श्रीचिदम्बरेश्वर श्रीनटराज देवालयस्थ देवतास्तोत्रम्
श्रीगणेशाय नमः ।
श्रीचित्सभेशाय नमः ।
१. श्रीगोपुराणि
(दक्षिणगोपुरद्वारे अन्नमयप्राकारे)
नमामि गोपुराणीश तव मूर्त्यन्तराण्यहम् ।
तान्यद्य परया भक्त्या मुक्तये नटनायक ॥ १॥
२. श्रीनन्दिकेशः
नन्दिकेश महाभाग शिवध्यानपरायण ।
नटेश्वरस्य सेवार्थं अनुज्ञां देहि मे प्रभो ॥ २॥
३. श्रीजयः (गोपुरपश्चिमे)
जयाय जयरूपाय गोपुरद्वारवर्तिने ।
जयदाय नटेशानरक्षकाय नमोऽस्तुते ॥ ३॥
४. श्रीविजयः (गोपुरपूर्वे)
विजयाय नमस्तुभ्यं भक्तेभ्यो जयदायिने ।
महेशानद्वाररक्षां कुर्वते भयहारिणे ॥ ४॥
५. श्रीगणेशः श्रीगुरुमूर्तिश्च (प्राणमयप्राकारे)
दक्षिणाभिमुखं देवं गणेशं गुरुमेव च ।
विघ्नानां च विनाशाय विद्यालाभाय च स्तुमः ॥ ५॥
६. श्रीकार्तिकेयः
उत्तराभिमुखं स्कन्दं कार्तिकेयं महाप्रभुम् ।
वन्दे वाञ्छितलाभाय स्त्रीणां स्तन्यप्रवर्धकम् ॥ ६॥
७. श्रीमूषिकेन्द्रः
मूषिकेन्द्र नमस्तुभ्यं गणेशध्यानतत्पर ।
गणेशस्य तु सेवार्थं अनुज्ञां दातुमर्हसि ॥ ७॥
८. श्रीत्रिशिवविनायकः (मुक्कुरुणिविनायकः)
त्रिशिवाख्यं च वरदं गजवक्त्रं सलड्डुकम् ।
दन्तपाशाङ्कुशधरं वन्देऽहं गणनायकम् ॥ ८॥
९. श्रीविजयसुब्रह्मण्यः (पश्चिमगोपुरदक्षिणभागे)
मयूरपिञ्छावलिमेघपङ्क्तेः मध्ये सहस्रांशुमिवोदयन्तम् ।
रिपौ च पाणौ च सदा दधन्तं दण्डं भजे षण्मुखमाशुतुष्टिदम् ॥ ९॥
१०. श्रीकल्पकविनायकः
यस्य स्मरणमात्रेण सर्वाः सिद्ध्यन्ति सिद्धयः ।
तं गणेशमहं वन्दे कल्पकाख्यमहर्निशम् ॥ १०॥
११. श्रीबिल्ववृक्षः
मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।
अग्रतः शिवरूपाय बिल्ववृक्षाय ते नमः ॥ ११॥
१२. श्रीनागराजः
नागराज नमस्तुभ्यं देवेश हरभूषण ।
विष्णुतल्प नमस्तेऽस्तु सर्पभीतिं निवारय ॥ १२॥
१३. श्रीवीरसुब्रह्मण्यः
वल्लीसेनायुतं मुत्तुकुमारस्वामिनं प्रभुम् ।
तारकघ्नं महावीरसुब्रह्मण्यमुपास्महे ॥ १३॥
१४. श्रीसुन्दरेश्वरः
सुन्दरं मथुरानाथं मीनाक्षीवल्लभं शिवम् ।
चिदम्बरकृतावासं सुन्दरेशमहं भजे ॥ १४॥
१५. श्रीमीनाक्षी
जगदम्ब कदम्बमूलवासे कमलामोदमुखेन्दुमन्दहासे ।
मदमन्दिरचारुदृग्विलासे मयि मीनाक्षि कृपां विधेहि दासे ॥ १५॥
१६. श्री आदिविनायकः
शिवगङ्गापश्चिमस्थदेशे स्तम्भैकसंयुते ।
मण्डपे संस्थितं आदिविनायकमुपास्महे ॥ १६॥
