गजेन्द्रकृतम् विष्णुस्तोत्रम्

गजेन्द्रकृतम् विष्णुस्तोत्रम्

गजेन्द्र उवाच - ॐ नमो मूलप्रकृतये अजिताय महात्मने । अनाश्रिताय देवाय निःस्पृहाय नमो नमः ॥ १॥ नम आद्याय बीजाय शिवाय च प्रशान्ताय । आर्षेयाय प्रवर्तिने निश्चलाय यशस्विने ॥ २॥ अनन्तराय चैकाय सनातनाय पूर्वाय । अव्यक्ताय नमो नमः पुराणाय नमो नमः ॥ ३॥ नमो गुह्याय गूढाय गुणायागुणवर्तिने । अतर्क्यायाप्रमेयाय अनन्ताय नमो नमः ॥ ४॥ नमो देवातिदेवाय अप्रभाय नमो नमः । नमो जगत्प्रस्थिताय गोविन्दाय नमो नमः ॥ ५॥ नमोऽस्तु पद्मनाभाय साङ्ख्ययोगोद्भवाय च । विश्वेश्वराय देवाय शिवाय हरये नमः ॥ ६॥ नमोऽस्तु तस्मै देवाय निर्गुणाय गुणात्मने । नारायणाय विश्वाय देवानां परमात्मने ॥ ७॥ नमो नमः कारणवामनाय नारायणायामितविक्रमाय । श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ ८॥ आद्याय वेदनिलयाय महोदराय सिंहाय दैत्यनिधनाय चतुर्भुजाय । ब्रह्मेन्द्ररुद्रमुनिचारणसंस्तुताय देवोत्तमाय वरदाय नमोऽच्युताय ॥ ९॥ नागेन्द्रभोगशयनासनसुप्रियाय गोक्षीरहेमशुकनीलघनोपमाय । पीताम्बराय मधुकैटभनाशनाय विश्वाय चारुमुकुटाय नमोऽक्षराय ॥ १०॥ भक्तिप्रियाय वरदीप्तसुदर्शनाय नाभिप्रजातकमलस्थचतुर्मुखाय । क्षीरोदकार्णवनिकेतयशोधनाय नानाविचित्रमुकुटाङ्गदभूषणाय ॥ ११॥ सर्वेश्वराय वरदाय नमो वराय विश्वात्मने परमकारणकारणाय । फुल्लारविन्दविमलायतलोचनाय देवेन्द्रदानवपरीक्षितपौरुषाय ॥ १२॥ योगेश्वराय विजयाय नमो वराय । लोकायनाय त्रिदशायनाय ब्रह्मायनायात्मभवायनाय । धर्मायनायैकजलायनाय महावराहाय सदा नतोऽस्मि ॥ १३॥ अचिन्त्यमव्यक्तमनन्तरूपं नारायणं कारणमादिदेवम् । युगान्तशेषं पुरुषं पुराणं तं वासुदेवं शरणं प्रपद्ये ॥ १४॥ योगेश्वरं चारुविचित्रमौलिमाज्ञेयमौख्यं प्रकृतेः परस्थम् । क्षेत्रज्ञमात्मप्रभवं वरेण्यं तं वासुदेवं शरणं प्रपद्ये ॥ १५॥ अदृश्यमच्छेद्यमनादिमध्यं महर्षयो ब्रह्मविदः सुरेशम् । वदन्ति यं वै पुरुषं सनातनं तं वासुदेवं शरणं प्रपद्ये ॥ १६॥ यदक्षरं ब्रह्म वदन्ति सर्वगं निशाम्य यं मृत्युमुखात्प्रमुच्यते । तमीश्वरं तृप्तमनोपमैर्गुणैः परायणं विष्णुमुपैमि शाश्वतम् ॥ १७॥ कार्यं क्रियाकारणमप्रमेयं हिरण्यनाभं वरपद्मनाभम् । महाबलं वेदनिधिं सुरोत्तमं व्रजामि विष्णुं शरणं जनार्दनम् ॥ १८॥ विचित्रकेयूरमहार्हनिष्कं रत्नोत्तमालङ्कृतसर्वगात्रम् । पीताम्बरं काञ्चनभक्तिचित्रं मालाधरं केशवमभ्युपैमि ॥ १९॥ भवोद्भवं वेदविदां वरिष्ठं योगात्मानं साङ्ख्यविदां वरिष्ठम् । आदित्यचन्द्राश्विवसुप्रभावं प्रभुं प्रपद्येऽच्युतमात्मभूतम् ॥ २०॥ श्रीवत्साङ्कं महादेवं वेदगुह्यमनुत्तमम् । प्रपद्ये सूक्ष्ममचलं भक्तानामभयप्रदम् ॥ २१॥ प्रभवं सर्वलोकानां निर्गुणं परमेश्वरम् । प्रपद्ये मुक्तसङ्गानां यतीनां परमां गतिम् ॥ २२॥ भगवन्तं सुराध्यक्षमक्षरं पुष्करेक्षणम् । शरण्यं शरणं भक्त्या प्रपद्ये ब्राह्मणप्रियम् ॥ २३॥ त्रिविक्रमं त्रिलोकेशमाद्यमेकमनामयम् । भूतात्मानं महात्मानं प्रपद्ये मधुसूदनम् ॥ २४॥ आदिदेवमजं शम्भुं व्यक्ताव्यक्तं जनार्दनं क्षेत्रज्ञं पुरुषं यज्ञं त्रिगुणातीतमव्ययम् । नारायणमणीयांसं प्रपद्ये परमेश्वरम् ॥ २५॥ एकाय लोकत्रयाय परतः परमात्मने । नमः सहस्रशिरसे अनन्ताय महात्मने ॥ २६॥ वरेण्यमनघं देवमृषयो वेदपारगाः । कीर्तयन्ति च यं सर्वे तं प्रपद्ये सनातनम् ॥ २७॥ नमस्ते पुण्डरीकाक्ष भक्तानामभयप्रद । सुब्रह्मण्य नमस्तेऽस्तु त्राहि मां शरणागतम् ॥ २८॥ इति विष्णुधर्मेषु सप्तषष्टितमोऽध्यायान्तर्गतं गजेन्द्रकृतं विष्णुस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Gajendrakritam Vishnu Stotram
% File name             : viShNustotraMgajendrakRRitam.itx
% itxtitle              : viShNustotraM gajendrakRitam (viShNudharmopapurANAntargatam)
% engtitle              : viShNustotraMgajendrakRitam
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : from Vishnudharma Upapurana. Adhyaya 67
% Indexextra            : (Text)
% Latest update         : December 25, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org