श्रीविष्णुस्तोत्रम्
(शार्दूलविक्रीडितवृत्तम्)
यन्नित्यं श्रुतिभिर्मुहुर्मुहुरहो संस्तूयमानं स्थितं
यद्ब्रह्मेन्द्रसुरादिकैरहरहर्ध्यातं च गीतं पुनः ।
यत्सर्वेषु विराजितं मुनिनुतं दिव्यं परं पावनं
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ १॥
यत्सौख्याम्बुधिलेशतः सुरुचिरा ब्रह्माण्डभूकोटयो
यत्प्राप्य स्थिरमोक्षदं पुनरसौ नावर्तते भूतले ।
एषोऽस्य श्रुतयो वदन्ति परमानन्दश्च यो ज्ञानिनः
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ २॥
सूर्याचन्द्रमसौ न यत्र हुतभुङ्नीमास्तथा विद्युतो
नैते यत्र वसन्ति तारकगणा यद्भासितुं विश्रुतम् ।
यद्भासैव विभाति सर्वमिह यद्धान्तं स्वतः शाश्वतं
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ ३॥
नाविद्या न च जीवविश्वकलना मायेशभावादिकं
यस्मिन्नैव विभाति यस्य न तथा भिन्नं विभानं क्वचित् ।
चिन्मात्रैकरसं स्थितं परमहो यद्ब्रह्मरूपं शिवं
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ ४॥
कार्यं यस्य न कारणं किमपि यद्बद्धं च मुक्तं च नो
यः स्त्री नैव पुमांस्तथा न च गुणा यस्मिन्विकारास्तथा ।
यन्नाम्नापि न भाति नैव च तथा रूपेण वक्ति श्रुतिः
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ ५॥
सन्मात्रे सुखविग्रहे सुविमलेऽद्वैतं कुतः सम्भवेत्
कस्य स्यात्प्रभवस्तथा भवति का नारी च को वा पुमान् ।
देहप्राणहृदिन्द्रियैर्भवति किं युक्तं च बद्धोऽस्ति कः
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ ६॥
मायामात्रमिदं हि विश्वमखिलं जीवेशबन्धादिकं
या माया किल सापि मा यदि भवेच्छिष्येत किं वा पुनः ।
यन्माया जननी न तत्खलु वसेत्सच्चिद्घनेऽस्मिन्यतः
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ ७॥
माया या खलु सा जडा कथमियं सम्भाव्यते चिद्घने
तत्सान्निध्यवशात्करोत्यपि च चेज्ज्ञानं तदेव ध्रुवम् ।
यत्पूर्णं सतताद्वयं विभुमहद्यस्मिन्न किञ्चिन्मिषत्
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ ८॥
चिद्ब्रह्मेति च शासनात्कथमियं माया च भिन्नास्पदा
तद्भानं च तथास्य चित्स्थितिरहो लक्ष्येत किं मायया ।
ब्रह्मच्छायमनन्तमद्वयपरं सत्यं च यच्छ्रूयते
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ ९॥
गूहेद्ब्रह्म न भासकं कथमपि स्पर्धेत किं तेन वा
तस्माद्भिन्नमपीह किं पुनरियं माया सृजेद्वै जडा ।
माया नैव विजृम्भते चिति शिवे यस्मिन्नखण्डेऽद्वये
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ १०॥
यज्ज्ञात्वामृतमश्नुते हि सकलान् पाशांश्छिनत्ति स्वयं
सर्वज्ञत्वमवाप्यते किल कृती स्याद्ब्रह्मसौख्यं स्वयम् ।
शिष्येदस्य च लम्बने किमपि नो भिन्नं ततो लम्बनं
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ ११॥
मृत्योर्मृत्युमुपैति भीतिमपि यः पश्येद्यतो भिन्नतां
नाना नेह न तद्द्वितीयमिति वा ब्रूते श्रुतिर्नित्यशः ।
सत्यं ज्ञानमनन्तमद्वयमहो रूपं हि यत्प्राणिनां
द्वष्णोः परमं पदमिह स्वाराज्यसौख्याम्बुधिम् ॥ १२॥
माया यद्यपि सर्वकार्यमिह यत्तस्याभवेदस्तुतौ
सर्वव्यापिविभासकं भवति किं लुप्तं च तेनाधुना ।
यत्सर्वस्य विभासितं श्रुतिमतं सत्यं परं चिद्रसं
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ १३॥
कोऽन्याद्वा वचनात् स्फुटं परतरं यत्प्राणिनां जीवनं
मूढः कोऽत्र विहाय तत्परमहो मन्येत वैकारिकम् ।
हित्वा सर्वमपीह संसरणतः प्राप्तं सुखं मायिकं
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ १४॥
चिन्मात्रैकरसाद्वयं श्रुतिनुतं यत्स्वात्मसौख्यं शिवं
तज्ज्ञेयं जनयेत्कथं जडमहो दोषैरनेकैर्वृतम् ।
चिद्रूपं खलु यत्सदैव रहितं ज्ञेयेन वा मायया
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ १५॥
चिन्मात्रे सुखमात्रके जडमिदं दृश्यं भ्रमाद्भाव्यते
स्यान्मायापि विमोहिता खलु जडा हेतुर्भवेदस्य या ।
लभ्यं यत्सुखरूपकं न च जडं मायाभ्रमे वा भवेत्
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ १६॥
ब्रह्मैवाहमिदं च सर्वमपि वा ब्रह्मैव वक्ति श्रुतिः
भिन्नं किं समजायतैकमिह यद्ब्रह्मैव बाह्यान्तरम् ।
यन्माया जगदीशजीवविषयभ्रान्त्या न लुप्येत्क्वचित्
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ १७॥
यद्ब्रह्माहमिति स्फुटं तनुजगज्जीवेशभावा इमे
पुंस्त्रीपुत्रहृदिन्द्रियाणि च पुनर्भोक्ता च भोगादयः ।
देवाः प्रेतगणाश्च तिर्यगथवा यस्मिन् खपुष्पायते
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ १८॥
यत्पूर्णं स्वत एव निर्मलमहो स्वानन्दमात्रं परं
तस्मिन्सर्वविभासके स्फुटतरे भिन्नस्य यत्सर्जने ।
यस्येच्छा न च हैतुकं जगदहो जायेत यस्मिन् क्वचित्
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ १९॥
माया नापि तदुत्थितं च जगतः सङ्कल्पनं नैव च
नैव स्यात्प्रकृतिः पुमानपि च तद्योगो जगत्सर्जने ।
विद्यापुरुषश्च योषिदुत तद्योगश्च पुत्रोद्भवः
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ २०॥
ज्ञेयं नैव यदस्ति चिघनशिवे द्वैतं कुतो भाव्यते
सर्वज्ञः परमेश्वरोऽपि न तथा किञ्चिज्ज्ञजीवस्ततः ।
यस्मिन्सर्वमपीति किञ्चिदथवा ज्ञेयं न वेत्तुं क्वचित्
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ २१॥
माया चेदिह वाऽऽवृणोति किमिदं शक्यं जडायां भवेत्
तस्माच्चेतयते च सा यदि तया किं छाद्यते ब्रह्म तत् ।
यन्नैवाऽव्रियते न कार्यमपि वा जायेत यस्मिन् क्वचित्
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ २२॥
भिन्नेयं न च वास्ति सा यदि भवेद्भिन्ना न माया क्वचित्
भिन्नेयं च यदा भवेत्तदपि नो माया भवेद्वास्तवी ।
सद्ब्रह्मेति च शासनाद्भवति या भिन्ना सती यत्र तु
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ २३॥
भावो नाप्यसतः सतोऽपि न तथा भावः क्वचिद्वर्ण्यते
माया नापि ततो न कार्यमिति वा मन्तुं क्वचिच्छिष्यते ।
पश्येन्नैव कदापि केन यदि वा श्रुत्यक्षरं यत्स्फुटं
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ २४॥
जाड्यं दुःखमथामृतत्वमिति यत्सम्बाध्यते सज्जने
सच्चित्सौख्यमिति स्फुटं परमहो ब्रह्माद्वयं शाश्वतम् ।
आनन्दैकरसाद्वयेऽपरमिदं दुःखादिकं नो यतः
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ २५॥
सूक्ष्मस्थूलतयापि भूम्नि जगतोऽस्तित्वं न सत्यं भवेत्
तच्छक्तेरपि वा भवेद्यदि तदा शक्तिर्न भिन्ना क्वचित् ।
भिन्नं कार्यमितो यतो न हि भवेद्यच्चाद्वयं शाश्वतं
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ २६॥
भिन्ना सापि च कापि शक्तिरथवा भिन्ना न वक्तुं भवेत्
तस्माद्भिन्नविभासकर्मकुशलाऽनिर्वाच्यभावा यदि ।
मिथ्यैवेयमिति स्फुटं यदि न सा यस्मिन्नसङ्गेऽद्वये
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ २७॥
माया काऽपि च वा भवेद्भवतु तत्कार्यं च तस्या अपि
सत्यं ज्ञानमनन्तमद्वयमहो स्वस्माद्विविच्यादिशेत् ।
तन्मत्वा विमुखेन पश्यति कदा मायां च यस्मिन् परे
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ २८॥
दुःखान्तं किल जीवितं क्षणसुखं दोषैरनेकैर्वृतं
योगो यन्नरकस्य तद्रतिरसः कस्मै सुखायोद्भवेत् ।
सर्वं दुःखमिदं विमोहकमतो यन्मायिकं विस्फुटं
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ २९॥
तुच्छा दुःखमयी ह्यसत्यपि च सा दुर्लङ्घनीया यदि
मामेवेह भवेत्प्रपन्न इति चेन्मायां तरेद्योवदत् ।
यं लब्ध्वा परमं स्वकं पुनरहो मायां न पश्येत्क्वचित्
तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ ३०॥
संसारार्तिहरं क्षिप्रं ज्ञानविज्ञानदायकम् ।
विष्णुस्तोत्रमिदं नित्यं पठन् स्वाराज्यमश्नुते ॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचितं श्रीविष्णुस्तोत्रं सम्पूर्णम् ।
वैकुण्ठचतुर्दशी -
रचनास्थानं - काफि उद्यानं, चिक्कमगळूरु संवत्सरः - १९४३
Proofread by Manish Gavkar