१७. श्रीचित्रगुप्तः
चित्रगुप्तं महाप्राज्ञं साक्षिणं सर्वदेहिनाम् ।
नमामि धर्माधर्मज्ञं लेखिनीपत्रधारिणम् ॥ १७॥
१८. श्रीचक्रं
श्रीचक्रं शिवशक्त्यैक्यबोधकं यन्त्रमुत्तमम् ।
सर्वकामप्रदं सर्वदेवेड्यं समुपास्महे ॥ १८॥
१९. श्रीनन्दिकेशः
नन्दिकेश महाभाग शिवाध्यानपरायण ।
महेश्वर्या सुसेवार्थं अनुज्ञां दातुमर्हसि ॥ १९॥
२०. शिवकामसुन्दरी
श्रीमच्चित्पुरवासिनीं भयहरां ज्ञानप्रदां निर्मलां
श्रीमद्ब्रह्मनुतां चराचरमयीं सर्वार्थसिद्धिप्रदाम् ।
श्रीमत्षण्मुख विघ्नराजजननीं श्रीमज्जगन्मोहिनीं
कल्हारं जपसृच्छुकां करिकरां देवीं सदा भावये ॥ २०॥
२१. सप्त मातरः
ब्राहीं माहेश्वरीं चैव कौमारीं वैष्णवीं तथा ।
वाराहीं नारसिंहीं च चामुण्डां प्रणमाम्यहम् ॥ २१॥
२२. श्रीचण्डिकेशी
शिवकामीपदाम्भोज परिस्फुरितमानसे ।
देव्यास्सेवाफलं देहि चण्डिकेशि नमोऽस्तुते ॥ २२॥
२३. श्रीपृथ्वीदेवी
इक्षुशालियवसस्यफलाढ्यां पारिजाततरुशोभितमूले ।
स्वर्णरत्नमणिमण्डपमध्ये चिन्तये सकललोकधरित्रीम् ॥ २३॥
२४. श्रीदुर्गा
शरणमसि सुराणां सिद्धविद्याधराणां
मुनिमनुजपशूनां दस्युभिस्त्रासितानाम् ।
नृपतिगृहगतानां व्याधिभिः पीडितानां
त्वमसि शरणमेका देवि दुर्गे नमस्ते ॥ २४॥
२५. श्रीमयूरेशः
मयूरेश नमस्तुभ्यं षण्मुखध्यानतत्पर ।
षण्मुखस्य सुसेवार्थमनुज्ञां दातुमर्हसि ॥ २५॥
२६. श्री पाण्ड्यनायकषण्मुखसुब्रह्मण्यः
षड्वक्त्रं शिखिवाहनं त्रिणयनं चित्राम्बरालङ्कृतं
वज्रं शक्तिमसिं त्रिशूलमभयं खेटं-धनुश्चक्रकम् ।
पाशं कुक्कुटमङ्कुशञ्च वरदं दोर्भिर्दधानं सदा
वन्दे सिद्धिदमीश्वरं शिवसुतं स्कन्दं सुराराधितम् ॥ २६॥
२७. श्रीवल्ली
स्कन्दस्य दक्षिणेभागे स्थितां पङ्कजधारिणीम् ।
दक्षे लम्बकरां श्यामां वल्लीदेवीं नमाम्यहम् ॥ २७॥
२८. श्रीदेवसेना
गुहस्य वामभागस्थां पीतामुत्पलधारिणीम् ।
वामे लम्बकरां देवसेनां नौमि महेन्द्रजाम् ॥ २८॥
२९. श्रीजयमुरुकः वर्।(श्रीजयमुरुगः)
जयानन्दभूमन् जयापारधामन् जयामोघकीर्ते जयानन्दमूर्ते ।
जयानन्दसिन्धो जयाशेषबन्धो जय त्वं सदा मुक्तिदानेशसूनो ॥
३०. श्रीयमधर्मराजः
नीलपर्वतसङ्काशं रुद्रकोपसमुद्भवम् ।
कालं दण्डधरं देवं वैवस्वतमुपास्महे ॥ ३०॥
३१. श्रीकालहस्तीश्वरः
दत्त्वा स्वमांसनयने शबरोऽपि यस्मै
दूरीचकार महतीमपि कालभीतिम् ।
वन्दे समस्तसुलभार्चितपादपद्मं
