श्रीसुब्रह्मण्य मातृकामालिका सहस्रनामस्तोत्रम्

श्रीसुब्रह्मण्य मातृकामालिका सहस्रनामस्तोत्रम्

ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ ऋषय ऊचुः - सर्वशास्त्रार्थतत्त्वज्ञ सर्वमोक्षार्थसाधक । वयं चातिथयः प्राप्ता आतिथेयोऽसि साम्प्रतम् ॥ १॥ ज्ञानदानेन संसारसागरादुद्धरस्व नः । कलौ कलुषचित्ता ये नराः पापरताः सदा । केन स्तोत्रेण मुच्यन्ते सर्वपातकबन्धनात् ॥ २॥ इष्टसिद्धिकरं पुण्यं दुःखदारिद्र्यनाशनम् । सर्वरोगहरं स्तोत्रं सूत नो वक्तुमर्हसि ॥ ३॥ श्रीसूत उवाच - श‍ऋणुध्वं ऋषयः सर्वे नैमिशारण्यवासिनः । तत्त्वज्ञानतपोनिष्ठाः सर्वशास्त्रविशारदाः ॥ ४॥ स्वयम्भुवा पुरा प्रोक्तं नारदाय महात्मने । तदहं सम्प्रवक्ष्यामि श्रोतुं कौतूहलं यदि ॥ ५॥ ऋषय ऊचुः - सूतपुत्र महाभाग वक्तुमर्हसि साम्प्रतम् । यदाह भगवान्ब्रह्मा नारदाय महात्मने ॥ ६॥ श्रीसूत उवाच - दिव्यसिह्मासनारूढं सर्वदेवैरभिष्टुतम् । साष्टाङ्गं प्रणिपत्येदं ब्रह्माणं भुवनेश्वरम् । नारदः परिपप्रच्छ कृताञ्जलिरुपस्थितः ॥ ७॥ नारद उवाच - लोकनाथ सुरश्रेष्ठ सर्वज्ञ करुणाकर । षण्मुखस्य तु यत्स्तोत्रं परमं पापनाशनम् ॥ ८॥ तात त्वं पुत्रवात्सल्यात्तद्वद प्रणताय मे । उपदिश्य तु मां देव रक्ष रक्ष कृपानिधे ॥ ९॥ ब्रह्मोवाच - श‍ऋणु वक्ष्यामि देवर्षे स्तवराजमितं परम् । मातृकामालिकायुक्तं ज्ञानमोक्षसुखप्रदम् ॥ १०॥ सहस्राणि च नामानि षण्मुखस्य महात्मनः । यानि नामानि पुण्यानि दुःखरोगहराणि च । तानि नामानि वक्ष्यामि कृपया त्वयि नारद ॥ ११॥ जपमात्रेण सिध्यन्ति मनसा चिन्तितान्यपि । इहामुत्र परं भोगं लभते नात्र संशयः ॥ १२॥ इदं स्तोत्रं परं पुण्यं कोटियज्ञफलप्रदम् । सन्देहो नात्र कर्तव्यः श‍ऋणु मे निश्चितं वचः ॥ १३॥ ॐ अस्य श्रीसुब्रह्मण्यसहस्रनाममातृकामालिकास्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । श्रीप्रसन्नज्ञानसुब्रह्मण्यो देवता । शरजन्माक्षर इति बीजम् । शक्तिधरोऽक्षय इति शक्तिः । कार्तिकेय इति कीलकम् । क्रौञ्चभेदीत्यर्गलम् । शिखिवाहन इति कवचम् । षण्मुख इति ध्यानम् । श्रीप्रसन्नज्ञानसुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः । करन्यासः - ॐ शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने सुहृद्याय हृष्टचित्तात्मने भास्वद्रूपाय अङ्गुष्ठाभ्यां नमः । ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय षडाननाय ललाटषण्णेत्राय अभयवरदहस्ताय तर्जनीभ्यां नमः । ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय षडक्षराय स्वामिनाथाय मध्यमाभ्यां नमः । ॐ णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय शूरमर्दनाय कुमाराय सुब्रह्मण्याय अनामिकाभ्यां नमः । ॐ भं कन्दर्पकोटिदिव्यविग्रहाय द्विषड्बाहवे द्वादशाक्षराय नित्यज्ञानस्वरूपाय द्वादशाक्षाय मूलप्रकृतिरहिताय कनिष्ठिकाभ्यां नमः । ॐ वं सच्चिदानन्दस्वरूपाय सर्वरूपात्मने खेटधराय खड्गिने शक्तिहस्ताय ब्रह्मैकरूपिणे करतलकरपृष्ठाभ्यां नमः ॥ अङ्गन्यासः - ॐ शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने सुहृद्याय हृष्टचित्तात्मने भास्वद्रूपाय हृदयाय नमः । ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय षडाननाय ललाटषण्णेत्राय अभयवरदहस्ताय शिरसे स्वाहा । ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय षडक्षराय स्वामिनाथाय शिखायै वषट् । ॐ णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय शूरमर्दनाय कुमाराय सुब्रह्मण्याय कवचाय हुम् । ॐ भं कन्दर्पकोटिदिव्यविग्रहाय द्विषड्बाहवे द्वादशाक्षराय नित्यज्ञानस्वरूपाय द्वादशाक्षाय मूलप्रकृतिरहिताय नेत्रत्रयाय वौषट् । ॐ वं सच्चिदानन्दस्वरूपाय सर्वरूपात्मने खेटधराय खड्गिने शक्तिहस्ताय ब्रह्मैकरूपिणे अस्त्राय फट् ॥ ॐ भूर्भुवस्सुवरों इति दिग्बन्दः ॥ ध्यानं - ध्यायेत्षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् । कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलाशोभितं काञ्चीकङ्कणकिङ्किणीरवयुतं श‍ऋङ्गारसारोदयम् ॥ षड्वक्त्रं शिखिवहनं त्रिनयनं चित्राम्बरालङ्कृतं वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ॥ पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा । ध्यायेदीप्सितसिद्धिदं शिवसुतं स्कन्दं सुराराधितम् ॥ द्विषड्भुजं षण्मुखमम्बिकासुतं कुमारमादित्य सहस्रतेजसम् । वन्दे मयूरासनमग्निसम्भवं सेनान्यमद्याहमभीष्टसिद्धये ॥ पञ्चपूजा - लं पृथिव्यात्मने गन्धं कल्पयामि । हं आकाशात्मने पुष्पाणि कल्पयामि । यं वाय्वात्मने धूपं कल्पयामि । रं अग्न्यात्मने दीपं कल्पयामि । वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि । सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि । ॐ अचिन्त्यशक्तिरनघो ह्यक्षोभ्यः त्वपराजितः । अनाथवत्सलोऽमोघः त्वशोको ह्यजरोऽभयः ॥ १॥ अत्युदारो ह्यघहरः त्वग्रगण्योऽद्रिजासुतः । अनन्तमहिमाऽपारोऽनन्तसौख्योऽन्नदोऽव्ययः ॥ २॥ अनुत्तमोऽक्षयोऽनादिरप्रमेयोऽक्षरोऽच्युतः । अकल्मषोऽभिरामोऽग्रधुर्यः त्वमितविक्रमः ॥ ३॥ अतुलश्चामृतोऽघोरो ह्यनन्तोऽनन्तविक्रमः । अनाथनाथो ह्यमलो ह्यप्रमत्तोऽमरप्रभुः ॥ ४॥ अरिन्दमोऽखिलाधारो ह्यणिमादिगुणाग्रणीः । अचञ्चलोऽमरस्तुत्योऽह्यकलङ्कः त्वमिताशनः ॥ ५॥ अग्निभूरनवद्याङ्गो ह्यद्भुतोऽभीष्टदायकः । अतीन्द्रियोऽप्रमेयात्मा ह्यदृश्योऽव्यक्तलक्षणः ॥ ६॥ आपद्विनाशनश्चार्य आढ्य आगमसंस्तुतः । आर्तसंरक्षणश्चाद्य आनन्दी आर्यसेवितः ॥ ७॥ आश्रितेष्टार्थवरद आनन्दार्थफलप्रदः । आश्चर्यरूपश्चानन्द आपन्नार्तिविनाशनः ॥ ८॥ आराधितपदद्वन्द्व आगमार्थविशारदः । आनन्दसुन्दराकार आब्रह्मस्तम्भरूपकः ॥ ९॥ आधारषट्कनिलय आदिमध्यान्तवर्जितः । आब्रह्मकीटजनक आखण्डलसुधादिपः ॥ १०॥ इभवक्त्रानुजोऽपीष्ट इभासुरहरात्मजः । इतिहाससुसंस्तुत्य इन्द्रभोगफलप्रदः ॥ ११॥ इष्टापूर्तफलप्राप्तिरिष्टेष्टवरदायकः । इहामुत्रेष्टफलद इष्टदः त्विन्द्रवन्दितः ॥ १२॥ ईडनीयः त्वीशपुत्र ईप्सितार्थप्रदायकः । ईतिभीतिहरः त्वीड्य ईषणात्रयवर्जितः ॥ १३॥ ईश्वरार्पितवेदार्थ ईश्वरप्रियनन्दनः । ईश्वराङ्कविहारी चेशिता चेश्वररूपघृत् ॥ १४॥ उदारकीर्तिरुद्योगी चोत्कृष्टोरुपराक्रमः । उत्कृष्टशक्तिरुत्साह उदारश्चोत्सवप्रियः ॥ १५॥ उज्जृम्भ उद्भवश्चोग्र उदग्रश्चोग्रलोचनः । उन्मत्त उग्रशमन उद्वेगघ्नोरगेश्वरः ॥ १६॥ उरुप्रभावश्चोदीर्ण उमासूनुरुदारधीः । उदग्रवैभवोदग्रबुद्धिदोग्रहेतिमान् ॥ १७॥ ऊर्ध्वरेतस्सुतश्चोर्ध्वगतिदश्चोर्मिपालकः । ऊर्जितश्चोर्ध्वगश्चोर्ध्व ऊर्ध्वलोकैकनायकः ॥ १८॥ ऊर्जावानूर्जितोदार ऊर्जितोर्जितशासनः । ऊरिकृतधनुर्बाण ऊर्मिषट्कविनाशनः ॥ १९॥ ऋषिदेवगणस्तुत्य ऋणत्रयविमोचनः । ऋजुरूपो ह्यृजुकर ऋजुमार्गप्रदर्शकः ॥ २०॥ ऋतम्भर ऋजुप्रीत ऋषभो ऋद्धिश्च ऋक् । ऋग्वेदादिस्वरूपश्च ऋद्धात्मा ऋषिपूजितः ॥ २१॥ ऋलेखवत्त्रिनाड्यन्तस्सुषुम्नानाडिमध्यगः । ऋकृत्स्वप्नाद्यजाग्रान्तमध्यो ह्यॄतम्भरात्मकः ॥ २२॥ ऌलितोद्धारको ऌब्धजनदूरो ऌनामकः । ऌप्ताचारमनोदूरो ऌप्तदुःखो ऌळत्प्रभः ॥ २३॥ ॡनमायासुरो ॡनसंसाराख्यमहावनः । एणाङ्कधरसत्पुत्र एक एनौघनाशनः ॥ २४॥ एकाग्रध्यानशीलश्चाप्योकान्तध्यानपूजितः । ऐश्वर्यदश्चैन्द्रभोगी चैतिह्यश्चैन्द्रवन्दितः ॥ २५॥ ऐशानपदसन्दायी चैन्द्रदिक्पालजाधिपः । ओजस्वी चौषधिस्थानमोजोदश्चौदनप्रदः ॥ २६॥ ओङ्काररूपीचौङ्कार ओङ्कारार्थविशारदः । औदार्यशीलश्चौमेय औग्र औन्नत्यदायकः ॥ २७॥ औदार्यः त्वौषधकर औषधञ्चौषधाकरः । अंशुमानंशुमालीड्य अम्बिकातनयोऽन्नदः ॥ २८॥ अन्धकारिसुतोऽन्धत्वहारी चाम्बुजलोचनः । अस्तमायः त्वर्पणारर्हः त्वस्पष्टोऽस्तोकपुण्यदः ॥ २९॥ अस्तामित्रोऽस्तरूपश्चाप्यस्खलद्गतिदायकः । कार्तिकेयः कामरूपः कुमारः क्रौञ्चदारणः ॥ ३०॥ कामदः कारणं काम्यः कमनीयः कृपाकरः । काञ्चनाभः कान्तियुक्तः कामः कामप्रदः कविः ॥ ३१॥ कीर्तिकृत्कुक्कुटधरः कूटस्थः कुवलेक्षणः । कुङ्कुमाङ्गः क्लमहरः कुशलः कुक्कुटध्वजः ॥ ३२॥ कृशानुसम्भवः क्रूरः क्रूरघ्नः कलितापहृत् । कामरूपः कल्पतरुः कान्तः कामितदायकः ॥ ३३॥ कल्याणकृत्क्लेशनाशः कृपाळूः करुणाकरः । कलूषघ्नः क्रियाशक्तः कठोरः कवची कृती ॥ ३४॥ कोमलाङ्गः कुहूप्रीतः कुत्सितघ्नः कलाधरः । ख्यातः खेटधरः खड्गी खट्वाङ्गी खलनिग्रहः ॥ ३५॥ ख्यातिप्रदः खेचरेशः ख्यातैनाः खेचरस्तुतः । खरतापहरः खस्थः खेचरः खेचराश्रयः ॥ ३६॥ खण्डेन्दुमौलितनयः खेलाखेचरपालकः । खस्थप्रियः खण्डिताद्यः खेचरीजनपूजितः ॥ ३७॥ खेटाद्यायुधसम्पन्नः खर्वेतरपदप्रदः । गाङ्गेयो गिरिजापुत्रो गणनाथानुजो गुहः ॥ ३८॥ गोप्ता गीर्वाणसंसेव्यो गुणातीतो गुहाश्रयः । गतिप्रदो गुणनिधिर्गम्भीरो गिरिजात्मजः ॥ ३९॥ गूढरूपो गदहरो ग्रहाधीशो गणाग्रणीः । गोधरो गहनो गुप्तो गर्वघ्नो गुणवर्द्धनः ॥ ४०॥ गुह्यो गुणज्ञो गीतिज्ञो गतातङ्को गुणोत्तरः । गद्यपद्यप्रियो गण्यो गोस्तुतो गगनेचरः ॥ ४१॥ गणनीयचरित्रश्च गतक्लेशो गुहाश्रयः । घूर्णिताक्षो घृणिनिधिः घनगम्भीरघोषणः ॥ ४२॥ घण्टानादप्रियो घोषो घोराघौघविनाशनः । घनप्रियो घनानन्दो घृणावान् घृष्टिपातकः ॥ ४३॥ घृणर्घृणाकरो घोरो घोरदैत्यप्रहारकः । घटितैश्वर्यसन्दोहो घनर्द्धिर्घनविक्रमः ॥ ४४॥ घृणिमण्डलरूपश्च घनसम्पत्प्रदो घनः । ङकारस्वरणस्सर्वरन्ध्रस्थत्रिपुटीप्रभः ॥ ४५॥ ङणद्घण्टारवान्तस्थो ङणारावततिप्रियः । ङकाराकारकद्वन्द्वसर्वसन्ध्याप्तचिन्मयः ॥ ४६॥ चित्रकृच्चित्रवर्णश्च चञ्चलश्चपलद्युतिः । चिन्मयश्चित्स्वरूपश्च चिदानन्दः चिरन्तनः ॥ ४७॥ चित्रकेलिः चित्रतरः चिन्तनीयः चमत्कृतिः । चोरघ्नः चतुरः चारुः चामीकरविभूषणः ॥ ४८॥ चन्द्रार्ककोटिसदृशः चन्द्रमौलितनूद्भवः । चेटीभूतप्रपञ्चश्च चण्डश्चण्डोरुविक्रमः ॥ ४९॥ छादिताङ्गश्छद्महन्ता छेदिताखिलपातकः । छेदीकृतमहाक्लेशः छेत्रीकृतमहायशाः ॥ ५०॥ छेदिताशेषसन्तापः छुरितानीकसागरः । छेदिताशेषदैत्यौघः छातैनाश्छिन्नसंशयः ॥ ५१॥ छन्दोमयश्छन्दगामी छिन्नपाशः छविच्छदः । छेदिताशेषसंसारः छव्यग्नीन्दुविलोचनः ॥ ५२॥ जगद्धितो जगत्पूज्यो जगज्ज्येष्ठो जगन्मयः । जनको जाह्नवीसूनुर्जितामित्रो जगद्गुरुः ॥ ५३॥ जयी जितेन्द्रियो जेता जरामरणवर्जितः । ज्योतिर्मयो जगन्नाथो जगज्जीवो जनाश्रयः ॥ ५४॥ जगत्वन्द्यो जगच्छ्रेष्ठो जितक्लेशो जगद्विभुः । जगत्सेव्यो जगत्कर्ता जगत्साक्षी जगत्प्रियः ॥ ५५॥ जम्भारिवन्द्यो जयदो जगञ्जनमनोहरः । जगदानन्दजनको जनजाड्यापहारकः ॥ ५६॥ जपाकुसुमसङ्काशो जनलोचनशोभनः । जनेश्वरो जगद्भव्यो जनजन्मनिबर्हणः ॥ ५७॥ जयदो जन्तुतापघ्नो जितदैत्यमहापथः । जितमायो जितक्रोधो जितसङ्गो जनप्रियः ॥ ५८॥ झञ्झानिलमहावेगो झटिताशेषपातकः । झर्झरीकृतदैत्यौघो झल्लरीवाद्यसुप्रियः ॥ ५९॥ ज्ञानमूर्तिर्ज्ञानगम्यो ज्ञानी ज्ञानमहानिधिः । ज्ञानोपदेशकर्ता च ज्ञानदो ज्ञानदेशिकः ॥ ६०॥ टङ्कारनृत्तविभवष्टङ्कवज्रध्वजाङ्कितः । टङ्किताखिललोकश्च टङ्कितैनस्तमोरविः ॥ ६१॥ ठकारमध्यनिलयष्ठवर्णाकारमण्डलः । ठपदान्तश्श्रूयमाणानादरूपष्ठकारकः ॥ ६२॥ डम्बरप्रभवो डम्भो डमड्डमरुकप्रियः । डामरोत्कटसन्नादो डिम्भरूपस्वरूपकः ॥ ६३॥ ढक्कानादप्रीतिकरो ढालितासुरसङ्कुलः । ढौकितामरसन्दोहो ढुण्ढिविघ्नेश्वरानुजः ॥ ६४॥ णकारबिन्दुद्वन्द्वैक्यज्ञानेनाश्चर्यकारकः । णबिन्दुत्रयवन्मद्यबिन्द्वाश्लिष्टाद्विवल्लिकः ॥ ६५॥ तत्त्वज्ञः तत्त्वगः तीवव्रः तपोरूपः तपोमयः । त्रयीमयः त्रिकालज्ञः स्त्रिमूर्तिः त्रिगुणात्मकः ॥ ६६॥ त्रिदशेशः तारकारिः तापघ्नः तापसप्रियः । तुष्टिदः तुष्टिकृत्तीक्ष्णः तपोरूपः त्रिकालवित् ॥ ६७॥ स्तोता स्तव्यः स्तवप्रीतः स्तुतिः स्तोत्रं स्तवप्रियः । तारेशपूजितः तथ्यः तुम्बुरूनारदार्चितः ॥ ६८॥ स्थिरः स्थायी स्थापकश्च स्थूलसूक्ष्मप्रदर्शकः । स्थविष्ठः स्थविरः स्थूलः स्थानदः स्थैर्यदः स्थिरः ॥ ६९॥ दान्तो दयापरो दाता दुरितघ्नो दुरासदः । दर्शनीयो दयासारो देवदेवो दयानिधिः ॥ ७०॥ दुराधर्षो दुर्विगाह्यो दक्षो दर्पणशोभितः । दुर्धरो दानशूरश्च द्वादशाक्षो द्विषड्भुजः ॥ ७१॥ द्विषट्कर्णो द्विषण्णेत्रो दीनसन्तापनाशनः । दन्दशूकेश्वरो देवो दिव्यो दिव्याकृतिर्दमः ॥ ७२॥ दीर्घपृष्ठो दीर्घबाहुर्दीर्घदृष्टिर्दिवस्पतिः । दण्डो दमयिता दर्पो देवसिंहो दृढव्रतः ॥ ७३॥ दुर्लभो दुर्गमो दीप्तो दुष्प्रेक्ष्यो दिव्यमङ्गलः । दुरोदरघ्नो दुःखघ्नो दुरारिघ्नो दिशाम्पतिः ॥ ७४॥ दुर्जयो देवसेनेशो दुर्ज्ञेयो दुरतिक्रमः । दम्भो दृप्तश्च देवर्षिर्दैवज्ञो दैवचिन्तकः ॥ ७५॥ धुरन्धरो धर्मपरो धनदो धृतिवर्धनः । धर्मेशो धर्मशास्त्रज्ञो धन्वी धर्मपरायणः ॥ ७६॥ धनाध्यक्षो धनपतिर्धृतिमान्धूतकिल्बिषः । धर्महेतुर्धर्मगुरुर्धर्मकृद्धर्मविद् ध्रुवः ॥ ७७॥ धाता धीमान्धर्मचारी धन्यो धुर्यो धृतव्रतः । धरीत्रीमण्डालाध्यक्षो धनधान्यविवर्धनः ॥ ७८॥ नित्योत्सवो नित्यतृप्तो निर्लेपो निश्चलात्मकः । निरवद्यो निराधारो निष्कलङ्को निरञ्जनः ॥ ७९॥ निर्ममो निरहङ्कारो निर्मोहो निरुपद्रवः । नित्यानन्दो निरातङ्को निष्प्रपञ्चो निरामयः ॥ ८०॥ निरवद्यो निरीहश्च निर्द्वन्द्वो निर्मलात्मकः । नीरजाक्षो निर्जरेशो निस्सङ्गो निगमस्तुतः ॥ ८१॥ निष्कण्टको निरालम्बो निष्प्रत्यूहो निरुद्भवः । नित्यो नियतकल्याणो निर्विकल्पो निराश्रयः ॥ ८२॥ नेता निधिर्नैकरूपो निराकारो नदीसुतः । नानायुधधरो नाथो नानासाम्राज्यदायकः ॥ ८३॥ नागपाशधरो नन्दी नारदादिसुपूजितः । नाट्योत्सुको नदीसूनुर्नगारिप्रियदायकः ॥ ८४॥ नक्षत्ररूपी नक्षत्रं नेता नित्योसुको नटः । निर्मलो निरहङ्कारो नित्याभीष्टफलप्रदः ॥ ८५॥ पुलिन्दकन्यारमणः पुरुजित्परमप्रियः । प्रत्यक्षमूर्तिः प्रत्यक्षः परेशः पूर्णपुण्यदः ॥ ८६॥ पुण्याकरः पुण्यरूपः पुण्यः पुण्यपरायणः । पुण्योदयः परञ्ज्योतिः पुण्यकृत्पुण्यवर्धनः ॥ ८७॥ परानन्दः परतरः पुण्यकीर्तिः पुरातनः । प्रसन्नरूपः प्राणेशः पन्नगः पापनाशनः ॥ ८८॥ प्रणतार्तिहरः पूर्णः पार्वतीनन्दनः प्रभुः । पूतात्मा पुरुषः प्राणः प्रभवः पुरुषोत्तमः ॥ ८९॥ प्रसन्नः परमश्रेष्ठः पटः परिवृढः परः । परमात्मा परब्रह्म परर्द्धिः प्रियदर्शनः ॥ ९०॥ पवित्रः पुष्टिदः पूर्तिः पिङ्गलः पुष्टिवर्धनः । पापघ्नः पाशहस्तश्च प्रमत्तासुरशिक्षकः ॥ ९१॥ पावनः पावकः पूज्यः पूर्णानन्दः परात्परः । पुष्करः प्रवरः पूर्वः पितृभक्तपुरोगमः ॥ ९२॥ प्राणदः प्राणिजनकः प्रतिष्ठा पावकोद्भवः । परब्रह्मस्वरूपश्च परमैश्वर्यकारणम् ॥ ९३॥ परर्द्धिदः पुष्टिकरः प्रकाशात्मा प्रतापवान् । प्रज्ञाकरः प्रकृष्टार्थः पृथुः पृथुपराक्रमः ॥ ९४॥ पूतनाजीवहरणजामाता पुर्णविग्रहः । फणीश्वरः फणिवरः फणामणिविभूषितः ॥ ९५॥ फलदः फलहस्तश्च फुल्लाम्बुजविलोचनः । फडुच्चाटितपापौघः फणिलोकविभूषणः ॥ ९६॥ फणिसङ्घादरापीतनिजवाणीरसामृतः । बाहुलेयो बृहद्रूपो बलिष्ठो बलवान् बलः ॥ ९७॥ ब्रह्मेशविष्णुरूपश्च बुद्धिर्बुद्धिमतां वरः । बालरूपो बृहद्गर्भो ब्रह्मचारी बुधप्रियः ॥ ९८॥ बहुश्रुतो बहुमतो ब्रह्मण्यो ब्राह्मणप्रियः । बलप्रमथनो ब्रह्मा बहुरूपो बहुप्रदः ॥ ९९॥ बृहद्भानुतनूद्भूतो बृहद्बाहुर्बिलेशयः । बहुबाहुर्बलश्रीमान्बहुदैत्यविनाशकः ॥ १००॥ बिलद्वारान्तरालस्थो बृहच्छक्तिधनुर्धरः । बालार्कद्युतिमान् बालो बृहद्वक्षा बृहद्धनुः ॥ १०१॥ बद्धतूणीरांसदेशो बद्धपाशविमोचनः । भव्यो भोगीश्वरो भाव्यो भवनाशो भवप्रियः ॥ १०२॥ भक्तिगम्यो भयहरो भावज्ञो भजनप्रियः । भुक्तिमुक्तिप्रदो भोगी भगवान्भाग्यवर्धनः ॥ १०३॥ भ्राजिष्णुर्भावनो भर्ता भीमो भीमपराक्रमः । भूतिदो भूतिकृद्भोक्ता भूतात्मा भुवनेश्वरः ॥ १०४॥ भावुको भीकरो भीष्मो भावुकेष्टो भवोद्भवः । भवतापप्रशमनो भोगवान् भूतभावनः ॥ १०५॥ भोज्यप्रदो भ्रान्तिनाशो भानुमान् भुवनाश्रयः । भूरिभोगप्रदो भद्रो भजनीयो भिषग्वरः ॥ १०६॥ भक्तेष्टदाननिरतो भार्गबाद्यभिवन्दितः । महासेनो महोदारो महाशक्तिर्महाद्युतिः ॥ १०७॥ महाबुद्धिर्महावीर्यो महोत्साहो महाबलः । महाभागो महामायी मेधावी मेखली महान् ॥ १०८॥ मुनिस्तुतो महामान्यो महानन्दो महायशाः । महोर्जितो माननिधिर्मनोरथफलप्रदः ॥ १०९॥ महोदयो महापुण्यो महाबलपराक्रमः । मानदो मतिदो मानी मुक्तामालाविभूषणः ॥ ११०॥ मनोहरो महामुख्यो महर्द्धिर्मूर्तिमान्मुनिः । महोत्तमो महोपायो मोक्षदो मङ्गलप्रदः ॥ १११॥ मुदाकरो मुक्तिदाता महाभोगो महोरगः । यशस्करो योगयोनिर्योगिष्ठो यमिनां वरः ॥ ११२॥ यशस्वी योगपुरुषो योग्यो योगनिधिर्यमी । यमिसेव्यो योगयुक्तो योगविद्योगसिद्धिदः ॥ ११३॥ यन्ता यन्त्री च यन्त्रज्ञो यन्त्रवान्यन्त्रनायकः । यातनारहितो योगी योगीशो योगिनां वरः ॥ ११४॥ योगाराध्यपदद्वन्दो यमाद्यष्टाङ्गसाधकः । रमणीयो रम्यरूपो रसज्ञो रसभावुकः ॥ ११५॥ रञ्जनो रञ्जितो रागी रुजारी रुद्रसम्भवः । रणप्रियो रणोदारो रागद्वेषविनाशनः ॥ ११६॥ रत्नार्ची रुचिरो रम्यो रूपलावण्यविग्रहः । रत्नाङ्गदधरो रत्नभूषणो रमणीयकः ॥ ११७॥ रुचिकृद्रोचमानश्च रञ्जितो रोगनाशनः । राजीवाक्षो राजराजो रक्तमाल्यानुलेपनः ॥ ११८॥ राजद्वेदागमस्तुत्यो रजस्सत्त्वगुणान्वितः । रजनीशकलारम्यो रत्नकुण्डलमण्डितः ॥ ११९॥ रत्नसन्मौलिशोभाढ्यो रणन्मञ्जीरभूषणः । रसवक्त्रधरो रागी रञ्जनीयपदाम्बुजः ॥ १२०॥ लोकैकनाथो लोकेश लालितो लोकनायकः । लोकशिक्षो लोकरक्षो लोकलोचनरञ्जितः ॥ १२१॥ लोकचूडामणिर्लोलोलावण्यो लयवर्जितः । लोकाध्यक्षो लोकवन्द्यो लोकोत्तरगुणाकरः ॥ १२२॥ लोकबन्धुर्लोकदाता लोकत्रयमहाहितः । लोकातीतगुणोपेतो लोकालोकस्वरूपवान् ॥ १२३॥ लास्यप्रियो लास्यदर्शी लताकुसुमपूजितः । लब्धमानो लब्धरसो लब्धहर्षो लसत्करः ॥ १२४॥ वरिष्ठो वरदो वन्द्यो विशिष्टो विक्रमी विभुः । विबुधाग्रचरो विश्वं विकल्पपरिवर्जितः ॥ १२५॥ विपाशो विगतातङ्को विचित्राङ्गो विरोचनः । विद्याधरो विशुद्धात्मा वेदाङ्गो विबुधप्रियः ॥ १२६॥ वर्चस्करो व्यापकश्च विज्ञानी विनयान्वितः । विद्वत्तमो विरोधिघ्नो वीरो वीरासनोविधिः ॥ १२७॥ वीतरागो विनीतात्मा वेदगर्भो विराड्वपुः । विश्वदीप्तिर्विशालाक्षो विजितात्मा विभावनः ॥ १२८॥ वेदवेद्यो विधेयात्मा वीतदोषश्च वसुप्रदः । विश्वकर्मा वीतभयो वागीशो वासवार्चितः ॥ १२९॥ वेदद्विश्वरूपश्च विश्वमुर्तिरर्वरासनः । वाग्मी वेदधरो विद्वान्विशाखो विमलो वटुः ॥ १३०॥ वीरचूडामणिर्वीरविजयो विबुधाश्रयः । विजयी विनयी वेत्ता वरीयान्विरजा वसुः ॥ १३१॥ वीरघ्नो विज्वरो वेद्यो वेगवान्वीर्यवान्वशी । वरशीलो वरगुणो विशोको वज्रधारकः ॥ १३२॥ शरजन्मा शक्तिधरः शत्रुघ्नः शिखिवाहनः । श्रीमान्शिष्टः शुचिः शुद्धः शाश्वतः श्रुतिसागरः ॥ १३३॥ शरण्यः शुभदः शर्म शिष्टेष्टः शुभलक्षणः । शान्तः शूलधरः श्रेष्ठः शुद्धात्मा शङ्करः शिवः ॥ १३४॥ शितिकण्ठात्मजः शूरः शान्तिदः शोकनाशनः । शूरसंहारदक्षश्च शिष्टाचारप्रपूजितः ॥ १३५॥ षाण्मातुरः षण्मुखश्च षड्गुणैश्वर्यसंयुतः । षट्चक्रस्थः षडूर्मिघ्नः षडङ्गश्रुतिपारगः ॥ १३६॥ षड्भावरहितः षट्कः षट्शास्त्रस्मृतिपारगः । षड्वर्गरूपः षड्ग्रीवः षडरिघ्नः षडाश्रयः ॥ १३७॥ षट्किरीटधरः श्रीमान् षडाधारश्च षट्क्रमः । षट्कोणमध्यनिलयः षण्डत्वपरिहारकः ॥ १३८॥ सेनानीः सुभगः स्कन्दः सुरानन्दः सतां गतिः । सुब्रह्मण्यः सुराध्यक्षः सर्वज्ञः सर्वदः सुखी ॥ १३९॥ सुलभः सिद्धिदः सौम्यः सिद्धेशः सिद्धिसाधनः । सिद्धार्थः सिद्धसङ्कल्पः सिद्धसाधुः सुरेश्वरः ॥ १४०॥ सुभुजः सर्ववित्साक्षी सुप्रसादः सनातनः । सुधापतिः स्वयञ्ज्योतिः स्वयम्भूः सर्वतोमुखः ॥ १४१॥ समर्थः सत्कृतः सूक्ष्मः सुमुखः सुखदः सुहृत् । सुप्रसन्नः सुरश्रेष्ठः सुशीलः सत्यसाधकः ॥ १४२॥ सम्भाव्यः सुमनस्सेव्यः सकलागमपारगः । सुव्यक्तः सच्चिदानन्दः सुवीरः सुजनाश्रयः ॥ १४३॥ सर्वलक्षणसम्पन्नः सत्यधर्मपरायणः । सर्वदेवमयः सत्यः सदामृष्टान्नदायकः ॥ १४४॥ सुधन्वाः सुमतिः सत्यः सर्वविघ्नविनाशनः । सर्वदुःखप्रशमनः सुकुमारः सुलोचनः ॥ १४५॥ सुग्रीवः सुचिराः सारः सुराध्यक्षः सुरारिहाः । सुविक्रमः सर्ववर्णः सर्पराजः सदाशुचिः ॥ १४६॥ सप्तार्चिर्भूः सुरवरः सर्वायुधविशारदः । सर्वलोकैकनाथश्च साम्बाराधनतत्परः ॥ १४७॥ हस्तिचर्माम्बरसुतो हस्तिवाहनसेवितः । हस्त्यश्ववाहनो हस्ती हर्षदैत्यहरानुजः ॥ १४८॥ हकाररूपो हंसात्मा हलभृत् हरिपूजितः । हविर्हरिद्रावर्णश्च हृताघो हसिताननः ॥ १४९॥ हेमभूषो हरिद्वर्णो हृष्टिदो हृष्टिवर्धनः । हेलाद्रिविध्वंसकारी हुङ्कारहृतकिल्बिषः ॥ १५०॥ हिमाद्रिजातनूद्भूतो हरिकेशो हिरण्मयः । हृद्यो हृष्टो हरिसखो हंसो हंसगतिर्हविः ॥ १५१॥ हिरण्यवर्णो हितकृद्धर्षदो हेमभूषणः । हरप्रियो हितकरो हतपापो ह्रदोद्भवः ॥ १५२॥ क्षेमदः क्षेमकृत्क्षेम्यः क्षेत्रज्ञः क्षेत्रवर्जितः । क्षेत्रपालः क्षमाधारः क्षेम्यः क्षेत्रं क्षमाकरः ॥ १५३॥ क्षुत्तृड्घ्नः क्षान्तिदः क्षेमी क्षितिभूषः क्षमाश्रयः । क्षालिताघः क्षितिधरः क्षीणसम्रक्षणक्षमः ॥ १५४॥ अङ्गन्यासः - ॐ शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने सुहृद्याय हृष्टचित्तात्मने भास्वद्रूपाय हृदयाय नमः । ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय षडाननाय ललाटषण्णेत्राय अभयवरदहस्ताय शिरसे स्वाहा । ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय षडक्षराय स्वामिनाथाय शिखायै वषट् । ॐ णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय शूरमर्दनाय कुमाराय सुब्रह्मण्याय कवचाय हुम् । ॐ भं कन्दर्पकोटिदिव्यविग्रहाय द्विषड्बाहवे द्वादशाक्षराय नित्यज्ञानस्वरूपाय द्वादशाक्षाय मूलप्रकृतिरहिताय नेत्रत्रयाय वौषट् । ॐ वं सच्चिदानन्दस्वरूपाय सर्वरूपात्मने खेटधराय खड्गिने शक्तिहस्ताय ब्रह्मैकरूपिणे अस्त्राय फट् ॥ ॐ भूर्भुवस्सुवरों इति दिग्विमोकः ॥ ध्यानं - ध्यायेत्षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितम् । बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् ॥ कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलाशोभितम् । काञ्चीकङ्कणकिङ्किणीरवयुतं श‍ऋङ्गारसारोदयम् ॥ षड्वक्त्रं शिखिवहनं त्रिनयनं चित्राम्बरालङ्कृतम् । वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ॥ पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा । ध्यायेदीप्सितसिद्धिदं शिवसुतं स्कन्दं सुराराधितम् ॥ द्विषड्भुजं षण्मुखमम्बिकासुतं कुमारमादित्य सहस्रतेजसम् । वन्दे मयूरासनमग्निसम्भवं सेनान्यमद्याहमभीष्टसिद्धये ॥ पञ्चपूजा - लं पृथिव्यात्मने गन्धं कल्पयामि । हं आकाशात्मने पुष्पाणि कल्पयामि । यं वाय्वात्मने धूपं कल्पयामि । रं अग्न्यात्मने दीपं कल्पयामि । वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि । सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि । फलस्तुति - नाम्नां सहस्रं स्कन्दस्य वेदभूतधरामितैः । श्लोकैरनुष्टुप्छ्न्दोभिर्बद्धं साम्राज्यदायकम् ॥ १५५॥ अकारादिक्षकारान्तनाम्नामेतद्गुहस्य तु । योऽसौ तात्पर्यतः पाठी सर्वज्ञः सुखितो भवेत् ॥ १५६॥ इति नामसहस्रं हि षण्मुखस्य च नारद । यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा । स सद्यो मुच्यते पापैर्मनोवाक्कायसम्भवैः ॥ १५७॥ सर्वरोगप्रशमनं सर्वसम्पत्करं शुभम् । सर्वदारिद्र्यशमनं सर्वमङ्गलवर्धनम् ॥ १५८॥ सर्ववश्यकरं नॄणां सर्वरक्षाकरं परम् । सर्वसिद्धिप्रदं सद्यस्सर्वबन्धविमोचनम् ॥ १५९॥ आयुर्वृद्धिकरं पुंसां स्थैर्यवीर्यविवर्धनम् । स्तवराजमिदं पुण्यं चतुर्वर्गफलप्रदम् ॥ १६०॥ वाक्येनैकेन वक्ष्यामि वाञ्छितार्थन्प्रयच्छति । इदं रहस्यं परमं स्तोत्रमेदन्मयोदितम् । तस्मात्सर्वार्थसिद्ध्यर्थं नियमेन जपेत्सुधीः ॥ १६१॥ ॥ इति श्रीस्कान्दे महापुराणे शङ्करसम्हितायां शिवरहस्यखण्डे ईश्वरप्रोक्ते ब्रह्मनारदसंवादे श्रीसुब्रह्मण्यमातृकामलिकासहस्रनामस्तोत्रं सम्पूर्णम् ॥ ॥ श्री सुब्रह्मण्य मातृकामालिका सहस्रनामावलिः ॥ ॐ अचिन्त्यशक्तये नमः । ॐ अनघाय नमः । ॐ अक्षोभ्याय नमः । ॐ अपराजिताय नमः । ॐ अनाथवत्सलाय नमः । ॐ अमोघाय नमः । ॐ अशोकाय नमः । ॐ अजराय नमः । ॐ अभयाय नमः । ॐ अत्युदाराय नमः । (१०) ॐ अघहराय नमः । ॐ अग्रगण्याय नमः । ॐ अद्रिजासुताय नमः । ॐ अनन्तमहिम्ने नमः । ॐ अपाराय नमः । ॐ अनन्तसौख्याय नमः । ॐ अन्नदाय नमः । ॐ अव्ययाय नमः । ॐ अनुत्तमाय नमः । ॐ अक्षयाय नमः । (२०) ॐ अनादये नमः । ॐ अप्रमेयाय नमः । ॐ अक्षराय नमः । ॐ अच्युताय नमः । ॐ अकल्मषाय नमः । ॐ अभिरामाय नमः । ॐ अग्रधुर्याय नमः । ॐ अमितविक्रमाय नमः । ॐ अतुलाय नमः । ॐ अमृताय नमः । (३०) ॐ अघोराय नमः । ॐ अनन्ताय नमः । ॐ अनन्तविक्रमाय नमः । ॐ अनाथनाथाय नमः । ॐ अमलाय नमः । ॐ अप्रमत्ताय नमः । ॐ अमरप्रभवे नमः । ॐ अरिन्दमाय नमः । ॐ अखिलाधाराय नमः । ॐ अणिमादिगुणाग्रण्ये नमः । (४०) ॐ अचञ्चलाय नमः । ॐ अमरस्तुत्याय नमः । ॐ अकलङ्काय नमः । ॐ अमिताशनाय नमः । ॐ अग्निभुवे नमः । ॐ अनवद्याङ्गाय नमः । ॐ अद्भुताय नमः । ॐ अभीष्टदायकाय नमः । ॐ अतीन्द्रियाय नमः । ॐ अप्रमेयात्मने नमः । (५०) ॐ अदृश्याय नमः । ॐ अव्यक्तलक्षणाय नमः । ॐ आपद्विनाशकाय नमः । ॐ आर्याय नमः । ॐ आढ्याय नमः । ॐ आगमसंस्तुताय नमः । ॐ आर्तसंरक्षणाय नमः । ॐ आद्याय नमः । ॐ आनन्दिने नमः । ॐ आर्यसेविताय नमः । (६०) ॐ आश्रितेष्टार्थवरदाय नमः । ॐ आनन्दार्थफलप्रदाय नमः । ॐ आश्चर्यरूपाय नमः । ॐ आनन्दाय नमः । ॐ आपन्नार्तिविनाशनाय नमः । ॐ आराधितपदद्वन्द्वाय नमः । ॐ आगमार्थविशारदाय नमः । ॐ आनन्दसुन्दराकाराय नमः । ॐ आब्रह्मस्तम्बरूपकाय नमः । ॐ आधारषट्कनिलयाय नमः । (७०) ॐ आदिमध्यान्तवर्जिताय नमः । ॐ आब्रह्मकीटजनकाय नमः । ॐ आखण्डलसुताधिपाय नमः । ॐ इभवक्त्रानुजाय नमः । ॐ इष्टाय नमः । ॐ इभासुरहरात्मजाय नमः । ॐ इतिहाससुसंस्तुत्याय नमः । ॐ इन्द्रभोगफलप्रदाय नमः । ॐ इष्टापूर्तफलप्राप्तये नमः । ॐ इष्टेष्टवरदायकाय नमः । (८०) ॐ इहामुत्रेष्टफलदाय नमः । ॐ इष्टदाय नमः । ॐ इन्द्रवन्दिताय नमः । ॐ ईडनीयाय नमः । ॐ ईशपुत्राय नमः । ॐ ईप्सितार्थप्रदायकाय नमः । ॐ ईतिभीतिहराय नमः । ॐ ईड्याय नमः । ॐ ईषणात्रयवर्जिताय नमः । ॐ ईश्वरार्पितवेदार्थाय नमः । (९०) ॐ ईश्वरप्रियनन्दनाय नमः । ॐ ईश्वराङ्कविहारिणे