श्रीराघवेन्द्राष्टोत्तरशतनामस्तोत्रम्

श्रीराघवेन्द्राष्टोत्तरशतनामस्तोत्रम्

सङ्कल्पद क्रमः - ॐ अस्य श्रीराघवेन्द्रगुरुमन्त्रराजात्मक अष्टोत्तरशतनामामृतस्तोत्रस्य श्रीकृष्णावधूतो ऋषिः, अनुष्टुप्छन्दः, श्रीराघवेन्द्रगुर्वन्तर्गतमनुनामक- भारतीरमणमुख्यप्राणान्तर्गत सीतापतिश्रीरामचन्द्रो देवता । श्रीं बीजं, नमः शक्तिः, राघवेन्द्राय इति कीलकम् । अथ करन्यासः १) ॐ श्रीं अङ्गुष्ठाभ्यां नमः, २) ॐ राघवेन्द्राय तर्जनीभ्यान्नमः ३) ॐ नमः मध्यमाभ्यां नमः, ४) ॐ श्रीं अनामिकाभ्यान्नमः, ५) ॐ राघवेन्द्राय कनिष्ठिकाभ्यां नमः, ६) ॐ नमः करतलकरपृष्ठाभ्यां नमः । अथ अङ्गन्यासः १) ॐ श्रीं हृदयायनमः, २) ॐ राघवेन्द्राय शिरसे स्वाहा, ३) ॐ नमः शिखाय्क् वषट्, ४) ॐ श्रीं कवचाय हुं, ५) ॐ राघवेन्द्राय नेत्राभ्यां वौषट्, ६) ॐ नमः अस्त्राय फट् । अथ ध्यानम् । भव्याकारो भावितेष्टार्थदाता वामे जानौ वामहस्तं दधानः! ज्ञानाभीतीज्ञानवान् दक्षहस्तीरन्ता चित्ते राघवेन्द्रो मम स्यात् ॥ श्रीराघवेन्द्रगुर्वन्तर्गत मनुनामक भारतीरमण मुख्यप्राणान्तर्गत सीतापति श्रीरामचन्द्रप्रेरणया श्रीरामचन्द्रप्रीत्यर्थं गुरुमन्त्रराजात्मक अष्टोत्तरशतनामस्तोत्रपारायणं करिष्ये । ओमित्येकाक्षरं ब्रह्म यद्ग्रन्थे सम्प्रकाशितम् । तस्मै श्रीराघवेन्द्रार्य गुरवेऽस्तु नमो मम ॥ १॥ नमस्ते श्रीरामचन्द्राङ्घ्रिपूजासम्पादिते शतम् । घनाभाङ्गाय वेदार्थप्रकाशोद्योगशालिने ॥ २॥ द्रागभीष्टप्रदात्रे च यतिवर्याय ते नमः । नाना दुःखविनाशाय नमो मानधनप्रिय ॥ ३॥ श्रीप्रदात्रे नमस्तुभ्यं राजवर्यादिसेवित । घनसंसारसौख्याय वेपितप्रतिवादिने ॥ ४॥ द्राक्षामधुरभाषाय नमस्तुभ्यं यशःप्रद । नमतां सौख्यदात्रे च मानदाय नमो नमः ॥ ५॥ श्रीपतिप्रेष्ठभक्ताय नमस्ते राजपूजित । घनरोगविनाशाय वेङ्कटेशार्चिने नमः ॥ ६॥ द्रावितानेकभूताय यशोदातनयार्चक । नादरूपपरब्रह्मोपासिने मानिने नमः ॥ ७॥ श्रीनाथचरणाम्भोजबम्भारायितमानस । राष्ट्रागतजनस्तोम समीहितफलप्रद ॥ ८॥ घनरोगतृणध्वंसदवानलपदामृत । वेदशास्त्रसुधाम्भोधि मन्थनज्ञानमन्दर ॥ ९॥ द्राघिमाभावितीभूतभक्तसेवेष्टदायिने । नमस्ते याचकव्रातचातकामृततेजसे ॥ १०॥ नरनारीकदम्बोग्रविपत्तिविनिवारिणे । महादयारसासारसागराय नमो नमः ॥ ११॥ श्रीमद्भिः सेव्यमानाय राष्ट्रक्षेमकराय च । घनाघनाङ्गलोलाय वेदव्याख्याविनेदिने ॥ १२॥ द्राविताऽनेकपापाय यानाद्यैश्वर्यशालिने । नागारिवाहभक्ताय मानदात्रे नमो नमः ॥ १३॥ श्रीरामार्च्यापूजकाय रामानासक्तचेतसे । घनापत्परिहाराय वेपितारातये नमः ॥ १४॥ द्राक्षामधुकटाक्षाय यदुनाथपदार्चिने । नमज्जनाघनाशाय मान्यमान्याय ते नमः ॥ १५॥ श्रीव्यासराजरूपेण कृष्णार्चार्चक ते नमः । राशीकृताऽघतूलाग्निनिभदर्शन ते नमः ॥ १६॥ घातुकानां घातुकाय वेदविद्याविशारद । द्राघीयः करुणापाङ्गैर्नमस्ते भक्ततोषिणे ॥ १७॥ यथाशक्त्यप्पणार्योक्तस्तोत्रपाठप्रमोदिने । नरनारीनृपेड्याय महादारिद्र्यनाशिने ॥ १८॥ श्रीसुधीन्द्रकरम्भोजसञ्जातवरसूनवे । रावितानेकदुर्वादिद्वीपिने घनचेतसे ॥ १९॥ वेश्मत्रय निवासाय द्राक् प्रसन्नाय ते नमः । यमिने नरसिंहाङ्घ्रिनिरताय ममताजुषे ॥ २० ॥ श्रीप्रह्लादावताराय राजद्वाणीविलासिने । घटनाननुरूपस्याप्यर्थस्य घटकाय ते ॥ २१॥ वेदवेदाङ्गवित्ताय द्रावयन्मायिवादिने । यानारोहणसन्तप्तमुद्रास्थापनकारिणे ॥ २२॥ नमो नम्यपदाब्जाय मायाविमदहारिणे । श्रीतुङ्गातीरवासाय तुभ्यं राजनताय च ॥ २३॥ घनसाररजोरक्तभद्रश्रीरससेविने । वेतालभयनाशाय द्रागनुग्रहकारिणे ॥ २४॥ यक्ष्मकुष्ठादिहरणपादतीर्थाय ते नमः । नामसङ्कीर्तनादेव पुरःसन्निहिताय च ॥ २५॥ महाजनशिरःस्थानसमालालितपादुक । श्रीसर्वतन्त्रस्वातन्त्र्यशालिने राजलक्ष्मणे ॥ २६॥ घनविघ्नविनाशाय बद्धकङ्कण ते नमः । वेगेन भक्तकार्याणां साधकाय नमोऽस्तु ते ॥ २७॥ द्रावयद्वादिजिह्वाय यशोव्याप्तदिशे नमः । नानाजातिजनस्तोमस्तूयमानपदाम्बुज ॥ २८॥ नमो मार महावीर मार्गणामृग्यचेतसे । श्रीमध्वशास्त्रसट्टीकाव्याख्याकौशल्यशालिने ॥ २९॥ राजच्छ्रीकाय धर्माभितप्ततापापहारिणे । वेलां वेलामुपागम्य भक्तानां कार्यसाधक ॥ ३०॥ द्राक्षापाकेन सकलग्रन्थव्याकृतिकारिणे । यथेष्टधनधान्यादिदात्रे नयविशारद ॥ ३१॥ मन्त्रालयमहाक्षेत्रवृन्दावननिवासिने । श्रीसत्यसन्धरूपेण श्रीसीताप्रतिमार्चक ॥ ३२॥ राजत्तुङ्गातटभ्राजन्महिषीक्षेत्रवासिने । धर्मद्युतिनवज्योतिद्योतिताम्बरधारिणे ॥ ३३॥ वेतण्डमत्तमायीन्द्र मृगेन्द्रद्रापितापहन् । यक्षरक्षोभयध्वंसिन् नमो नारायणप्रिय ॥ ३४॥ मायामोहितचित्तानां भक्तानां ज्ञानदायिने । नमः श्रीहनुमद्भीम मध्वात्मकहरिप्रिय ॥ ३५॥ राजपूजितपाटीरपादुकाय घनाकृते । वेशन्तीकृतसद्भक्तसंसाराम्बुधये नमः ॥ ३६॥ द्राविताखिलभक्तौघनानादुःखाय ते नमः । यमदूतभयत्रात्रे नानाभयविनाशिने ॥ ३७॥ मातृतः पितृतोप्युच्चैः भक्तकामदुघे नमः । इति श्रीराघवेन्द्रार्यगुरुराजमहात्मनः ॥ ३८॥ नाम्नामषाटोत्तरशतं सचतुष्टयमुत्तमम् । अष्टाक्षरमहामन्त्रवर्णानुक्रमवर्णितम् ॥ ३९॥ गुरुराजात्मभूकृष्णावधूत कविनोदितम् । गुरुराजेन कृपया सप्रसादं पुरस्कृतम् ॥ ४० ॥ पठतां जपतां सर्वकामदं गुर्वनुग्रहात् । नश्यन्ति ज्वरमोहाद्याः चतुर्दशदिनावधि ॥ ४१॥ इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे सप्तमपटले अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् । Proofread by Gopalakrishnan, PSA Easwaran
% Text title            : Shri Raghavendra Ashtottarashata Nama Stotram
% File name             : rAghavendrAShTottarashatanAmastotram.itx
% itxtitle              : rAghavendrAShTottarashatanAmastotram (kRiShNa avadhUtapaNDitavirachitam)
% engtitle              : rAghavendrAShTottarashatanAmastotram
% Category              : deities_misc, gurudev, aShTottarashatanAma, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Krishna Avadhutapandita Vedavyasacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan, PSA Easwaran
% Description/comments  : from Raghavendra Tantram
% Indexextra            : (Kannada 1, 2, Author, Video)
% Latest update         : December 18, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org