तं कालहस्तीशमपारदयाम्बुराशिम् ॥ ३१॥
३२. श्रीज्ञानप्रसूनाम्बिका
श्रीकालहस्तीश्वरधर्मपत्नीं ज्ञानप्रसूनेति प्रसिद्धनाम्नीम् ।
ज्ञानप्रदात्रीं परमाम्बिकां तां ज्ञानेष्टसिद्ध्यै प्रणमामि नित्यम् ॥ ३२॥
३३. नव लिङ्गानि
मध्यस्थं भास्करेशं च पश्चादङ्गारकप्रभुम् ।
शुक्रेशं सोमनाथं च बुधेशं च गुरुप्रभुम् ॥ ३३॥
शनीशं राहुनाथं च केत्वीशं च सदा नुमः ।
एतेषां पूजनेनैव प्रसीदेयुः नव ग्रहाः ॥ ३४॥
३४. श्रीशिवगङ्गा
विष्णोस्सङ्गतिकारिणी शिवजटाजूटाटवीचारिणी
प्रायश्चित्तनिवारिणी जलकणैः पुण्यौघविस्तारिणी ।
भूभृत्कन्दरदारिणी निजजले मज्जज्जनोत्तारिणी
श्रीमचित्खपुरे स्थिता विजयते गङ्गा शिवेत्यन्विता ॥ ३५॥
३५. श्रीजम्बुकेश्वरः
श्रुत्यन्तवेद्य महसे किटिहंसरूप
गोविन्दपद्मभवमृग्यपदाब्जमूर्धन् ।
भूयोऽखिलाण्डरमणी सततार्चिताय
श्रीजम्बुमूलनिलयाय नमोभवाय ॥ ३६॥
३६. श्रीतीर्थालोकन गणपतिः
स जयति सिन्धुरवदनो देवो यत्पादपङ्कजस्मरणम् ।
वासरमणिरिव तमसां राशिं नाशयति विघ्नानाम् ॥ ३७॥
३७. श्रीकैलासनाथः
कैलासनाथं विश्वेशं पार्वती प्राणवल्लभम् ।
कृपालुं जगदाधारं वन्दे सम्पत्समृद्धिदम् ॥ ३८॥
३८. श्रीसोमनाथः
वेदोपगीतं भुवनेश्वरं च तेजस्विनं सर्वमनोऽभिरामम् ।
श्रीसोमनाथं भुजगेन्द्रहारं नमामि नित्यं भवरोगवैद्यम् ॥ ३९॥
३९. श्रीगङ्गाधरः
गङ्गाधरं दशभुजं सर्वाभरणभूषितम् ।
नीलग्रीवं शशाङ्काङ्कं नागभूषणमाश्रये ॥ ४०॥
४०.श्रीकलाधरः
कलाधरं महादेवं कालकालं कलाप्रियम् ।
शिवं शिवकरं नॄणां शिवाजानिमुपास्महे ॥ ४१॥
४१. श्रीपुरुषमृगः
ध्यानैकनिष्ठं पुरुषमृगं भक्तवरं परम् ।
शिवसेवाफलप्राप्त्यै नमामि शिवसन्निधौ ॥ ४२॥
४२. श्रीआम्रफलविनायकः
विनायकं चाम्रफलहस्तं विघ्नविनाशकम् ।
भक्तेभ्यः फलदातारं नमामि द्विरदाननम् ॥ ४३॥
४३. अन्नपूर्णा
अन्नपूर्णे विशालाक्षि विश्वनाथमनोहरि ।
चिदम्बरकृतावासे सम्पूर्णान्नं प्रयच्छ मे ॥ ४४॥
४४. श्री सोमास्कन्दमूर्तिः
सोमास्कन्दं सुरपतिं सुन्दरं सोमशेखरम् ।
सोमसूर्याग्निनेत्राणि दधतं प्रणमाम्यहम् ॥ ४५॥
४५. श्रीशरभेश्वरः
योऽभूत्सहस्रांशु शतप्रकाशः नृसिंहसङ्क्षोभसमात्तरूपः ।
सपक्षिसिंहाकृतिरष्टपादः पायादपायात् शरभेश्वरो नः ॥ ४६॥
४६. श्रीऊर्ध्वताण्डवमूर्तिः
वाणीवल्लभ वन्द्य वैभवयुतं वन्दारुचिन्तामणिं
वाताशाधिपभूषणं वरकृपावारान्निधिं श्रीकरम् ।