नमः । ॐ ईशित्रे नमः । ॐ ईश्वररूपधृते नमः । ॐ उदारकीर्तये नमः । ॐ उद्योगिने नमः । ॐ उत्कृष्टाय नमः । ॐ उरुपराक्रमाय नमः । ॐ उत्कृष्टशक्तये नमः । ॐ उत्साहाय नमः । (१००) ॐ उदाराय नमः । ॐ उत्सवप्रियाय नमः । ॐ उज्जृम्भाय नमः । ॐ उद्भवाय नमः । ॐ उग्राय नमः । ॐ उदग्राय नमः । ॐ उदग्रलोचनाय नमः । ॐ उन्मत्ताय नमः । ॐ उग्रशमनाय नमः । ॐ उद्वेगघ्नाय नमः । (११०) ॐ उरगेश्वराय नमः । ॐ उरुप्रभावाय नमः । ॐ उदीर्णाय नमः । ॐ उमासूनवे नमः । ॐ उदारधिये नमः । ॐ उदग्रवैभवाय नमः । ॐ उदग्रबुद्धिदाय नमः । ॐ उदग्रहेतिमते नमः । ॐ ऊर्ध्वरेतःसुताय नमः । ॐ ऊर्ध्वगतिदाय नमः । (१२०) ॐ ऊर्जपालकाय नमः । ॐ ऊर्जिताय नमः । ॐ ऊर्ध्वगाय नमः । ॐ ऊर्ध्वाय नमः । ॐ ऊर्ध्वलोकैकनायकाय नमः । ॐ ऊर्जावते नमः । ॐ ऊर्जितोदाराय नमः । ॐ ऊर्जिताय नमः । ॐ ऊर्जितशासनाय नमः । ॐ ऊरीकृतधनुर्बाणवे नमः । (१३०) ॐ ऊर्मिषट्कविनाशनाय नमः । ॐ ऋषिदेवगणस्तुत्याय नमः । ॐ ऋणत्रयविमोचनाय नमः । ॐ ऋजुरूपाय नमः । ॐ ऋजुकराय नमः । ॐ ऋजुमार्गप्रदर्शनाय नमः । ॐ ऋतम्भराय नमः । ॐ ऋजुप्रीताय नमः । ॐ ऋषभाय नमः । ॐ ऋद्धिदाय नमः । (१४०) ॐ ऋचे नमः । ॐ ऋग्वेदादिस्वरूपाय नमः । ॐ ऋद्धात्मने नमः । ॐ ऋषिपूजिताय नमः । ॐ ऋलेखावत्त्रिनाड्यन्तस्सुषुम्नानाडी-मध्यगाय नमः । ॐ ऋकृत्स्वप्नाद्यजाग्रान्तमध्याय नमः । ॐ ऋतम्भरात्मकाय नमः । ॐ ऌलितोद्धारकाय नमः । ॐ ऌब्धजनदूराय नमः । ॐ ऌनामकाय नमः । (१५०) ॐ ऌप्ताचारमनोदूराय नमः । ॐ ऌप्तदुःखाय नमः । ॐ ऌळत्प्रभाय नमः । ॐ ॡनमायासुराय नमः । ॐ ॡनसंसाराख्यमहावनाय नमः । ॐ एणाङ्कधरसत्पुत्राय नमः । ॐ एकस्मै नमः । ॐ एनौघनाशनाय नमः । ॐ एकाग्रध्यानशीलाय नमः । ॐ एकान्तध्यानपूजिताय नमः । (१६०) ॐ ऐश्वर्यदाय नमः । ॐ ऐन्द्रभोगिने नमः । ॐ ऐतिह्याय नमः । ॐ ऐन्द्रवन्दिताय नमः । ॐ ऐशानपदसन्दायिने नमः । ॐ एन्द्रदिक्पालजाधिपाय नमः । ॐ ओजस्विने नमः । ॐ ओषधिस्थानाय नमः । ॐ ओजोदाय नमः । ॐ ओदनप्रदाय नमः । (१७०) ॐ ओङ्काररूपिणे नमः । ॐ ओङ्काराय नमः । ॐ ओङ्कारार्थविशारदाय नमः । ॐ औदार्यशीलाय नमः । ॐ औमेयाय नमः । ॐ औग्राय नमः । ॐ औन्नत्यदायकाय नमः । ॐ औदार्याय नमः । ॐ औषधकराय नमः । ॐ औषधाय नमः । (१८०) ॐ औषधाकराय नमः । ॐ अंशुमते नमः । ॐ अंशुमालीड्याय नमः । ॐ अम्बिकातनयाय नमः । ॐ अन्नदाय नमः । ॐ अन्धकारिसुताय नमः । ॐ अन्धत्वहारिणे नमः । ॐ अम्बुजलोचनाय नमः । ॐ अस्तमायाय नमः । ॐ अर्पणार्हाय नमः । (१९०) ॐ अस्पष्टाय नमः । ॐ अस्तोकपुण्यदाय नमः । ॐ अस्तामित्राय नमः । ॐ अस्तरूपाय नमः । ॐ अस्खलद्गतिदायकाय नमः । ॐ कार्तिकेयाय नमः । ॐ कामरूपाय नमः । ॐ कुमाराय नमः । ॐ क्रौञ्चदारणाय नमः । ॐ कामदाय नमः । (२००) ॐ कारणाय नमः । ॐ काम्याय नमः । ॐ कमनीयाय नमः । ॐ कृपाकराय नमः । ॐ काञ्चनाभाय नमः । ॐ कान्तियुक्ताय नमः । ॐ कामाय नमः । ॐ कामप्रदाय नमः । ॐ कवये नमः । ॐ कीर्तिकृते नमः । (२१०) ॐ कुक्कुटधराय नमः । ॐ कूटस्थाय नमः । ॐ कुवलेक्षणाय नमः । ॐ कुङ्कुमाङ्गाय नमः । ॐ क्लमहराय नमः । ॐ कुशलाय नमः । ॐ कुक्कुटध्वजाय नमः । ॐ कुशानुसम्भवाय नमः । ॐ क्रूराय नमः । ॐ क्रूरघ्नाय नमः । (२२०) ॐ कलितापहृते नमः । ॐ कामरूपाय नमः । ॐ कल्पतरवे नमः । ॐ कान्ताय नमः । ॐ कामितदायकाय नमः । ॐ कल्याणकृते नमः । ॐ क्लेशनाशाय नमः । ॐ कृपालवे नमः । ॐ करुणाकराय नमः । ॐ कळूषघ्नाय नमः । (२३०) ॐ क्रियाशक्ताय नमः । ॐ कठोराय नमः । ॐ कवचिने नमः । ॐ कृतिने नमः । ॐ कोमलाङ्गाय नमः । ॐ कुहूप्रीताय नमः । ॐ कुत्सितघ्नाय नमः । ॐ कलाधराय नमः । ॐ ख्याताय नमः । ॐ खेटधराय नमः । (२४०) ॐ खड्गिने नमः । ॐ खट्वाङ्गिने नमः । ॐ खलनिग्रहाय नमः । ॐ ख्यातिप्रदाय नमः । ॐ खेचरेशाय नमः । ॐ ख्यातैनसे नमः । ॐ खेचरस्तुताय नमः । ॐ खरतापहराय नमः । ॐ खस्थाय नमः । ॐ खेचराय नमः । (२५०) ॐ खेचराश्रयाय नमः । ॐ खण्डेन्दुमौलितनयाय नमः । ॐ खेलाखेचरपालकाय नमः । ॐ खस्थप्रियाय नमः । ॐ खण्डिताघाय नमः । ॐ खेचरीजनपूजिताय नमः । ॐ खेटाद्यायुधसम्पन्नाय नमः । ॐ खर्वेतरपदप्रदाय नमः । ॐ गाङ्गेयाय नमः । ॐ गिरिजापुत्राय नमः । (२६०) ॐ गणनाथानुजाय नमः । ॐ गुहाय नमः । ॐ गोप्त्रे नमः । ॐ गीर्वाणसंसेव्याय नमः । ॐ गुणातीताय नमः । ॐ गुणाश्रयाय नमः । ॐ गतिप्रदाय नमः । ॐ गुणनिधये नमः । ॐ गम्भीराय नमः । ॐ गिरिजात्मजाय नमः । (२७०) ॐ गूढरूपाय नमः । ॐ गदहराय नमः । ॐ ग्रहाधीशाय नमः । ॐ गणाग्रण्ये नमः । ॐ गोधराय नमः । ॐ गहनाय नमः । ॐ गुप्ताय नमः । ॐ गर्वघ्नाय नमः । ॐ गुणवर्द्धनाय नमः । ॐ गुह्याय नमः । (२८०) ॐ गुणज्ञाय नमः । ॐ गीतिज्ञाय नमः । ॐ गतातङ्काय नमः । ॐ गुणोत्तराय नमः । ॐ गद्यपद्यप्रियाय नमः । ॐ गुण्याय नमः । ॐ गोस्तुताय नमः । ॐ गगनेचराय नमः । ॐ गणनीयचरित्राय नमः । ॐ गतक्लेशाय नमः । (२९०) ॐ गुहाश्रयाय नमः । ॐ घूर्णिताक्षाय नमः । ॐ घृणिनिधये नमः । ॐ घनगम्भीरघोषणाय नमः । ॐ घण्टानादप्रियाय नमः । ॐ घोषाय नमः । ॐ घोराघौघविनाशनाय नमः । ॐ घनप्रियाय नमः । ॐ घनानन्दाय नमः । ॐ घर्महन्त्रे नमः । ॐ घृणावते नमः । (३००) ॐ घृष्टिपातकाय नमः । ॐ घृणये नमः । ॐ घृणाकराय नमः । ॐ घोराय नमः । ॐ घोरदैत्यप्रहारकाय नमः । ॐ घटिदैत्यप्रहारकाय नमः । ॐ घटीतैश्वर्यसन्दोहाय नमः । ॐ घनर्द्धये नमः । ॐ घनविक्रमाय नमः । ॐ घृणिमण्डलरूपाय नमः । ॐ घनसम्पत्प्रदाय नमः । (३१०) ॐ घनाय नमः । ॐ ङकारस्वरणस्सर्वरन्ध्रस्थ-त्रिपुटीप्रभाय नमः । ॐ ङणद्घण्टारवान्तस्थाय नमः । ॐ ङणारावततिप्रियाय नमः । ॐ ङकाराकारकद्वन्द्व-सर्वसन्ध्याप्त-चिन्मयाय नमः । ॐ चित्रकृते नमः । ॐ चित्रवर्णाय नमः । ॐ चञ्चलाय नमः । ॐ चपलद्युतये नमः । ॐ चिन्मयाय नमः । (३२०) ॐ चित्स्वरूपाय नमः । ॐ चिदानन्दाय नमः । ॐ चिरन्तनाय नमः । ॐ चित्रकेलये नमः । ॐ चित्रतराय नमः । ॐ चिन्तनीयाय नमः । ॐ चमत्कृतये नमः । ॐ चोरघ्नाय नमः । ॐ चतुराय नमः । ॐ चारवे नमः । (३३०) ॐ चामीकरविभूषणाय नमः । ॐ चन्द्रार्ककोटिसदृशाय नमः । ॐ चन्द्रमौलितनूद्भवाय नमः । ॐ चेटीभूतप्रपञ्चाय नमः । ॐ चण्डाय नमः । ॐ चण्डोरिविक्रमाय नमः । ॐ छादिताङ्गाय नमः । ॐ छद्महन्त्रे नमः । ॐ छेदिताखिलपातकाय नमः । ॐ छेदीकृततमहाक्लेशाय नमः । (३४०) ॐ छत्रीकृतमहायशसे नमः । ॐ छादिताशेषसन्तापाय नमः । ॐ छुरितानीकसागराय नमः । ॐ छेदिताशेषदैत्यौघाय नमः । ॐ छातैनसे नमः । ॐ छिन्नसंशयाय नमः । ॐ छन्दोमयाय नमः । ॐ छन्दगामिने नमः । ॐ छिन्नपाशाय नमः । ॐ छविच्छदाय नमः । (३५०) ॐ छेदिताशेषसंसाराय नमः । ॐ छव्यग्नीन्दुविलोचनाय नमः । ॐ जगद्धिताय नमः । ॐ जगत्पूज्याय नमः । ॐ जगज्ज्येष्ठाय नमः । ॐ जगन्मयाय नमः । ॐ जनकाय नमः । ॐ जाह्नवीसूनवे नमः ॐ जितामित्राय नमः । ॐ जगद्गुरवे नमः । (३६०) ॐ जयिने नमः । ॐ जितेन्द्रियाय नमः । ॐ जेत्रे नमः । ॐ जरामरणवर्जिताय नमः । ॐ ज्योतिर्मयाय नमः । ॐ जगन्नाथाय नमः । ॐ जगज्जीवाय नमः । ॐ जनाश्रयाय नमः । ॐ जगद्वन्द्याय नमः । ॐ जगच्छ्रेष्ठाय नमः । (३७०) ॐ जितक्लेशाय नमः । ॐ जगद्विभवे नमः । ॐ जगत्सेव्याय नमः । ॐ जगत्कर्त्रे नमः । ॐ जगत्साक्षिणे नमः । ॐ जगत्प्रियाय नमः । ॐ जम्भारिवन्द्याय नमः । ॐ जयदाय नमः । ॐ जगज्जनमनोहराय नमः । ॐ जगदानन्दजनकाय नमः । (३८०) ॐ जनजाड्यापहारकाय नमः । ॐ जपाकुसुमसङ्काशाय नमः । ॐ जनलोचनशोभनाय नमः । ॐ जनेश्वराय नमः । ॐ जगद्भव्याय नमः । ॐ जनजन्मनिबर्हणाय नमः । ॐ जयदाय नमः । ॐ जन्तुतापघ्नाय नमः । ॐ जितदैत्यमहापथाय नमः । ॐ जितमायाय नमः । (३९०) ॐ जितक्रोधाय नमः । ॐ जितसङ्गाय नमः । ॐ जनप्रियाय नमः । ॐ झञ्झानिलमहावेगाय नमः । ॐ झरिताशेषपातकाय नमः । ॐ झर्झरीकृतदैत्यौघाय नमः । ॐ झल्लरीवाद्यसुप्रियाय नमः । ॐ ज्ञानमूर्तये नमः । ॐ ज्ञानगम्याय नमः । ॐ ज्ञानिने नमः । (४००) ॐ ज्ञानमहानिधये नमः । ॐ ज्ञानोपदेशिकर्त्रे नमः । ॐ ज्ञानदाय नमः । ॐ ज्ञानदेशिकाय नमः । ॐ टङ्कारनृत्तविभवाय नमः । ॐ टङ्कवज्रध्वजाङ्किताय नमः । ॐ टङ्किताखिललोकाय नमः । ॐ टङ्कितैनस्तमोरवये नमः । ॐ ठकारमध्यनिलयाय नमः । ॐ ठवर्णाकारमण्डलाय नमः । (४१०) ॐ ठपदान्तश्श्रूयमाणनादरूपाय नमः । ॐ ठकाराय नमः । ॐ डम्बरप्रभवाय नमः । ॐ डम्भाय नमः । ॐ डमड्डमरुकप्रियाय नमः । ॐ डमरोत्कटसन्नादाय नमः । ॐ डिम्भरूपस्वरूपकाय नमः । ॐ ढक्कानादप्रीतिकराय नमः । ॐ ढालितासुरसङ्कुलाय नमः । ॐ ढौकितामरसन्दोहाय नमः । (४२०) ॐ ढुण्ढिविघ्नेश्वरानुजाय नमः । ॐ णकारबिन्दुद्वन्द्वैक्य-ज्ञानेनाश्चर्यकारकाय नमः । ॐ णबिन्दुत्रयवन्मध्यबिन्द्वाश्लिष्टद्वि-वल्लिकाय नमः । ॐ तत्त्वज्ञाय नमः । ॐ तत्त्वगाय नमः । ॐ तीव्राय नमः । ॐ तपोरूपाय नमः । ॐ तपोमयाय नमः । ॐ त्रयीमयाय नमः । ॐ त्रिकालज्ञाय नमः । (४३०) ॐ त्रिमूर्तये नमः । ॐ त्रिगुणात्मकाय नमः । ॐ त्रिदशेशाय नमः । ॐ तारकारये नमः । ॐ तापघ्नाय नमः । ॐ तापसप्रियाय नमः । ॐ तुष्टिदाय नमः । ॐ तुष्टिकृते नमः । ॐ तीक्ष्णाय नमः । ॐ तपोरूपाय नमः । (४४०) ॐ त्रिकालविदे नमः । ॐ स्तोत्रे नमः । ॐ स्तव्याय नमः । ॐ स्तवप्रीताय नमः । ॐ स्तुतये नमः । ॐ स्तोत्राय नमः । ॐ स्तवप्रियाय नमः । ॐ तारेशपूजिताय नमः । ॐ तथ्याय नमः । ॐ तुम्बुरुनारदार्चिताय नमः । ॐ स्थिराय नमः । (४५१) ॐ स्थायिने नमः । ॐ स्थापकाय नमः । ॐ स्थूलसूक्ष्मप्रदर्शकाय नमः । ॐ स्थविष्ठाय नमः । ॐ स्थविराय नमः । ॐ स्थूलाय नमः । ॐ स्थानदाय नमः । ॐ स्थैर्यदाय नमः । ॐ स्थिराय नमः । (४६०) ॐ दान्ताय नमः । ॐ दयापराय नमः । ॐ दात्रे नमः । ॐ दुरितघ्नाय नमः । ॐ दुरासदाय नमः । ॐ दर्शनीयाय नमः । ॐ दयासाराय नमः । ॐ देवदेवाय नमः । ॐ दयानिधये नमः । ॐ दुराधर्षाय नमः । (४७०) ॐ दुर्विगाह्याय नमः । ॐ दक्षाय नमः । ॐ दर्पणशोभिताय नमः । ॐ दुर्धराय नमः । ॐ दानशूराय नमः । ॐ द्वादशाक्षाय नमः । ॐ द्विषड्भुजाय नमः । ॐ द्विषट्कर्णाय नमः । ॐ द्विषण्णेत्राय नमः । ॐ दीनसन्तापनाशनाय नमः । ॐ दन्दशूकेश्वराय नमः । (४८१) ॐ देवाय नमः । ॐ दिव्याय नमः । ॐ दिव्याकृतये नमः । ॐ दमाय नमः । ॐ दीर्घपृष्ठाय नमः । ॐ दीर्घबाहवे नमः । ॐ दीर्घदृष्टये नमः । ॐ दिवस्पतये नमः । ॐ दण्डाय नमः । (४९०) ॐ दमयित्रे नमः । ॐ दर्पाय नमः । ॐ देवसिंहाय नमः । ॐ दृढव्रताय नमः । ॐ दुर्लभाय नमः । ॐ दुर्गमाय नमः । ॐ दीप्ताय नमः । ॐ दुष्प्रेक्ष्याय नमः । ॐ दिव्यमङ्गलाय नमः । ॐ दुरोदरघ्नाय नमः । (५००) ॐ दुःखघ्नाय नमः । ॐ दुरारिघ्नाय नमः । ॐ दिशाम्पतये नमः । ॐ दुर्जयाय नमः । ॐ देवसेनेशाय नमः । ॐ दुर्ज्ञेयाय नमः । ॐ दुरतिक्रमाय नमः । ॐ दम्भाय नमः । ॐ दृप्ताय नमः । ॐ देवर्षये नमः । (५१०) ॐ दैवज्ञाय नमः । ॐ दैवचिन्तकाय नमः । ॐ धुरन्धराय नमः । ॐ धर्मपराय नमः । ॐ धनदाय नमः । ॐ धृतवर्धनाय नमः । ॐ धर्मेशाय नमः । ॐ धर्मशास्त्रज्ञाय नमः । ॐ धन्विने नमः । ॐ धर्मपरायणाय नमः । (५२०) ॐ धनाध्यक्षाय नमः । ॐ धनपतये नमः । ॐ धृतिमते नमः । ॐ धूतकिल्बिषाय नमः । ॐ धर्महेतवे नमः । ॐ धर्मशूराय नमः । ॐ धर्मकृते नमः । ॐ धर्मविदे नमः । ॐ ध्रुवाय नमः । ॐ धात्रे नमः । (५३०) ॐ धीमते नमः । ॐ धर्मचारिणे नमः । ॐ धन्याय नमः । ॐ धुर्याय नमः । ॐ धृतव्रताय नमः । ॐ धरित्रीमण्डलाध्यक्षाय नमः । ॐ धन्धान्यविवर्धनाय नमः । ॐ नित्योत्सवाय नमः । ॐ नित्यतृप्ताय नमः । ॐ निर्लेपाय नमः । (५४०) ॐ निश्चलात्मकाय नमः । ॐ निरवद्याय नमः । ॐ निराधाराय नमः । ॐ निष्कलङ्काय नमः । ॐ निरञ्जनाय नमः । ॐ निर्मायाय नमः । ॐ निरहङ्काराय नमः । ॐ निर्मोहाय नमः । ॐ निरुपद्रवाय नमः । ॐ नित्यानन्दाय नमः । (५५०) ॐ निरातङ्काय नमः । ॐ निष्प्रपञ्चाय नमः । ॐ निरामयाय नमः । ॐ निरवद्याय नमः । ॐ निरीहाय नमः । ॐ निर्द्वन्द्वाय नमः । ॐ निर्मलात्मकाय नमः । ॐ नीरजाक्षाय नमः । ॐ निर्जरेशाय नमः । ॐ निःसङ्गाय नमः । (५६०) ॐ निगमस्तुताय नमः । ॐ निष्कण्टकाय नमः । ॐ निरालम्बाय नमः । ॐ निष्प्रत्यूहाय नमः । ॐ निरुद्भवाय नमः । ॐ नित्याय नमः । ॐ नियतकल्याणाय नमः । ॐ निर्विकल्पाय नमः । ॐ निराश्रयाय नमः । ॐ नेत्रे नमः । (५७०) ॐ निधये नमः । ॐ नैकरूपाय नमः । ॐ निराकाराय नमः । ॐ नदीसुताय नमः । ॐ नानायुधधराय नमः । ॐ नाथाय नमः । ॐ नानासाम्राज्यदायकाय नमः । ॐ नागपाशधराय नमः । ॐ नन्दिने नमः । ॐ नारदादिसुपूजिताय नमः । (५८०) ॐ नाट्योत्सुकाय नमः । ॐ नदीसूनवे नमः । ॐ नगारिप्रियदायकाय नमः । ॐ नक्षत्ररूपिणे नमः । ॐ नेत्रे नमः । ॐ नित्योत्सुकाय नमः । ॐ नटाय नमः । ॐ निर्मलाय नमः । ॐ निरहङ्काराय नमः । (५९०) ॐ नित्याभीष्टफलप्रदाय नमः । ॐ पुलिन्दकन्यारमणाय नमः । ॐ पुरुजित्परमप्रियाय नमः । ॐ प्रत्यक्षमूर्तये नमः । ॐ प्रत्यक्षाय नमः । ॐ परेशाय नमः । ॐ पूर्णपुण्यदाय नमः । ॐ पुण्याकराय नमः । ॐ पुण्यरूपाय नमः । ॐ पुण्याय नमः । (६००) ॐ पुण्यपरायणाय नमः । ॐ पुण्योदयाय नमः । ॐ परस्मै ज्योतिषे नमः । ॐ पुण्यकृते नमः । ॐ पुण्यवर्धनाय नमः । ॐ परानन्दाय नमः । ॐ परतराय नमः । ॐ पुण्यकीर्तये नमः । ॐ पुरातनाय नमः । ॐ प्रसन्नरूपाय नमः । (६१०) ॐ प्राणेशाय नमः । ॐ पन्नगाय