धेनुस्तोत्रम्
(वसन्ततिलका वृत्तम्)
मातर्नमामि चरणांस्तव पावनांश्च
संसारनावैतिय हृदभावभक्त्या ।
पारं नायशु तवपुत्रमिमं सुरीत्या
संसारसिन्धुतरणं हि तवाश्रेयण ॥ १॥
देवाश्च देव्य इतिय निवसन्ति धेनौ
गोपूजनेन निखिलाश्च भवन्ति तृप्ताः ।
आयुघृतं पय इदं भवतीह वीर्य
मातः स्तुतासी बहुधा श्रुतिभिस्त्वमित्थम् ॥ २॥
ओजो धृतिः सुमतिरेवमतीवशान्तिर्ज्ञानं च
भक्तिरपि नित्यमदैन्यमेवम् ।
मातस्त्वदीय पयसो घृततस्ततस्तद्
वाञ्छन्न्ति नित्यममराः कीमुत्यान्यमर्त्याः॥ ३॥
अग्निर्यथेङ्घनमिदं स्तुतपञ्चगव्यं
पापं तथा दहति सत्यमितीह मत्वा ।
मातः पिबन्ति खलु वेदरताश्च विप्राः
पुष्णासि पासि सकलान्परिशुद्धदेहा ॥ ४॥
यं वर्णयन्ति निखिलाः श्रुतयः सदैव
ब्रह्मेति कृष्णभगवान् स हि देवदेवः ।
सेवां तवेह कृतवान् किमु माद्रुशाश्च
किं वर्णयामि तव भाग्यमितो महात्म्यम् ॥ ५॥
(शालिनिवृत्तम्)
कुर्वन्सेवां प्रत्यहं भावभक्त्या स्तोत्रं धेनोर्यः पठेध्दर्षयुक्तः ।
प्राप्य ज्ञानं भक्तिमैश्वर्यमेवं देहारोग्यं मोदते मोदते च ॥ ६॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरू भगवान
श्रीधरस्वामीमहाराजविरचितं धेनुस्तोत्रं सम्पूर्णम् ।
रचना श्रीधर स्वामी, गोवत्स द्वादशी रचनास्थल वरदपूर