ऊर्ध्वानन्दविशेषताण्डवकरं श्रीनृत्तराजेश्वरं
वामाङ्गाप्तवराङ्गनं शिवमहं श्रीमन्नटेशं भजे ॥ ४७॥
४७. श्रीकालसंहारमूर्तिः
मृत्युञ्जय महारुद्र पाहि मां शरणागतम् ।
जन्ममृत्युजरारोगैः पीडितं कर्मबन्धनैः ॥ ४८॥
४८. श्रीमहालक्ष्मीः
भूयाद्भूयो द्विपद्माभयवरदकरा तप्तकार्तस्वराभा
शुभ्राभ्राभेभयुग्मद्वयकरधृतकुम्भाद्भिरासिच्यमाना ।
रत्नौघाबद्धमौलिः विमलतरदुकूलार्तवालेपनाढ्या
पद्माक्षी पद्मनाभोरसि कृतवसतिः पद्मगा श्रीः श्रियै नः ॥ ४९॥
४९. श्रीदण्डायुधपाणिः
दण्डायुधधरं देवं मुरुकं बालरूपिणम् ।
सुब्रह्मण्यं सुरेशानं सर्वाभीष्टप्रदं भजे ॥ ५०॥
५०. श्रीआकाशविनायकः (द्रविडवेदप्रदर्शकः)
आकाशस्थं द्राविडश्रीवेदसन्दर्शकं प्रभुम् ।
महागणपतिं चोलभूपवन्दितमाश्रये ॥ ५१॥
५१. श्रीमायूरनाथः
मयूररूपधारिण्या पार्वत्या पूजितं शिवम् ।
मयूरनाथमीशानं प्रणमामि महेश्वरम् ॥ ५२॥
५२. श्रीमयूरेशः
शक्तिहस्तं विरूपाक्षं मणिकुण्डलधारिणम् ।
श्यामलातनयं स्कन्दं मयूरेशं नमाम्यहम् ॥ ५३॥
५३. श्रीमयूरगणपतिः
गणेशं पार्वतीसूनुं मयूरपदपूर्वकम् ।
मलत्रयापहन्तारं चन्द्रचूडामणिं भजे ॥ ५४॥
५४. द्राविडवेदप्रवर्तकाः शिवभक्ताग्रेसराः चत्वारः
वागीश ज्ञानसम्बन्धमणिवाचकसुन्दरान् ।
द्राविडश्रीवेदगान गायकान् संश्रये मुदा ॥ ५५॥
५५. श्रीदक्षिणामूर्तिः
स्फटिकरजतवर्णं मौक्तिकीमक्षमालां
अनलकलशविद्यां ज्ञानमुद्राः कराब्जैः ।
दधतमुरगकक्षं चन्द्रचूडं त्रिणेत्रं
वटतरुसुखवासं दक्षिणामूर्तिमीडे ॥ ५६॥
५६. श्रीपल्लीशः
पल्लीशाय नमस्तुभ्यं परमेशाय ते नमः ।
पल्लीपतनजं दोष निवारय सुखं कुरु ॥ ५७॥
५७. वल्लभागणपतिः
वन्दे महागणपतिं मदनारिसूनुं
वामोरुसुस्थवनिताभुजवेष्टिताङ्गं
वल्लीशपूर्वजमभीष्टदमाश्रितानां
वाणीपतिप्रमुखदेवगणार्चिताङ्घ्रिम् ॥ ५८॥
५८. श्रीजगन्मोहनगणपतिः
गिरिजाहस्तलिखित चित्रभित्तिविभूषणम् ।
जगतां मोहकं देवं वन्दे गणपतिं सदा ॥ ५९॥
५९. श्रीनन्दिकेश्वरः
नन्दिकेश महाभाग शिवध्यानपरायण ।
उमाशङ्करसेवार्थमनुज्ञां दातुमर्हसि ॥ ६०॥
६०. श्रीमूलनाथः
जटातटी जह्रुकुमारिकायाः ताटङ्किता यस्य तरङ्गसङ्घैः ।
तस्मै महिम्नामवसानसीम्ने श्रीमूलनाथाय नमश्शिवाय ॥ ६१॥
६१. श्रीउमा पार्वती
नमामि मेनातनयाममेयां उमाम्बिकामानतनन्ददात्रीम् ।