नमः । ॐ पापनाशनाय नमः । ॐ प्रणतार्तिहराय नमः । ॐ पूर्णाय नमः । ॐ पार्वतीनन्दनाय नमः । ॐ प्रभवे नमः । ॐ पूतात्मने नमः । ॐ पुरुषाय नमः । ॐ प्राणाय नमः । (६२०) ॐ प्रभवाय नमः । ॐ पुरुषोत्तमाय नमः । ॐ प्रसन्नाय नमः । ॐ परमश्रेष्ठाय नमः । ॐ पटवे नमः । ॐ परिबृढाय नमः । ॐ परस्मै नमः । ॐ परमात्मने नमः । ॐ परब्रह्मणे नमः । ॐ परर्द्धये नमः । (६३०) ॐ प्रियदर्शनाय नमः । ॐ पवित्राय नमः । ॐ पुष्टिदाय नमः । ॐ पूर्तये नमः । ॐ पिङ्गलाय नमः । ॐ पुष्टिवर्धनाय नमः । ॐ पापघ्नाय नमः । ॐ पाशहस्ताय नमः । ॐ प्रमत्तासुरशिक्षकाय नमः । ॐ पावनाय नमः । (६४०) ॐ पावकाय नमः । ॐ पूज्याय नमः । ॐ पूर्णानन्दाय नमः । ॐ परात्पराय नमः । ॐ पुष्कराय नमः । ॐ प्रवराय नमः । ॐ पूर्वस्मै नमः । ॐ पितृभक्तपुरोगमाय नमः । ॐ प्राणदाय नमः । ॐ प्राणिजनकाय नमः । (६५०) ॐ प्रतिष्ठायै नमः । ॐ पावकोद्भवाय नमः । ॐ परब्रह्मस्वरूपाय नमः । ॐ परमैश्वर्यकारणाय नमः । ॐ परर्द्धिदाय नमः । ॐ पुष्टिकराय नमः । ॐ प्रकाशात्मने नमः । ॐ प्रतापवते नमः । ॐ प्रज्ञापराय नमः । ॐ प्रकृष्टार्थाय नमः । ॐ पृथवे नमः । ॐ पृथुपराक्रमाय नमः । ॐ पूतनाजीवहरणजामात्रे नमः । ॐ पूर्णविग्रहाय नमः । ॐ फणीश्वराय नमः । ॐ फणिवराय नमः । ॐ फणामणिविभुषिताय नमः । ॐ फलदाय नमः । ॐ फलहस्ताय नमः । ॐ फुल्लाम्बुजविलोचनाय नमः । (६७०) ॐ फडुच्चाटितपापौघाय नमः । ॐ फणिलोकविभूषणाय नमः । ॐ फणिसङ्घादरापीत-निजवाणीरसामृताय नमः । ॐ बाहुलेयाय नमः । ॐ बृहद्रूपाय नमः । ॐ बलिष्ठाय नमः । ॐ बलवते नमः । ॐ बलिने नमः । ॐ ब्रह्मेशविष्णुरूपाय नमः । ॐ बुद्धये नमः । (६८०) ॐ बुद्धिमतां वराय नमः । ॐ बालरूपाय नमः । ॐ बृहद्गर्भाय नमः । ॐ ब्रह्मचारिणे नमः । ॐ बुधप्रियाय नमः । ॐ बहुश्रुताय नमः । ॐ बहुमताय नमः । ॐ ब्रह्मण्याय नमः । ॐ ब्राह्मणप्रियाय नमः । ॐ बलप्रमथनाय नमः । (६९०) ॐ ब्रह्मणे नमः । ॐ बहुरूपाय नमः । ॐ बहुप्रदाय नमः । ॐ बृहद्भानुतनूद्भूताय नमः । ॐ बृहद्बाहवे नमः । ॐ बिलेशयाय नमः । ॐ बहुबाहवे नमः । ॐ बलश्रीमते नमः । ॐ बहुदैत्यविनाशकाय नमः । ॐ बिलद्वारान्तरालस्थाय नमः । ॐ बृहच्छक्तिधनुर्धराय नमः । ॐ बालार्कद्युतिमते नमः । ॐ बालाय नमः । ॐ बृहद्वक्षसे नमः । ॐ बृहद्धनुषे नमः । ॐ बद्धतूणीरांसदेशाय नमः । ॐ बद्धपाशविमोचनाय नमः । ॐ भव्याय नमः । ॐ भोगीश्वराय नमः । ॐ भाव्याय नमः । (७१०) ॐ भवनाशाय नमः । ॐ भवप्रियाय नमः । ॐ भक्तिगम्याय नमः । ॐ भयहराय नमः । ॐ भावज्ञाय नमः । ॐ भजनप्रियाय नमः । ॐ भुक्तिमुक्तिप्रदाय नमः । ॐ भोगिने नमः । ॐ भगवते नमः । ॐ भाग्यवर्धनाय नमः । (७२०) ॐ भ्राजिष्णवे नमः । ॐ भावनाय नमः । ॐ भर्त्रे नमः । ॐ भीमाय नमः । ॐ भीमपराक्रमाय नमः । ॐ भूतिदाय नमः । ॐ भूतिकृते नमः । ॐ भोक्त्रे नमः । ॐ भूतात्मने नमः । ॐ भुवनेश्वराय नमः । (७३०) ॐ भावुकाय नमः । ॐ भीकराय नमः । ॐ भीष्माय नमः । ॐ भावकेष्टाय नमः । ॐ भवोद्भवाय नमः । ॐ भवतापप्रशमनाय नमः । ॐ भोगवते नमः । ॐ भूतभावनाय नमः । ॐ भोज्यप्रदाय नमः । ॐ भ्रान्तिनाशाय नमः । (७४०) ॐ भानुमते नमः । ॐ भुवनाश्रयाय नमः । ॐ भूरिभोगप्रदाय नमः । ॐ भद्राय नमः । ॐ भजनीयाय नमः । ॐ भिषग्वराय नमः । ॐ भक्तेष्टदाननिरताय नमः । ॐ भार्गवाद्यभिवन्दिताय नमः । ॐ महासेनाय नमः । ॐ महोदराय नमः । (७५०) ॐ महाशक्तये नमः । ॐ महाद्युतये नमः । ॐ महाबुद्धये नमः । ॐ महावीर्याय नमः । ॐ महोत्साहाय नमः । ॐ महाबलाय नमः । ॐ महाभोगाय नमः । ॐ महामायिने नमः । ॐ मेधाविने नमः । ॐ मेखलिने नमः । (७६०) ॐ महते नमः । ॐ मुनिस्तुताय नमः । ॐ महामान्याय नमः । ॐ महानन्दाय नमः । ॐ महायशसे नमः । ॐ महोर्जिताय नमः । ॐ माननिधये नमः । ॐ मनोरथफलप्रदाय नमः । ॐ महोदयाय नमः । ॐ महापुण्याय नमः । (७७०) ॐ महाबलपराक्रमाय नमः । ॐ मानदाय नमः । ॐ मतिदाय नमः । ॐ मालिने नमः । ॐ मुक्तामालाविभूषणाय नमः । ॐ मनोहराय नमः । ॐ महामुख्याय नमः । ॐ महर्द्धये नमः । ॐ मूर्तिमते नमः । ॐ मुनये नमः । (७८०) ॐ महोत्तमाय नमः । ॐ महोपायाय नमः । ॐ मोक्षदाय नमः । ॐ मङ्गलप्रदाय नमः । ॐ मुदाकराय नमः । ॐ मुक्तिदात्रे नमः । ॐ महाभोगाय नमः । ॐ महोरगाय नमः । ॐ यशस्कराय नमः । ॐ योगयोनये नमः । (७९०) ॐ योगिष्ठाय नमः । ॐ यमिनां वराय नमः । ॐ यशस्विने नमः । ॐ योगपुरुषाय नमः । ॐ योग्याय नमः । ॐ योगनिधये नमः । ॐ यमिने नमः । ॐ यतिसेव्याय नमः । ॐ योगयुक्ताय नमः । ॐ योगविदे नमः । (८००) ॐ योगसिद्धिदाय नमः । ॐ यन्त्राय नमः । ॐ यन्त्रिणे नमः । ॐ यन्त्रज्ञाय नमः । ॐ यन्त्रवते नमः । ॐ यन्त्रनायकाय नमः । ॐ यातनारहिताय नमः । ॐ योगिने नमः । ॐ योगीशाय नमः । ॐ योगिनां वराय नमः । (८१०) ॐ रमणीयाय नमः । ॐ रम्यरूपाय नमः । ॐ रसज्ञाय नमः । ॐ रसभावुकाय नमः । ॐ रञ्जनाय नमः । ॐ रञ्जिताय नमः । ॐ रागिणे नमः । ॐ रुजुराये नमः । (८२०) ॐ रुद्रसम्भवाय नमः । ॐ रणप्रियाय नमः । ॐ रणोदाराय नमः । ॐ रागद्वेषविनाशनाय नमः । ॐ रत्नार्चीरुचिराय नमः । ॐ रम्याय नमः । ॐ रूपलावण्यविग्रहाय नमः । ॐ रत्नाङ्गदधराय नमः । ॐ रत्नभूषणाय नमः । ॐ रमणीयकाय नमः । (८३०) ॐ रुचिकृते नमः । ॐ रोचमानाय नमः । ॐ रञ्जिताय नमः । ॐ रोगनाशनाय नमः । ॐ राजीवाक्षाय नमः । ॐ राजराजाय नमः । ॐ रक्तमाल्यानुलेपनाय नमः । ॐ राजद्वेदागमस्तुत्याय नमः । ॐ रजःसत्त्वगुणान्विताय नमः । ॐ रजनीशकलारम्याय नमः ।(८४०) ॐ रत्नकुण्डलमण्डिताय नमः । ॐ रत्नसन्मौलिशोभाढ्याय नमः । ॐ रणन्मञ्जीरभूषणाय नमः । ॐ रसवक्त्रधराय नमः । ॐ रागिणे नमः । ॐ रञ्जनीयपदाम्बिजाय नमः । ॐ लोकैकनाथाय नमः । ॐ लोकेशललिताय नमः । ॐ लोकनायकाय नमः । ॐ लोकशिक्षाय नमः । (८५०) ॐ लोकरक्षाय नमः । ॐ लोकलोचनरञ्जिताय नमः । ॐ लोकचूडामणये नमः । ॐ लोलाय नमः । ॐ लावण्याय नमः । ॐ लयवर्जिताय नमः । ॐ लोकाध्यक्षाय नमः । ॐ लोकवन्द्याय नमः । ॐ लोकोत्तरगुणकराय नमः । ॐ लोकबन्धवे नमः । (८६०) ॐ लोकदात्रे नमः । ॐ लोकत्रयमहाहिताय नमः । ॐ लोकातीतगुणोपेताय नमः । ॐ लोकालोकस्वरूपवते नमः । ॐ लास्यप्रियाय नमः । ॐ लास्यदर्शिने नमः । ॐ लताकुसुमपूजिताय नमः । ॐ लब्धमानाय नमः । ॐ लब्धरसाय नमः । ॐ लब्धहर्षाय नमः । (८७०) ॐ लसत्कराय नमः । ॐ वरिष्ठाय नमः । ॐ वरदाय नमः । ॐ वन्द्याय नमः । ॐ विशिष्टाय नमः । ॐ विक्रमिणे नमः । ॐ विभवे नमः । ॐ विबुधाग्रचराय नमः । ॐ विश्वस्मै नमः । ॐ विकल्पपरिवर्जिताय नमः । ॐ विपाशाय नमः । (८८१) ॐ विगतातङ्काय नमः । ॐ विचित्राङ्गाय नमः । ॐ विरोचनाय नमः । ॐ विद्याधराय नमः । ॐ विशुद्धात्मने नमः । ॐ वेदाङ्गाय नमः । ॐ विबुधप्रियाय नमः । ॐ वचस्कराय नमः । ॐ व्यापकाय नमः । (८९०) ॐ विज्ञानिने नमः । ॐ विनयान्विताय नमः । ॐ विद्वत्तमाय नमः । ॐ विरोधिघ्नाय नमः । ॐ वीराय नमः । ॐ वीरासनाय नमः । ॐ विधये नमः । ॐ वीतरागाय नमः । ॐ विनीतात्मने नमः । ॐ वेदगर्भाय नमः । (९००) ॐ विराड्वपुषे नमः । ॐ विश्वदीप्तये नमः । ॐ विशालाक्षाय नमः । ॐ विजितात्मने नमः । ॐ विभावनाय नमः । ॐ वेदवेद्याय नमः । ॐ विधेयात्मने नमः । ॐ वीतदोषाय नमः । ॐ वसुप्रदाय नमः । ॐ विश्वकर्मणे नमः । (९१०) ॐ वीतभयाय नमः । ॐ वागीशाय नमः । ॐ वासवार्चिताय नमः । ॐ वेदविदे नमः । ॐ विश्वरूपाय नमः । ॐ विश्वमूर्तये नमः । ॐ विश्वरूपाय नमः । ॐ वरासनाय नमः । ॐ वाग्मिने नमः । ॐ वेदधराय नमः । ॐ विदुषे नमः । (९२०) ॐ विशाखाय नमः । ॐ विमलाय नमः । ॐ वटवे नमः । ॐ वीरचूडामणये नमः । ॐ वीरविजयाय नमः । ॐ विबुधाश्रयाय नमः । ॐ विजयिने नमः । ॐ विनयिने नमः । ॐ वेत्रे नमः । ॐ वरीयसे नमः । (९३०) ॐ विरजसे नमः । ॐ वसवे नमः । ॐ वीरघ्नाय नमः । ॐ विज्वराय नमः । ॐ वेद्याय नमः । ॐ वेगवते नमः । ॐ वीर्यवते नमः । ॐ वशिने नमः । ॐ वरशीलाय नमः । ॐ वरगुणाय नमः । (९४०) ॐ विशोकाय नमः । ॐ वज्रधारकाय नमः । ॐ शरजन्मने नमः । ॐ शक्तिधराय नमः । ॐ शत्रुघ्नाय नमः । ॐ शिखिवाहनाय नमः । ॐ श्रीमते नमः । ॐ शिष्टाय नमः । ॐ शुचये नमः । ॐ शुद्धाय नमः । (९५०) ॐ शाश्वताय नमः । ॐ श्रुतिसागराय नमः । ॐ शरण्याय नमः । ॐ शुभदाय नमः । ॐ शर्मणे नमः । ॐ शिष्टेष्टाय नमः । ॐ शुभलक्षणाय नमः । ॐ शान्ताय नमः । ॐ शूलधराय नमः । ॐ श्रेष्ठाय नमः । (९६०) ॐ शुद्धात्मने नमः । ॐ शङ्कराय नमः । ॐ शिवाय नमः । ॐ शितिकण्ठात्मजाय नमः । ॐ शूराय नमः । ॐ शान्तिदाय नमः । ॐ शोकनाशनाय नमः । ॐ शूरसंहारदक्षाय नमः । ॐ शिष्टाचारप्रपूजिताय नमः । ॐ षाण्मातुराय नमः । (९७०) ॐ षण्मुखाय नमः । ॐ षड्गुणैश्वर्यसम्युताय नमः । ॐ षट्चक्रस्थाय नमः । ॐ षडूर्मिघ्नाय नमः । ॐ षडङ्गश्रुतिपारगाय नमः । ॐ षड्भावरहिताय नमः । ॐ षट्काय नमः । ॐ षट्शास्त्रस्मृतिपारगाय नमः । ॐ षड्वर्गरूपाय नमः । ॐ षड्ग्रीवाय नमः । (९८०) ॐ षडरिघ्नाय नमः । ॐ षडाश्रयाय नमः । ॐ षट्किरीटधराय श्रीमते नमः । ॐ षडाधाराय नमः । ॐ षट्क्रमाय नमः । ॐ षट्कोणमध्यनिलयाय नमः । ॐ षण्डत्वपरिहारकाय नमः । ॐ सेनान्ये नमः । ॐ सुभगाय नमः । ॐ स्कन्दाय नमः । (९९०) ॐ सुरानन्दाय नमः । ॐ सतां गतये नमः । ॐ सुब्रह्मण्याय नमः । ॐ सुराध्यक्षाय नमः । ॐ सर्वज्ञाय नमः । ॐ सर्वगाय नमः । ॐ सुखिने नमः । ॐ सुलभाय नमः । ॐ सिद्धिदाय नमः । ॐ सौम्याय नमः । (१०००) ॐ सिद्धेशाय नमः । ॐ सिद्धिसाधनाय नमः । ॐ सिद्धार्थाय नमः । ॐ सिद्धसङ्कल्पाय नमः । ॐ सिद्धाय नमः । ॐ साधवे नमः । ॐ सुरेश्वराय नमः । ॐ सुभुजाय नमः । ॐ सर्वविदे नमः । ॐ साक्षिणे नमः । (१०१०) ॐ सुप्रसादाय नमः । ॐ सनातनाय नमः । ॐ सुधापतये नमः । ॐ स्वयञ्ज्योतिषे नमः । ॐ स्वयम्भुवे नमः । ॐ सर्वतोमुखाय नमः । ॐ समर्थाय नमः । ॐ सत्कृतये नमः । ॐ सूक्ष्माय नमः । ॐ सुमुखाय नमः । (१०२०) ॐ सुखदाय नमः । ॐ सुहृदे नमः । ॐ सुप्रसन्नाय नमः । ॐ सुरश्रेष्ठाय नमः । ॐ सुशीलाय नमः । ॐ सत्यसाधकाय नमः । ॐ सम्भाव्याय नमः । ॐ सुमनस्सेव्याय नमः । ॐ सकलागमपारगाय नमः । ॐ सुव्यक्ताय नमः । (१०३०) ॐ सच्चिदानन्दाय नमः । ॐ सुवीराय नमः । ॐ सुजनाश्रयाय नमः । ॐ सर्वलक्षणसम्पन्नाय नमः । ॐ सत्यधर्मपरायणाय नमः । ॐ सर्वदेवमयाय नमः । ॐ सत्वाय नमः । ॐ सदामृष्टान्नदायकाय नमः । ॐ सुधन्वने नमः । ॐ सुमतये नमः । (१०४०) ॐ सत्याय नमः । ॐ सर्वविघ्नविनाशनाय नमः । ॐ सर्वदुःखप्रशमनाय नमः । ॐ सुकुमाराय नमः । ॐ सुलोचनाय नमः । ॐ सुग्रीवाय नमः । ॐ सुशिरसे नमः । ॐ साराय नमः । ॐ सुराराध्याय नमः । ॐ सुरारिघ्ने नमः । (१०५०) ॐ सुविक्रमाय नमः । ॐ सर्ववर्णाय नमः । ॐ सर्पराजाय नमः । ॐ सदाशुचये नमः । ॐ सप्तार्चिर्भुवे नमः । ॐ सुरवराय नमः । ॐ सर्वायुधविशारदाय नमः । ॐ सर्वलोकैकनाथाय नमः । ॐ साम्बाराधनतत्पराय नमः । ॐ हस्तिचर्माम्बरसुताय नमः । (१०६०) ॐ हस्तिवाहनसेविताय नमः । ॐ हस्त्यश्ववाहनाय नमः । ॐ हस्तिने नमः । ॐ हस्तदैत्यहरानुजाय नमः । ॐ हकाररूपिणे नमः । ॐ हंसात्मने नमः । ॐ हलभृते नमः । ॐ हरिपुजिताय नमः । ॐ हविषे नमः । ॐ हरिद्रावर्णाय नमः । (१०७०) ॐ हृताघाय नमः । ॐ हस्तिताननाय नमः । ॐ हेमभूषाय नमः । ॐ हरिद्वर्णाय नमः । ॐ हृष्टिदाय नमः । ॐ हृष्टिवर्धनाय नमः । ॐ हेलाद्रिविध्वंसकारिणे नमः । ॐ हुङ्कारहृतकिल्बिषाय नमः । ॐ हिमाद्रिजातनूद्भवाय नमः । ॐ हरिकेशाय नमः । (१०८०) ॐ हिरण्मयाय नमः । ॐ हृद्याय नमः । ॐ हृष्टाय नमः । ॐ हरिसखाय नमः । ॐ हंसाय नमः । ॐ हंसगतये नमः । ॐ हविषे नमः । ॐ हिरण्यवर्णाय नमः । ॐ हितकृते नमः । ॐ हर्षदाय नमः । (१०९०) ॐ हेमभूषणाय नमः । ॐ हरप्रियाय नमः । ॐ हितकराय नमः । ॐ हतपापाय नमः । ॐ हरोद्भवाय नमः । ॐ क्षेमदाय नमः । ॐ क्षेमकृते नमः । ॐ क्षेम्याय नमः । ॐ क्षेत्रज्ञाय नमः । ॐ क्षेत्रवर्जिताय नमः । (११००) ॐ क्षेत्रपालाय नमः । ॐ क्षमाधाराय नमः । ॐ क्षेम्याय नमः । ॐ क्षेत्राय नमः । ॐ क्षमाकराय नमः । ॐ क्षुत्तृड्घ्नाय नमः । ॐ क्षान्तिदाय नमः । ॐ क्षेमिने नमः । ॐ क्षितिभूषाय नमः । ॐ क्षमाश्रयाय नमः । (१११०) ॐ क्षालिताघाय नमः । ॐ क्षितिधराय नमः । ॐ क्षीणसंरक्षणक्षमाय नमः । (१११३) ॥ श्रीवल्लीदेवसेनासमेतश्रीप्रसन्नज्ञानशिवसुब्रह्मण्यस्वामिने नमः ॥ श्रीषण्मुख अथवा अधोमुखसहस्रनामस्तोत्रम् एवम् नामावलिः Prepared by Srikrishnan
% Text title            : subrahmaNya sahasranaama stotra and nAmAvaliH
% File name             : subrahmaNyamAtRikAmAlikAsahasranAmAvaliH.itx
% itxtitle              : subrahmaNyasahasranAmastotram nAmAvalishcha subrahmaNya mAtRikAmAlikA sahasranAmastotram (achintyashaktiranaghastvakShobhyastvaparAjitaH)
% engtitle              : subrahmaNya sahasranAma stotram and namavalih
% Category              : sahasranAma, subrahmanya, stotra, sahasranAmAvalI
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : hinduism/religion
% Proofread by          : Srikrishnan
% Description-comments  : From skaanda mahaapuraaNa
% Latest update         : November 21, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org