देवताभिः कृतं शिवस्तोत्रम्
देवता ऊचुः ।
जगाम देवतानीकं गणानां हर्षमुद्वहन् ।
स्तुवन्ति भैरवं देवमन्तरिक्षचरा जनाः ॥ १॥
जयानन्त महादेव कालमूर्ते सनातन ।
त्वमग्निः सर्वभूतानामन्तश्चरसि नित्यशः ॥ २॥
त्वं यत्रज्ञस्त्वं वषट्कारस्त्वं धाता हरिरव्ययः ।
त्वं ब्रह्मा त्वं महादेवस्त्वं धाम परमं पदम् ॥ ३॥
ओङ्कारमूर्तिर्योगात्मा त्रयीनेत्रस्त्रिलोचनः ।
महाविभूतिर्देवेशो जयाशेषजगत्पते ॥ ४॥
ततः कालाग्निरुद्रोऽसौ गृहीत्वाऽन्धकमीश्वरः ।
त्रिशूलाग्रेषु विन्यस्य प्रननर्त सतां गतिः ॥ ५॥
दृष्ट्वाऽन्धकं देवगणाः शूलप्रोतं पितामहः ।
प्रणेमुरीश्वरं देवं भैरवं भवमोचकम् ॥ ६॥
इति कूर्मपुराणे पूर्वभागे षोडशाध्यायान्तर्गतं
देवताभिः कृतं शिवस्तोत्रं समाप्तम् ।
कूर्मपुराणे पूर्वभागे १६/१८६-१९१
Proofread by PSA Easwaran