श्रीगणेशद्वादशस्तोत्रम्
ॐ
श्रीरामजयम्
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
श्रीगणपतये नमो नमः ।
अथ श्रीगणेशद्वादशस्तोत्रम् ।
गिरिराजसुतापुत्रं प्रणवाकारदैवतम् ।
स्वररागसुसङ्गीतं गणनाथं भजाम्यहम् ॥ १॥
सर्वारम्भनमस्कारं सर्वविघ्नप्रणाशनम् ।
सर्वविद्यादिमूलं तं गणनाथं भजाम्यहम् ॥ २॥
ऋषभारूढसत्सूनुं ऋषिसज्जनवल्लभम् ।
ऋषिश्रेष्ठगुरुस्तोत्रं गणनाथं भजाम्यहम् ॥ ३॥
गजाननं गरिष्ठं गं गंमन्त्राक्षरपूजितम् ।
गाङ्गेयपूर्वजं गङ्गं गणनाथं भजाम्यहम् ॥ ४॥ (१)
महागणपतिं पूज्यं मङ्गल्यवाक्प्रवाहिणम् ।
महद्ब्रह्माण्डकुक्षिं तं गणनाथं भजाम्यहम् ॥ ५॥
पञ्चाननप्रमोदं तं पाणिस्थज्ञानमोदकम् ।
पशुपाशविमोक्तारं गणनाथं भजाम्यहम् ॥ ६॥
धनज्ञानप्रदातारं धरकेदारसुस्थलम् ।
धन्यैकदन्तदैवत्यं गणनाथं भजाम्यहम् ॥ ७॥
निष्ठापूजितनित्यं तं नित्यपूजनसौभगम् ।
नित्योंकारस्वतुण्डं नं गणनाथं भजाम्यहम् ॥ ८॥
सप्तस्वरशुभानृत्यं सर्वसिद्धिविनायकम् ।
सर्वमङ्गलधातारं गणनाथं भजाम्यहम् ॥ ९॥
त्यागराजगुरुस्वामिसत्कीर्तनसुसेवितम् ।
शिष्यापुष्पास्तुतिस्तोत्ररागभावं सुमङ्गलम् ॥ १०॥
मङ्गलं गणनाथाय हेरंबाय सुमङ्गलम् ।
मङ्गलं विघ्नवाराय शुभोत्तुङ्गाय मङ्गलम् ॥ ११॥
गणेशस्फुरितस्तोत्रं विघ्नघ्नं ज्ञानदं शुभम् ।
गणनाथकृपापूर्णं पठितव्यं दिने दिने ॥ १२॥
ॐ
शुभमस्तु
इति सद्गुरुश्रीत्यागराजस्वामिशिष्यया भक्तया पुष्पया
श्रीगणेशस्फुरितस्तोत्रं गुरुस्वामिसन्निधौ समर्पितम् ।
ॐ
Footnote
(१) गं गं = entered into the गं mantra
Composed and translated by Pushpa Srivatsan (Copyright)
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan