत्रम्
ॐ श्रीमते रामानुजाय नमः ॥
ॐ रामानुजः पुष्कराक्षो यतीन्द्रः करुणाकरः ।
कान्तिमत्यात्मजः श्रीमाँल्लीलामानुषविग्रहः ॥ १॥
सर्वशास्त्रार्थतत्त्वज्ञः सर्वज्ञः सज्जनप्रियः ।
हारीतगोत्रतिलकः श्रीभूतपुरपालकः ॥ २॥
अनघो भक्तमन्दारः केशवानन्दवर्धनः ।
काञ्चीपूर्णप्रियसखः प्रणतार्तिविनाशकः ॥ ३॥
पुण्यसङ्कीर्तनः पुण्योब्रह्मराक्षसमोचकः ।
यादवापादितापार्थवृक्षच्छेदकुठारकः ॥ ४॥
अमोघो लक्ष्मणमुनिः शारदाशोकनाशकः ।
निरन्तरजनाज्ञानविमोचनविचक्षणः ॥ ५॥
वेदान्तद्वयसारज्ञो वरदाम्बुप्रदायकः ।
पराभिप्रायतत्त्वज्ञो यामुनाङ्गुलिमोचकः ॥ ६॥
देवराजकृपालब्धषड्वाक्यार्थमहोदधिः ।
पूर्णार्यलब्धसन्मन्त्रः शौरिपादाब्जषट्पदः ॥ ७॥
त्रिदण्डधारी ब्रह्मज्ञो ब्रह्मध्यानपरायणः ।
रङ्गेशकैङ्कर्यरतो विभूतिद्वयनायकः ॥ ८॥
गोष्ठीपूर्णकृपालब्धमन्त्रराजप्रकाशकः ।
वररङ्गानुकम्पात्तद्राविडाम्नायपारगः ॥ ९॥
मालाधगयसुज्ञात द्राविडाम्नायतत्त्वधीः ।
चतुस्सप्ततिशिष्याढ्यः पञ्चाचार्यपदाश्रयः ॥ १०॥
प्रपीतविषतीर्थाम्भः प्रकटीकृतवैभवः ।
प्रणतार्तिहराचार्यदत्तभिक्षैकभोजनः ॥ ११॥
पवित्रीकृतकूरेश भागिनेयत्रिदण्डकः ।
कूरेशदासरथ्यादिचरमार्थप्रदायकः ॥ १२॥
रङ्गेशवेङ्कटेशादिप्रकटीकृतवैभवः ।
देवराजार्चनरतो मूकमुक्तिप्रदायकः ॥ १३॥
यज्ञमूर्तिप्रतिष्ठाता मन्नाथो धरणीधरः ।
वरदाचार्येसद्भक्तो यज्ञेशार्तिविनाशकः ॥ १४॥
अनन्ताभीष्टफलदो विठ्ठलेशप्रपूजितः ।
श्रीशैलपूर्णकरुणालब्धरामायणार्थकः ॥ १५॥
प्रपत्तिधर्मैकरतो गोविन्दार्यप्रियानुजः ।
व्याससूत्रार्थतत्त्वज्ञो बोधायनमतानुगः ॥ १६॥
श्रीभाष्यादिमहाग्रन्थकारकः कलिनाशनः ।
अद्वैतमतविच्छेत्ता विशिष्टाद्वैतपारगः ॥ १७॥
कुरङ्गनगरीपूर्णमन्त्ररत्नोपदेशकः ।
विनाशिताखिलमतश्शेषीकृतरमापतिः ॥ १८॥
पुत्रीकृतशठारातिश्शठजिदृणमोचकः ।
भाषादत्तहयग्रीवो भाष्यकारो महायशाः ॥ १९॥
पवित्रीकृतभूभागः कूर्मनाथप्रकाशकः ।
श्रीवेङ्कटाचलाधीशशङ्खचक्रप्रदायकः ॥ २०॥
श्रीवेङ्कटेशश्वशुरः श्रीरमासखदेशिकः ।
कृपामात्रप्रसन्नार्यो गोपिकामोक्षदायकः ॥ २१॥
समीचीनार्यसच्छिष्यसत्कृतो वैष्णवप्रियः ।
कृमिकण्ठनृपध्वंसी सर्वमन्त्रमहोदधिः ॥ २२॥
अङ्गीकृतान्ध्रपूर्णार्यस्सालग्रामप्रतिष्ठितः ।
श्रीभक्तग्रामपूर्णाढ्य विष्णुवर्धनरक्षकः ॥ २३॥ (श्रीभक्तग्रामपूर्णेश)
बौद्धध्वान्तसहस्रांशुःशेषरूपप्रदर्शकः ।
नगरीकृतवेदाद्रिर्ढिल्लीश्वरसमर्थितः ॥ २४॥ (दिल्लीश्वर)
नारायणप्रतिष्ठाता सम्पत्पुत्रविमोचकः ।
सम्पत्कुमारजनकः साधुलोकशिखामणिः ॥ २६॥
सुप्रतिष्ठितगोविन्दराजः पूर्णमनोरथः ।
गोदाग्रजो दिग्विजेता गोदाभीष्टप्रपूरकः ॥ २६॥
सर्वसंशयविच्छेत्ता विष्णुलोकप्रदायकः ।
अव्याहतमहद्वर्मा यतिराजो जगद्गुरुः ॥ २७॥
एवं रामानुजार्यस्य नाम्नामष्टोत्तरं शतम् ।
यः पठेच्छृणुयाद्वापि सर्वान्कामान्समश्नुते ॥ २८॥
यदान्ध्रपूर्णेन महात्मनेदं
स्तोत्रं कृतं सर्वजनावनाय ।
तज्जीवभूतं भुवि वैष्णवानां
बभूव रामानुजमात्तसानाम् ॥ २९॥
इति श्रीमद्रामानुजाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
Encoded and proofread by Mohan Chettoor