विशालनेत्रां प्रणमामि गौरीं चतुर्भुजां दक्षिणमूलनाथाम् ॥ ६२॥
६२. श्रीविश्वनाथः
वाचामगोचरमनेकगुणस्वरूपं
गौरीनिरन्तरविभूषितवामभागम् ।
वागीश विष्णुसुरसेवितपादपीठं
वन्दे चिदम्बरपतिं शिवविश्वनाथम् ॥
६३. श्रीएकाम्रेश्वरः
कामाक्ष्या कवितादात्र्या काञ्च्यामाम्रतरोरधः ।
पूजितं चित्पुरे वन्दे एकाम्रेश्वरमुत्तमम् ॥ ६४॥
६४. श्रीकल्पकवृक्षः
कल्पवृक्ष नमस्तुभ्यं देववृक्ष नमोऽस्तु ते ।
त्वदीयमूलनिकटे वाञ्छितं सुलभं भवेत् ॥ ६५॥
६५. श्रीवैद्यनाथः
अनवधिदयापीयूषाम्भोधिसारमयं
निजस्मरणसमयालीढाशेषामयग्रहपीडनम् ।
निटिलनयनज्योतिः स्वाहाकृतासमसायकं
जयतु महितं तेजः श्रीवैद्यनाथसमाह्वयम् ॥ ६६॥
६६. श्री दैवनायकी
नमामि भवसन्तापनिर्वापणसुधानदीम् ।
श्री दैवनायकीं देवीं कान्तां चन्द्रार्धशेखराम् ॥ ६७॥
६७. श्री विनायकः
महागणपतिं वन्दे महाविघ्ननिवारणम् ।
महादेवसुतं देवं महाशैलसुतासुतम् ॥ ६८॥
६८. श्रीत्रिसहस्रमुनीश्वरः
नटराजसमं देवं त्रिसहस्रमुनीश्वरम् ।
नटेशपूजकं वन्दे तिल्लारण्यनिवासिनम् ॥ ६९॥
६९. श्रीअर्धनारीश्वरः
यदर्धाङ्गं नारी विलसति पराकान्तिरुचिरा
पराङ्गं पुंरूपं जयति च जटाजूटरुचिरम् ।
सदा शृङ्गारित्वं वहति वपुषैवं त्रिभुवने
नमस्तस्मै कस्मैचिदखिलविवर्ताय महसे ॥ ७०॥
७०. श्रीसुन्दरविनायकः
वामाङ्कारूढ वामोरुवक्षोजानीतपुष्करम् ।
विघ्नवारणहर्यक्षं विघ्नराजमुपास्महे ॥ ७१॥
७१. श्रीमहालिङ्गं
महालिङ्गं महाभागं महेश्वरमुमापतिम् ।
महासेनगुरुं वन्दे महाभयनिवारणम् ॥ ७२॥
७२. श्रीबृहत्सुन्दरकुचाम्बा
महालिङ्गस्य महिषीं महनीयां दयानिधिम् ।
श्री बृहत्सुन्दरकुचामम्बां वन्देऽखिलेष्टदाम् ॥ ७३॥
७३. श्रीचण्डिकेशः
मूलनाथ-पदाम्भोज परिस्फुरितमानस ।
शम्भोस्सेवाफलं देहि चण्डिकेश नमोऽस्तुते ॥ ७४॥
७४. श्रीअरुणाचलेश्वरः
आधाराचल कैतवादतिचिरं पिण्डीकृतं पावकं
रक्षन्दग्धुमिवाखिलं प्रतिमुहुः कल्पान्तकाले जगत् ।
पायान्नः करुणामृतोर्मिसरलैरालोकनैरानतान्
एणाङ्कार्धशिखायुतः स भगवान् शोणाचलाधीश्वरः ॥ ७५॥
७५. श्रीशास्ता
हरेः श्रीमोहिनीरूपधारिणः श्रीशिवस्य च ।
जातं शास्तारमीशानं वन्दे शक्तिद्वयान्वितम् ॥ ७६।
७६. श्रीदेवसभास्थदेवाः
देवतानां सभा यत्र राजते तत्र संस्थितान् ।
देवान् देवींश्च भक्तांश्च प्रणमामि वरप्रदान् ॥ ७७॥
७७. श्रीकञ्चुकनाथः (शट्टनाथः)
देवो भैरवनामवान् शुनि महादेवाज्ञया यः स्थितः
