श्रीसरस्वतीस्तोत्रम्
नवार्क बिम्बद्युति मुद्गलत् हलत्
ताटङ्क केयूर किरीट कङ्कणम् ।
स्फुरत्क्वणन्नूपुराव रञ्जितां
नमामि कोटिन्दुमुखीं सरस्वतीम् ॥ १॥
वन्दे सदाऽहं कलहंस उद्वते
चलत्पदे चञ्चल चञ्चुसम्पुटे ।
निर्धौत मुक्ताफल हार सञ्चयं
सङ्घारयन्तीं सुभगां सरस्वतीम् ॥ २॥
वराभयं पुस्तक वल्लकीयुतां
परं दधानं विमले करद्वये ।
नमाम्यहं त्वं शुभदां सरस्वतीं
जगन्मयीं ब्रह्ममयीं मनोहराम् ॥ ३॥
तरङ्गिताङ्क्षौमसिताम्बरे परे
देहि स्वरज्ञानमतीव मङ्गले ।
येनाद्वितीयोहि भवेयमक्षरे
सर्वोपरिस्यां पर राजमण्डले ॥ ४॥
शुक्लां ब्रह्मविचार सार परमामाद्यां जगद् व्यापिनी
वीणा पुस्तक धारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्तेस्फाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्देतां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ ५॥
इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं सरस्वतीस्तोत्रं सम्पूर्णम् ।
Proofread by Paresh Panditrao