श्रीशिवगणसहस्रनामस्तोत्रम्

श्रीशिवगणसहस्रनामस्तोत्रम्

श्री मल्लिकार्जुन पण्डिताराध्य विरचिता ॐ अस्य श्रीशिवगणसहस्रनाममहामन्त्रस्य भृङ्गिऋषिः । नाना छन्दांसि, श्री सदाशिवोऽधिदेवता । ॐ बीजं ह्रीं शक्तिः क्लीं कीलकम् । मम सकल मनोरथसिद्ध्यर्थे जपे विनियोगः । करन्यासः - ॐ नां अङ्गुष्ठाभ्यां नमः । ॐ मां तर्जनीभ्यां नमः । ॐ शीं मध्यमाभ्यां नमः । ॐ वां अनामिकाभ्यां नमः । ॐ यां कनिष्ठिकाभ्यां नमः । ॐ श्रीगुरु बसवलिङ्गाय नमः । करतलकरपृष्ठाभ्यां नमः ॥ अङ्गन्यासः - ॐ नां हृदयाय नमः । ॐ मां शिरसे स्वाहा । ॐ शीं शिखायै वषट् । ॐ वां कवचाय हुम् । ॐ यां नेत्रत्रयाय वौषट् । श्रीगुरु बसवलिङ्गाय अस्त्राय फट् । ॐ भूर्भुवस्सुवरोम् ॥ ॐ नं ॐ कनिष्ठिकाभ्यां नमः । ॐ मं ॐ अनामिकाभ्यां नमः । ॐ शिं ॐ मध्यमाभ्यां नमः । ॐ वां ॐ तर्जनीभ्यां नमः । ॐ यं ॐ अङ्गुष्ठाभ्यां नमः । ॐ ॐ ॐ श्री गुरु बसवलिङ्गाय नमः । करतलकरपृष्ठाभ्यां नमः ॥ अथ दशदिग्धन्धः - ध्यानम् - पूर्वे प्रमथनाथश्च आग्नेय्यां त्रिपुरान्तकः । दक्षिणे कालनाशश्च नैरृत्यां सर्पभूषणः ॥ पश्चिमे वामदेवश्च वायव्यां कामसंहरः । उत्तरे च विरूपाक्षः ईशान्यामीश्वरस्तथा ॥ आकाशे वयोमकेशश्च पाताळे त्रिजगत्पतिः । पञ्चवक्त्रं दशभुजं त्रिनेत्रं चन्द्रभूषणम् । उमालिङ्गितवामाङ्गं ध्याये सर्वेश्वरं शिवम् ॥ अथ हृदयादिन्यासः - ॐ नं ॐ हृदयाय नमः । ॐ मं ॐ शिरसे स्वाहा । ॐ शिं ॐ शिखायै वषट् । ॐ वां ॐ कवचाय हुम् । ॐ यं ॐ नेत्रत्रयाय वौषट् । ॐ ॐ ॐ श्री गुरु बसवलिङ्गाय अस्त्राय फट् । इति करहृदयादिन्यासो उक्तः ॥ अथ सहस्रनामस्तोत्रम् । अथ प्रमथगण सङ्कीर्तनम् । ॐ श्री नन्दीशः शिवकर आनन्दो नन्दिकेश्वरः । नन्दिनाथोऽक्षयो वीरभद्रो विजयभद्रकः ॥ १॥ भद्राक्षो वीरको भद्रो महाकालस्त्रियक्षरः । एकाक्षरो द्वय्क्षरषष्डक्षरोऽक्षरसंज्ञकः ॥ २॥ पञ्चाक्षरोग्राक्षसंज्ञावनलाक्षसमाह्वयः । धूम्राक्षो विकटाक्षश्च विश्वविश्वाक्षसंज्ञकौ ॥ ३॥ विमलाक्षोऽभ्रवर्णश्च विकटाङ्गोऽजयस्तथा । विजयो गगनाङ्गश्च सूर्यवर्णो महोज्वलः ॥ ४॥ ज्वरो महाभैरवश्च श्रेष्ठो निष्कम्प संज्ञकः । सोमवर्णो निष्कळश्च नित्यनीरदनिस्वनौ ॥ ५॥ निश्यङ्कः पुष्कलः कालरूपो नीरूप संज्ञकः । विरूपाक्षो विश्वरूपश्यान्तरूपश्च सुन्दरः ॥ ६॥ उग्ररूपः कोकिलश्च किङ्किणी कुन्दकस्तथा । कुमुदः काकपादश्च कटकापादसंज्ञकौ ॥ ७॥ पिण्डकश्चाहिकटकः पिङ्गलोऽनक्षरस्तथा । मधुपिङ्गलसंज्ञश्च मधुपः पिङ्गलाम्बकः ॥ ८॥ विष्टम्भो लोकविजयश्शिष्टः श्रीकण्ठसंज्ञकः । सद्योजातो निजजलस्सर्वभूतविजृम्भणः ॥ ९॥ सूर्यपातननीलौ च चण्डीशस्सोमपातनः । अङ्गारभक्षणो विन्ध्यपातनस्सर्वपातनः ॥ १०॥ सर्वदाहस्सुरगिरिपातनः सर्वकम्पनः । चण्डकीर्तिर्दण्डपाणिरीशानश्चण्डघर्घरौ ॥ ११॥ महाकायो हरिहरः कपालधरनन्दिनौ । महाकालो भृङ्गिरिटः पुण्डरीकश्च गोपतिः ॥ १२॥ दीर्घोह्रस्वः स्थूलसूक्षौ लम्बकर्णो विकर्षणः । सहनेशो गुहोरौद्रः कूष्माण्डो जटिलस्तथा ॥ १३॥ शिखण्डिरुण्डाभरणौ भिण्ड्यण्डाभरणौ(?) तथा । घण्टाकर्णो मुण्डधर श्शङ्खकर्णोद्विकर्णकः ॥ १४॥ गजकर्णो विकर्णस्त्रिकर्णो गोकर्णसंज्ञकः । सहस्रकर्णो वाराहकर्णस्सङ्कर्षणस्तथा ॥ १५॥ पर्वताभरणो दर्पस्सर्वात्मा सर्वसंहरः । विपुलोत्कर्षणावुष्ट्र मुखाहिमुखगोमुखाः ॥ १६॥ कठोरवचनस्सिंहमुखाश्व मुखषण्मुखाः । सर्वज्ञोद्विमुखो मेषमुखः पञ्चमुखस्तथा ॥ १७॥ सहस्रमुखशार्दूलमुखा मुखचतुर्मुखाः । त्रिमुखाष्टमुखौ दक्षभास्करो ब्रह्मभक्षणः ॥ १८॥ भद्रकर्णः करिमुखो विमुखो विषभक्षणः । पूर्णभद्रो नरमुखो महाभद्रो गुहेश्वरः ॥ १९॥ अन्तकान्तकभुग्वज्रदन्तास्खलित भास्कराः । पुष्पदन्तश्च शरभमुखः कपिमुखोऽशनिः ॥ २०॥ श्री पञ्चाक्षो नवमुखश्चन्द्रगङ्गाम्बुशेखरः । दिगम्बरो दशमुखो वराहमुखदर्दुरौ ॥ २१॥ रेणुको दारुकशतसहस्राक्षौत्रियम्बकः । असितग्रीव डमरुहस्तौ श्री कालमर्दनः ॥ २२॥ अर्धनारीश्वरः क्षेत्रपालः श्री दक्षमर्दनः । वियोक्ता साम्बरः श्रीमद्घटार्धः फणिभूषणः ॥ २३॥ सुहोता वृषभः श्रीमत्कराळो हाटकेश्वरः । श्रीमद्देहार्ध वक्त्रार्ध नासार्धमणिभूषणाः ॥ २४॥ विप्रमाली वषट्कारः कपाली कालशङ्करौ । वामदेवश्चोर्ध्वाह वराहौ मेघवहनः ॥ २५॥ श्री कङ्कालधरो वज्रकाय स्त्रिभुवनन्तकः । धूमकेतुर्व्याघ्रवक्त्रस्सुषेणौङ्कारबभ्रवः ॥ २६॥ शूलायुधः श्रीसुमनाधूमाङ्गस्सुगतिर्भवः । कोलाहलो वज्रपाणिस्सु पाणिर्दमनश्शिव ॥ २७॥ उत्तुङ्गः श्वेतसर्वाङ्गो महाबाहुर्महाव्रतः । श्री सुदर्शनपाणिर्झेङ्कारोऽप्रतिमनिर्मलौ ॥ २८॥ गुरुर्लघुर्महाकेशस्सु केशस्सोम कम्पनः । कामाङ्गदहनो भर्गःप्रकुण्डो भानुकम्पनः ॥ २९॥ कुण्डोदरो विषबलश्चण्डोदर शतोदरौ । पिनाकपाणिरसितकायस्सन्तानकोन्नतौ ॥ ३०॥ मृत्युञ्जयो नागदन्तस्सोमदन्तस्सुरार्चितः । श्री प्रपञ्चान्तको भीमो दैत्यान्तकमहोदरौ ॥ ३१॥ महेन्द्रश्चोभयशिराः श्रीधरसूर्यपेषणः । ब्रह्माण्ड पेषणस्सोम पेषणो घोरशूलिनौ ॥ ३२॥ अतिकायाभ्रकाय प्रचण्डसंवर्तकास्तथा । प्रकम्पनोंऽभोदनादो निकुम्भः कुलिशोदरः ॥ ३३॥ कुम्भोदरो हरिजटाकेसरान्दोल काङ्गदौ । अट्टहासः स्वयञ्ज्योतिरङ्गोलालासुरान्तकः ॥ ३४॥ वृषाङ्कः कङ्कटीभस्नेश्वरो हालाहलो हरः । नक्षत्रकृन्तनो मेघो रुद्र सूत्र निपीडनौ ॥ ३५॥ अतिवासो गुहावासः कपर्दी सूर्यखेटकः । इन्दुखेटस्ततुरुषः स्थाणुर्दिग्वाहनाशनः ॥ ३६॥ सागरध्वानसंहार कालदिक्पालकारयः । सागरापोशनो विद्युत् प्रभावो ह्रस्वकन्धरः ॥ ३७॥ दिग्वारणाहारि महारथलिङ्गाक्षदुष्कराः । महामायश्शषिधरो (?) द्वीपिनिर्दळनः पृथुः ॥ ३८॥ खट्वाङ्गपाणिर्गरुडपक्षच्छेदोऽसिताम्बरः । अष्टनागाङ्गुलीयस्सु केशानङ्गाद्रि कुण्डलाः ॥ ३९॥ भगदत्तः पशुपतिर्व्याघ्रः चर्मोत्तरीयकः । कालापहरणे विष्णु कङ्काळाङ्कोऽग्नि कुण्डलः ॥ ४०॥ काष्ठ कूटानन्दगिरिकन्दुकाटनदुर्धराः । एकपादःक्षितिवियत्ताळनन्दोग्र कुण्डलाः ॥ ४१॥ भीमकायोविधिशिरच्छेद्युद्ध तवरप्रदाः । विष्णु नेत्रादान कुण्डकर्णदीर्घ विलोचनाः ॥ ४२॥ चक्रापहो विधितिरस्करणो लम्बनासिकः । श्री बडबाग्नि तिलकवर्तुलाक्षोर्ध्वबाहवः ॥ ४३॥ श्रीकालरुद्र बडबानलाननसुबाहवः । आजाण्डबाहुप्रळयाग्नि नेत्रौ दीर्घदंष्ट्रकः ॥ ४४॥ सोमदत्तः कुलगिरिश्यातनस्सु चरित्रकः । कुठारदन्तो विलयाग्नि खेलनसुजङ्घकौ ॥ ४५॥ कूर्माहिनटनाभी लाभ्रतालललिताङ्गकाः । वराहदंष्ट्राङ्कमुखाक्ष पादबहु वर्णकाः ॥ ४६॥ श्री बादरायणभुजोत्पाटनश्चण्डघर्घरः । मातङ्गः क्षीरशरधिपानः श्रीलम्बजिह्वकः ॥ ४७॥ यज्ञ चर्मासन सिंहचर्मवासास्सु पोषणः । त्यक्षश्श्रीभगवोऽकायो वह्नि जिह्वानिकृन्तनः ॥ ४८॥ विश्वक्सेनहरः पाण्डुरङ्ग स्त्रिजटधूर्जटी । सोमो हरिरथारूढः श्री नाकि पशिरोहरः ॥ ४९॥ श्रीलम्बकर्णेभचर्मचेलौ श्रीबहुवक्त्रकः । चारुदन्तस्तत्वमतिः कालकण्ठोक्षवाहनौ ॥ ५०॥ स्वच्छन्दकर्णसेनोरुतालुजिह्वोग्र जिह्वका ः । लोहजङ्घः श्रीमहोक्षपताको बहुघोणकः ॥ ५१॥ बहुजङ्घोर्ध्वकेशः श्रीपातालतलवासिनः । बहुकर्णो महाबाहु बहुनेत्रोर्ध्वबाहवः ॥ ५२॥ श्रीसहस्रोदरबहुतालुजिह्वमहालयाः । महाभीलोविश्वमुखस्सुमुखः स्थूलविग्रहः ॥ ५३॥ प्रचण्डबलदीर्घोष्ठौ लम्बाक्षो धूमविग्रहः । मयूरकण्ठो बिम्बोष्ठ महासेनोरुबाहवः ॥ ५४॥ श्रीमेघमुखलम्बाक्षौ शूलाक्षो लम्बकन्धरः । रौद्राक्षः शाश्वतसुखानन्दशम्भोरुजिह्वकाः ॥ ५५॥ ऊरुबाहुमुखोजानुमुखः श्रीजतुकर्णकः । सहस्रबाहुस्सोमाक्ष महाकेश द्विबाहवः ॥ ५६॥ लम्बाननो बहुमुख श्रीप्रलम्बत्रि बाहवः । विकटो गगनः पादमुखकुक्षिमुखावपि ॥ ५७॥ सिंहग्रीवो दीर्घबाहुर्विद्युज्जिह्यस्त्रिजिह्वकः । सहस्र जिह्ववर्णाक्षश्रीसुकेशद्विजिह्यकाः ॥ ५८॥ श्रीधराराध्यरक्ताक्ष नीलाम्बरसमाह्वयाः । पीताम्बरः क्रतुहरोऽग्नि केशो द्विभुजस्तथा। ॥ ५९॥ लम्बोदरो लम्बहनुर्भीमाङ्ग प्रबलस्तथा । महाजिह्वो महादंष्ट्रः श्रीजिह्वोदरनामकः ॥ ६०॥ सूर्याक्षरोमाङ्ग कम्बुग्रीवादशभुजस्तथा । ऊरुपादो लम्बतनुः पादबाहुरितीरितः ॥ ६१॥ प्रमथानां प्रसिद्धनां च यस्त्रैलोक्य पावनः । इति । अथ रुद्रगण सङ्कीर्तनम् । भुवनेश्वर सर्वज्ञ विभूतिभवशाश्वताः ॥ ६२॥ मेघनादो भूतिकरः पिनाकी भूतपावनः । अजश्चक्रधरः श्वेतः कपाली वेदपारगः ॥ ६३॥ महाबलो दन्तदंष्ट्रस्त्रिकलो मेघवाहनः । ऊर्ध्व देहः क्रूरदंष्ट्रो धनञ्जय कपर्दिनौ ॥ ६४॥ नीलरुद्रः कालकाल रुद्र विश्वेश बभ्रवः । सर्वेशदहनौ स्थूलरुद्र भद्रानिलाशनाः ॥ ६५॥ दीर्घहस्त स्सुखकर स्सुनादहरपिङ्गळाः । बलभर्गमहेशत्रिदंष्ट्र स्सर्वमनोन्मनाः ॥ ६६॥ अघोरः पूरकज्योति रौद्रो विषधरो गुहः । क्रोधेशो वटरुद्रः श्रीज्वलनाक्षो विवाहनः ॥ ६७॥ धूम्रवर्णस्सर्वभूतदमनः श्रीचरस्तथा । विद्याधरेशो रुद्राग्निस्सु केशः श्रीगणप्रियः ॥ ६८॥ मृत्युञ्जयो महानाट्यरुद्रः श्रीबडबामुखः । लघुरूपधरो मृत्युञ्जय रुद्रोभयानकः ॥ ६९॥ ईशानरुद्रः प्रळयाग्नि रुद्रः काललोहितः । हररुर्द्रोऽर्धनारीश रुद्रस्त्रिदशवन्दितः ॥ ७०॥ शीघ्राविकरणौ विश्वाधिकरुद्रो विचक्षणः । विज्ञानरुद्रः शरभरुद्रः शूलधरो विभुः ॥ ७१॥ महोग्ररुद्रः शबररुद्रो दाता हुताशनः । आदिरुद्रो महाकाल रुद्रभीमभवोद्भवाः ॥ ७२॥ संहाररुद्रैक पादरुद्रार्चिर्वरपानकाः । महावृषभरुद्रश्च वायुवेगस्सुदुम्बरः ॥ ७३॥ किरातरुद्रो जयविजयरुद्रः परापरः । कर्ता जटाधर सदाशिवरुद्रौ क्षयान्तकः ॥ ७४॥ श्रीमहाशिवरुद्रो ग्रौ स्थाणुसंहारघातुकौ कराख्यरु । वीराख्यरुद्रः कर्माख्यरुद्रो मृत्युहरोमृड ः ॥ ७५॥ बकरुद्रः कालमेघो निवृत्तिः पाशहस्तकः । मातङ्ग क्षयरुद्रौ च विटरुद्रः प्रमर्दकः ॥ ७६॥ बुद्धो विधाता क्षेमीशो वियोक्ता प्रबलोऽव्ययः । हितप्रमतनौ ज्येष्ठो विरूपाक्षश्च गोपतिः ॥ ७७॥ श्रीनिधीशो महातेजा विद्वेषानन्तशम्भवः । गणाध्यक्षान्तरिक्षाङ्ग श्रीमत्पञ्चशिखेश्वराः ॥ ७८॥ सौम्यदेहोर्ध्वकेशाति भवेश गगनेश्वाराः । श्रीवज्रदन्तोज्वलनप्रकाशसहनेश्वरौ ॥ ७९॥ सर्वात्मा सितवर्णश्च ग्रसनः पिङ्गलेक्षणः । असाध्यः श्रेष्ठगौरीश परमात्मसमाह्वयाः ॥ ८०॥ परन्धाता प्रभुस्वामि श्रीमद्रत्नधरस्तथा । वामदेवो दुःखकरः फणीन्द्रसूक्ष्मसंज्ञिकः ॥ ८१॥ बलविकरणरुद्रोस्नेक वीरस्त्रिनेत्रो । हरहरिहर कालामारहन्तैकवीरः । कलविकरणरुद्रो याम्य भस्मान्तकः । श्रीक्षणवृषभ गणेन्द्राश्चेत्ययं रुद्रवर्गः ॥ ८२॥ अथ-योगाचार्य गण सङ्कीर्तनम् । श्रीमद्दमनगोकर्णमुखौ लोकाक्षिदारुकौ । जटामालीवेदशिखी सर्वेश्वरशिखण्डिनौ ॥ ८३॥ सेनो डिण्डिदधीवाहौ चारुहासस्सुधारकः । -युवालोको गुहावासो लकुलीश्वर शूलिनौ ॥ ८४॥ उग्रात्रिलाङ्गुलि महाकायकङ्कसहिष्णवः । जेगीषव्यः श्रीवृषभमहाकायश्च गौतमः ॥ ८५॥ सुहोत्र मुण्डिनौ चेति योगाचार्याः प्रकीर्तिताः । आष्टा विंशति सङ्ख्याता भुवनत्रय वन्दिताः ॥ ८६॥ धर्माचार्य इति ख्यातास्तेषां शिष्या महीतले । अभवन् द्वादशाधिक्य शतसङ्ख्या गुणोन्नताः ॥ ८७॥ अथ त्रिषष्टिगण सङ्कीर्तनम् । सद्भक्ति विख्यात तिरुनीलकण्ठश्च कोल्पुलिः । चोलश्च चेरम तिनिरुनीलनाक्कौच वेल्पघुः ॥ ८८॥ तिरुनाल्वोवश्च तिरुमूलदेवश्च नम्ब्यणः । चेलन्दिरानकञ्जारो मङ्गायक्का च चङ्गला ॥ ८९॥ चीलालः कारिकालम्बा वीरपेर्मडिभूपतिः । वागीशनयिनाराख्ये रित्ताण्डि जडेयारयः ॥ ९०॥ अङ्गसङ्गानायिनारिश्चण्डेशः पूसलस्तथा । श्रीपिळ्ळेनैनारिश्चैणादि नाथश्च चिरुत्तोणः ॥ ९१॥ कलिकम्बः पिट्टेनङ्गरोहिणिर्मोनेयाधिपः । सोमासिमारो मुरुघः कलिकामोऽरिवालयः। ॥ ९२॥ साङ्ख्यतोण्डो रुद्र पशुपतिश्चिरुपुलिस्तथा । कण्णप्पस्तापसो दीपकलियाररिरच्युतः ॥ ९३॥ श्रीवीरचोळस्तिर्कुर्पितोण्डश्चन्नयनामकः । नमिनन्दी कलिगननाथो यलयदन्गुलीः ॥ ९४॥ इरिवोत्तश्च परमनाचि रेकालिगुग्गुलौ । कलयोऽमरनीतिः श्रीसेदिराजाणुमूर्तयः ॥ ९५॥ कलियम्बः कडवलनम्बीडुगुडिमारयौ । श्रीमन्न मित्तण्डि करवूरचोळमहीभुजौ ॥ ९६॥ श्रीमच्चिरुत्तोण्ड निडुमारदेवसमाह्वयौ । मिरुमिण्डेरिभक्तौच श्रीकुलच्चरियस्तथा ॥ ९७॥ एते त्रिषष्टि सङ्ख्याकाः शिवसद्भक्तपुङ्गवाः । अथ शोडषगण सङ्कीर्तनम् । होन्नय्य किन्नरिब्रह्मा केताम्बा पाण्ड्यनायकः ॥ ९८॥ श्री गुड्डव्वा सेननाथो देवबाचय्य बिज्जयौ । नागय्यः श्री चिक्कुलिगिनागय्य पुष्प चाचयः ॥ ९९॥ श्रीबाचलाम्बा च पडिहारिसोमण्ण बीरयौ । उघे नागय हन्दय्यौ कालाम्बा चेति षोडश ॥ १००॥ अथ दशगण सङ्कीर्तनम् । श्रीवीरघण्टामैली च दोरिदेवय्य सङ्गयौ । बोप्पदेवी कामदेवी चोडाम्बा मायिदेवयः ॥ १०१॥ अन्नमाम्बा दशगणास्सिङ्गयो बिज्जयो दश । अथ त्रयोदशगण सङ्कीर्तनम् । श्रीमद्बसवराजार्यः प्रभातगणसिङ्गयः ॥ १०२॥ बोम्मिशेट्टिर्मेळ्गे निज सङ्गाम्बा पुष्पबाचयः । पडियाराख्य बसवणार्यस्सात्विकसङ्गयः ॥ १०३॥ श्रीकामलाख्यदेवी च बोप्पि देवी च देवयः । कन्नमाम्बा देवरसावोहिलश्चत्रयोदश ॥ १०४॥ अथ अमरगण सङ्कीर्तनम् । परवादिघनोच्चण्डमरुच्च्रीपतिपण्डितः । सिन्धुबल्लाळ बळ्ळेश मल्लयौ जट्टि मारयः ॥ १०५॥ श्रीमद्धूपदमाचय्याल्लय्य धूर्जटिकेशनः । श्रीमादिराजय्य मडिवाळमाचय्य कक्कयाः ॥ १०६॥ बाचराजोबडवर ब्रह्मय्यो बिब्ब बाचयः । किन्नरब्रह्मयः केशिराजः कन्नदबोम्मयः ॥ १०७॥ शूलद ब्रह्मयः काचिराजो मोळिगे मारयः । कलकेत ब्रह्महोन्न ब्रह्मयौ वीरनाचयः ॥ १०८॥ उत्तमाङ्गद केशी च श्रीमत्सुरगि चौडयः । श्वपचय्यस्तेलुङ्गेशो मसणय्यो हलायधः ॥ १०९॥ तेलुङ्गुजोम्मयो मारगौडो मुष्टियचौडयः । कालाग्नि रुद्रो होन्नयो गण्डगत्तरिनाचयः ॥ ११०॥ महाकालय्य उदररामय्यो मोल्ले बोम्मयः । पूतिदेवस्सवरदनाचय्यो दासकेशयः ॥ १११॥ मधुवय्यो हडपद रेचय्यो गोल्लमल्लयः । वेल्लगोण्डमहादेवोद्भटौ (?) कदिररेमयः ॥ ११२॥ अमात्यमल्लय्य निजलिङ्गचिक्कय्य भोगयाः । निर्लज्जशान्तो गजेशमसणय्योऽण्ण बोम्मयः ॥ ११३॥ नित्यनेमद मौलिश्च निजभावोऽज्जदासयः । गौळभट्टारकः पञ्चाग्नि सूर्यश्चाकीकिदेवयः ॥ ११४॥ दसरय्यो मोरटद बङ्कय्यो वीरकल्लयः । श्रीमद्देवरदासी च हाटकेश्वर मल्लयः ॥ ११५॥ गोविन्दभट्टारकश्च निम्बाणद गणेश्वरः । पिट्टव्वा चिङ्करमुगि देवस्सुङ्कद बङ्कयः ॥ ११६॥ दारय्योऽमुगिदेवः केम्बाविभोगय्य नाचयौ । वीरमाचय्य सन्यासि मञ्चय्योरगरायणाः ॥ ११७॥ वीरनागय्य मलयराजौ शङ्करदासयः । श्रीसूरसानिरमरगोण्डमल्लय्यदेशिकः ॥ ११८॥ बाहूरब्रह्मय्यो वीरब्रह्मय्यो वेङ्गिसङ्गयः । वीरकेदारबाचय्यो मुद्दय्यश्चिक्कसोमयः ॥ ११९॥ मूरुजावद देवय्योऽमृतनाथाप्पयस्तथा । शिवनागय्य बेल्देवी वेमनाराध्य, पुङ्गवाः ॥ १२०॥ विजयापुर सोमय्यो रेवणार्यश्च हम्पयः । श्री वीरचाकिराजय्यश्चिप्पनूरप्पयास्तथा ॥ १२१॥ सिद्ध बुद्धय्य सकलिदेवौ मादरदूडयः । शिवरात्र्यप्पयोगोग्गोर्त्यक्कय्यश्च वीरयः ॥ १२२॥ शूलायुधय्य इडुबनाथ तिप्पय्यमारयाः । इण्डेशान्तय्य साहित्य ब्रह्मचेटलवेमयाः ॥ १२३॥ बालब्रह्मय्य कोवूरब्रह्मयौ मुण्डबोम्मयः । बलदेवस्सगरद ब्रह्मय्यो बुड्ड बोम्मयः ॥ १२४॥ केलवूरब्रह्मशूलब्रह्मरक्कसबोम्मयाः । भानुदेवः कल्लिनाथ भीमो विरुपकल्लयः ॥ १२५॥ वीरसङ्गय्योरुलिङ्गपेद्दयौ सिद्धरामयः । मेधाविरुद्रः परमहंसोनिर्विषयसङ्गयः ॥ १२६॥ राजमल्लय्य कुमारपालघोर्जरभूपतिः । श्रीमत्सेद्दिगदेवौहिलय्य रेमयदेवयाः ॥ १२७॥ जूटरमल्लयोवीरशिवय्यो गङ्गमल्लयः । मिण्डसङ्गय्य राजार्धदेवौ शिवकुमारकः ॥ १२८॥ श्रीमन्मैदुनरामय्य स्सिङ्गबोप्पय्य सेट्टियौ । रामेशहण्यङ्गरायौ श्रीमत्ताळ्वर्तिबोल्लयः ॥ १२९॥ शिवदेवो मृगतिलकव्वा कोट्टारबाचयः । श्रीचक्रवर्तिचाळुक्य भीमो भास्करदेवयः ॥ १३०॥ कुर्कुण्टदेवेलेहाळब्रह्मयौ रामदेवयः । श्रीकाळिमरसः पादाळक्का चैळेशकेतयः। ॥ १३१॥ श्रीकेटिमल्लय्य गणदासिवीरय्य देवयाः । आदय्यो वीरबल्लाळः शिखरेश्वरमल्लयः ॥ १३२॥ पल्लेशसोमयश्चन्नबसवोऽल्लमदेवयः । श्रीमत्सद्योजातदेवार्यमराजात्मदेवयाः ॥ १३३॥ एकान्तमल्लयश्चङ्गुबोल्लय्यो मूगसङ्गयः । प्रसादिबङ्कय्य गुरुभक्तय्य शिवमुद्दयाः ॥ १३४॥ निराळदेवय्य जगदेवय्याणति चन्दयाः । भानुदेवश्चिक्कराज मल्लवशसोमयाः ॥ १३५॥ श्रीनिर्धनय्य द्रोणीशमल्लयाचार्यभीमयाः । प्रसादिदासय्य केरेयूरदासयशिव्वयाः ॥ १३६॥ गोयिदेवो महाबलदेवस्सुङ्कद सोमयः । दण्डिप्रसन्नबसवो धवळेश्वररामयः ॥ १३७॥ वरगुण्डचक्रवर्तीजत्तरटद सोमणेण्डेसोमण्णौ । बिसिगेलसददेवण्णोनिलविगे बैचय्यगोनेयमारय्यौ ॥ १३८॥ बैतलेय मायिदेवो वेरलदमारय्य रुद्रियण्णय्यौ । सेट्टण्ण सेट्टियय्यो बेट्टददेवरस वीरपोल्लय्यौ ॥ १३९॥ वनिपुरशङ्करदेवो बलगरमाचय्य वेड्डु सोमयौ । आय्दक्किय मारण्णो जोदुळमायण्णलेङ्कमञ्चण्णौ ॥ १४०॥ सरवूरबङ्किदेवो धर्मय्यो हसियमस्तकदमाचः । पडियारिवुत्तणार्यः श्रीहाविनहाळ कल्लिदेवार्यः ॥ १४१॥ पल्लवरायो गोल्लळरायो गङ्गापुरद बसवण्णः । इङ्गुळिय वैजव्वा शङ्करसेट्ट्यवगडद बसवय्यौ ॥ १४२॥ श्रीमत्कङ्गळबसवः शिवरात्रियसङ्कणः शिगुरिचेन्दः । प्रख्यातानिमिषय्यः श्वेतय्यो वीरगुड्डव्वा ॥ १४३॥ भवलश्चाकलदेवी चरेकव्वपि तथैव कमळव्वा । वीररेमव्वोडुतडिमहादेव्यावपि तथैवकमलव्वा ॥ १४४॥ बोन्तादेव्यादव्वारेब्यव्वा चापि बिज्ज महादेवी । सत्यक्का चामव्वा वैजव्याप्यरसवाचनिम्ब्यव्वा ॥ १४५॥ कोडगूसुश्चापि तथा होट्टलकेरे वीरचोळव्वा । एवं सहस्रनामानि गणानां बुधपुङ्गवैः ॥ १४६॥ आदृतानिभवन्त्यत्र पावनानि जगत्रये । गणसहस्रनामाख्ये स्तवेऽन्पठितेश्रुते ॥ १४७॥ लिखिते भक्तिविस्फूर्तिलभ्यते शुभमेधते । दुरितानि प्रणश्यन्ति सिद्ध्यन्ताशु मनोरथाः ॥ १४८॥ महाप्रसाद सम्पत्तिर्जायते गिरिजापतेः । घनदुष्ककर्मदुःस्वप्नदुःश्यकुन कुलान्यपि ॥ १४९॥ सर्वग्रहादिदोषाश्च ज्वलनाहिजलोद्भवम् । मृगवृश्चिकचोरामृत्यु रोगविषो(?)तम् ॥ १५०॥ विपक्षरक्षःपवनभूतोल्कापविभूजपम् । दारिद्र्यजं भयमपि प्रविनश्यतितत् क्षणात् ॥ १४१॥ ये दनार्थं पठन्त्येनं स्तवं तैर्लभ्यते धनम् । पठन्त्येनं स्तवं पुण्यं भक्त्याये पुत्रकाङ्क्षिणः ॥ १५२॥ तेषां सत्पुत्र जननी विभूतिरुपजायते । शत्रुक्षयार्थं येभक्त्या पठन्त्येनं स्तवं जनाः ॥ १५३॥ तेषां शत्रुक्षयकरी शक्ति सञ्जायते क्षणात् । भुक्त्यर्थं ये पठन्त्येतत् स्तवनं भोगसम्पदः ॥ १५४॥ लभ्यन्तेऽभीप्सिततमास्त्तयैरत्रैव महीतले । मुक्तीच्छया सम्पठिते सत्येतस्मिंस्तवोत्तमे ॥ १५५॥ अचिरादेव सिद्ध्यन्ति त्रिविधामुक्तयः क्रमात् । भक्तीच्छयाऽस्मिन्पठिते भक्तिस्सिद्यन्त्यनुत्तमा । आयाति दिक्षु भरिता कीर्तिः श्रीरपि मङ्गला ॥ १५६॥ श्रीमल्लिकार्जुनपण्डिताराध्य विरचिता शिवगणसहस्रनामस्तोत्रं सम्पूर्णम् । Encoded and proofread by Saritha Sangameswaran
% Text title            : shivagaNasahasranAmastotram
% File name             : gaNasahasranAmastotram.itx
% itxtitle              : shivagaNasahasranAmastotram (mallikArjunapaNDitArAdhyavirachitA(
% engtitle              : shivagaNasahasranAmastotram
% Category              : deities_misc, stotra, sahasranAma, shiva
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : mallikArjunapaNDitArAdhya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Saritha Sangameswaran
% Description/comments  : Original in Kannada
% Indexextra            : (Scan)
% Latest update         : August 19, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org