वृद्धं वामनमेत्य वक्षसि जघानैकेन तं पाणिना ।
उत्कृत्य त्वचमस्य कञ्चुकतया चात्मानमस्मिन् दधौ
तं वन्दे सुखदं चिदम्बरपुरे श्रीशट्टनाथाह्वयम् ॥ ७८॥
७८. श्रीनवग्रहाः
सूर्याय लोकगुरवे धरणीसुताय
शुक्राय शीतरुचये विधुनन्दनाय ।
इन्द्रादिदेवगुरवे शनिराहवे च
केतुग्रहाय शुभदाय नमांसि नित्यम् ॥ ७९॥
७९. श्रीशङ्खध्मविनायकः
कल्पान्तकाले शिशुरूपधारी
शङ्खं समादाय महास्वनेन ।
दध्मौ हि यः काञ्चनसद्मनाथं
शङ्खघ्मविघ्नेश्वरमाद्यमीडे ॥ ८०॥
८०. श्रीअर्धयामसुन्दरः
सुन्दरं शिवरक्षायां तत्परं शिवकिङ्करम् ।
नमामि शिवसेवायाः फललाभाय भास्वरम् ॥ ८१॥
८१. श्रीगरुडः
वैनतेयं च पक्षीन्द्रं विष्णुवाहं महोत्तमम् ।
सर्पारिं गरुडं वन्दे सर्पभीतिनिवारकम् ॥ ८२॥
८२. श्रीशङ्करनारायणौ
वन्दे शङ्खकपाल भूषितकरौ मालास्थिमालाधरौ
देवौ द्वारवतीश्मशाननिलयौ नागारिगोवाहनौ ।
द्वित्र्यक्षौ बलिदक्षयज्ञमथनौ श्रीशैलजावल्लभौ
पापं मे हरतां सदा हरिहरौ श्रीवत्स गङ्गाधरौ ॥ ८३॥
नारायणं हृदि विभाव्य तदीयहार्दा-
काशे शिवं गिरिजया सहितं नटेशम् ।
सञ्चिन्तयेत्सततमेवमुपासनेन
सिद्धिं लभेत नियतां निरुपाधिकां ताम् ॥ ८४॥
८३. श्रीगोविन्दराजसन्निधौ हिरण्यनरसिंहः
स्तम्भेऽस्मिन्नपि सत्यमस्ति स हरिः तर्हीह हन्याममुं
विष्णुं वञ्चितदानवं मम रिपुं धूर्तं महामायिनम् ।
इत्याक्रुश्य रुषा हिरण्यकशिपुं स्तम्भं विभेत्तुं पदा
घ्नन्तं यस्तरसा जघान भगवान् तं श्रीनृसिंहं भजे ॥ ८५॥
८४. श्रीसुदर्शनं
सुदर्शनं महावेगं गोविन्दस्य प्रियायुधम् ।
ज्वलत्पावकसङ्काशं श्रीचक्रं प्रणमाम्यहम् ॥ ८६॥
८५. श्रीपाञ्चजन्यं
क्षीरसागरसञ्जातं विष्णुना विधृतं करे ।
पूजितं सर्वदेवैश्च पाञ्चजन्यं नमाम्यहम् ॥ ८७॥
८६. श्रीवेणुगोपालः
रुक्मिणीसत्यभामाभ्यां संयुतं देवकीसुतम् ।
गीतोपदेशकं वेणुगोपालं नौमि सुन्दरम् ॥ ८८॥
८७. श्रीपतञ्जलिः
अनसूयासुतं देवमादिशेषं पतञ्जलिम् ।
अत्रेस्सूनुं महाभाष्यरचितारमहं भजे ॥ ८९॥
८८. श्रीकण्वः
कण्वं महर्षिप्रवरं काण्वशाखाप्रवर्तकम् ।
शकुन्तलापोषकं तं ज्ञानिनं प्रणमाम्यहम् ॥ ९०॥
८८. श्रीगरुडारूढः
दक्षहस्ते चक्रधरं वामहस्ते च शङ्खकम् ।
दधतं गरुडारूढमूर्तिं विष्णुं भजेऽन्वहम् ॥ ९१॥
९०. श्रीयोगनरसिंहः
प्रह्लादाह्लादकं योगनरसिंहं नतार्थदम् ।
शङ्कराचार्य सुखदमुत्तराभिमुखं भजे ॥ ९२॥
