श्रीकृष्णस्य परिकरपरिचयविंशतिका स्तोत्रम्

श्रीकृष्णस्य परिकरपरिचयविंशतिका स्तोत्रम्

दण्डके रामचन्द्रं हि दृष्ट्वामुनिगणाश्चये । मुग्धासन्तस्यसंस्पर्शं कर्तुमिच्छन् सतत्पराः ॥ १॥ तान्नाह भगवान् सर्वान् कृष्णरूपे भविष्यति । परमानन्दरूपोहि नन्दगोप इति स्मृतः ॥ २॥ श्रीकृष्णं पुत्ररूपेण प्राप्य नन्दो सुनन्दितः । मुक्तिदात्री यशोदात्री ब्रह्मविद्याऽपि सापरा ॥ ३॥ नन्दस्य पत्निरूपेण यशोदाऽभूत् व्रजेश्वरी । (यो नन्दो परमानन्द यशोदा मुक्ति गेहिनी) श्रुति ब्रह्मजा प्रणवा विद्या देवकी चेति विश्रुता ॥ ४॥ समष्टि निगमोवेदः वसुदेवश्च जायतः । सर्वेवेदास्तुवन्ति यं नित्यमेव समादरात् ॥ ५॥ स एव भगवान् कृष्णः समुत्तीर्ण महीतले । दिव्यगोपाङ्गनाभिश्च क्रीडन्तं स चचारह ॥ ६॥ नाना श्रुतिगणा सर्वे वनवासी मुनीश्वराः । गावो गोप्यश्चते सर्वे सञ्जाताधरणी तले ॥ ७॥ गोकुलं वन वैकुण्ठं द्रुमासन्ति तपस्विनः । उपासनाकाण्डरूपा श्रुतिद्व्येष्ट सहस्र का ॥ ८॥ सताधिक्यः ततोष्टौ च ऋचोपनिषदस्यह । दया तु रोहिणी देवी सत्यभामाधराऽभवत् ॥ ९॥ सुदामा समता जातः सत्यऽक्रूरो बभूवह । दमश्चोद्धव सञ्जातः भुतलेति च सुश्रुमः ॥ १०॥ शङ्खस्तु सोदरोलक्ष्या लक्ष्मीरूपो न संशयः । विष्णुरूपश्च तं प्राहुः सिन्धौ घोष करोति सः ॥ ११॥ गोपीनां गृहमध्येतु दधिभाण्डानि विखण्डिताः । तौ जातौदधि सिन्धु क्षीरसिन्धुश्च कथ्यते ॥ १२॥ ईशनिर्मित लोकस्तु चक्ररूपेण भ्राम्यते । ईशोत्पन्नस्य लोकस्य प्राणवायु सुचर्मकम् ॥ १३॥ अग्नितुल्यः महेशोहि खड्गरूपेण वर्तते । कश्यपोलूखलम्भुत्त्वा भगवन्तमवापह ॥ १४॥ अदिति देव माता तु रज्जुरूपेण वर्तते । सर्वशत्रु निहन्त्री सा गदा काली बभूवह ॥ १५॥ माया शार्ङ्गधनुश्चैव ईशहस्ते बभूवह । मायाऽविद्या ऋतुकाल तस्य देवस्य भोजनम् ॥ १६॥ ईशहस्ते जीव सङ्घं कमलमपि शोभितम् । गोपालो कृष्णरूपश्च साक्षात् माया वर्पुधरः ॥ १७॥ सुदुर्बोधं कुहकन्ते मायया मोहितं जगत् । गरुडोवटभाण्डिर सुदामा नारदोऽभवत् ॥ १८॥ वृन्दा भक्ति क्रिया बुद्धि तस्यदेवस्य जायते । अधासुरस्तुपापोऽभूत क्रोधलोभादि राक्षसाः ॥ १९॥ मत्सर मुष्टिकश्चैव द्वेषचाणूर एव च । दर्पकुवलयापीड वकगर्वोनसंशयः । कलिकंसोऽभवत् तत्र अधस्तु व्याधिरेव च ॥ २०॥ इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं परिकरपरिचयविशन्तिका स्तोत्रं सम्पूर्णम् । Proofread by Paresh Panditrao
% Text title            : Bhagavatah Shri Krishnasya Parikaraparichaya Vimshatika Stotram
% File name             : parikaraparichayaviMshatikAstotram.itx
% itxtitle              : shrIkRiShNasya parikaraparichayaviMshatikAstotram (umeshvarAnandatIrthavirachitam)
% engtitle              : parikaraparichayaviMshatikAstotram
% Category              : vishhnu, krishna, stotra, viMshati
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Swami Umeshvaranand Tirth
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : Ganga Mahatmya And Stuti Ratnavali By Swami Umeshvaranand Tirth
% Indexextra            : (Scan
% Latest update         : July 8, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org