९१. श्रीरामपादद्वयं
रामचन्द्रपदाम्भोजद्वयं संसारतारकम् ।
अहल्यारूपदातारं परमं प्रणमाम्यहम् ॥ ९३॥
९२. श्रीविष्वक्सेनः
यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम् ।
विघ्नं निघ्नन्ति सततं विष्वक्सेनमुपास्महे ॥ ९४॥
९३. श्रीआञ्जनेयः
आञ्जनेयं महाप्राज्ञं रुद्रस्यांशं महाबलम् ।
कपिवर्यं मारुतिं च हनुमन्तं नमाम्यहम् ॥ ९५॥
९४. ॥ श्रीगोविन्दराजः ॥
श्रीमान्क्षीरार्णवान्तः फणिपतिशयने चन्द्रखण्डातिगौरे
भूमानीलासमेतः सकल भुवनसंरक्षणोपायचिन्ताम् ।
निद्राव्याजेन कुर्वन् निरवधिमहिमा नित्यमुक्ताभिवन्द्यः
शेते गोविन्दराजः प्रदिशतु सुतरां सन्ततं मङ्गलं नः ॥ ९६॥
९५. (शठारिः) श्री रामपादुका
रामपादसहधर्मचारिणीं पादुकां निखिलपातकच्छिदम् ।
तामशेषजगतामधीश्वरीं भावयामि भरतादिदेवताम् ॥ ९७॥
९६. श्रीनृत्तविनायकः
मातामहमहाशैलं महस्तदपितामहम् ।
पिण्डीकृतमहाविघ्नं नृत्तविघ्नेश्वरं भजे ॥ ९८॥
९७. श्रीलिङ्गोद्भवः
पार्श्वयोः ब्रह्मविष्णुभ्यां स्रीरूपाभ्यां शिवाज्ञया ।
संसेवितं महेशानं लिङ्गोद्भवमहं भजे ॥ ९९॥
९८. श्रीषडाननमूर्तिः
वन्दे सिन्दूरकान्तिं शरविपिन भवं श्रीमयूराधिरूढं
षड्वक्त्रं देवसेनामधुरिपुतनयावल्लभं द्वादशाक्षम् ।
शक्तिं बाणं कृपाणं ध्वजमपि गदां चाभयं दक्षहस्तैः
चापं वज्रं सरोजं कटकमपि वरं शूलमन्यैर्दधानम् ॥ १००॥
९९. श्रीशयनागारे शिवभोगसुन्दरी
शिवभोगसुन्दरि नमस्ते त्रिणयनवामाङ्कवासिनि नमस्ते ।
शिवकामसुन्दरि नमो नतजनकैवल्यदायिनि नमस्ते ॥ १०१॥
१००. श्रीआकाशलिङ्गं
प्रपन्नजनसन्दोह सर्वकल्याणदायकम् ।
आकाशलिङ्गं वन्देऽहं आधिव्याधिप्रणाशकम् ॥ १०२॥
१०१. श्रीजैमिनिः
व्यासशिष्यं जैमिनिं च कर्मकाण्डप्रवर्तकम् ।
चिदम्बरनटेशानदर्शने तत्परं मुनिम् ॥ १०३॥
१०२. श्री भिक्षाटनः
ब्रह्माण्डस्थित भूतजातहृदयप्रोद्यन्ति कामान्यहो
यः पूर्वं सहसा प्रपूरयति बहुप्रीत्या भवानीपतिः ।
सोऽयं सर्ववसुन्धरापतिरपि स्त्रीभ्यश्च भिक्षाटनः
सञ्जातः कृपयेति वैभवयुतं देवं नमामो वयम् ॥ १०४॥
१०३. क्षेत्रपालः
नीलरुचिवेदकरवह्रिनयनं तं शूलककपालडमरुं च सहपाशम् ।
नग्नशुन वाहनसकिङ्किणि विभूषं प्रोच्चगतिकेशधर सर्पवरहारम् ॥
१०४. व्याघ्रपादः
माध्यन्दिन सुतं शान्तं वसिष्ठभगिनीपतिम् ।
उपमन्योश्च पितरं व्याघ्रपादं नमाम्यहम् ॥ १०६॥
१०५. श्रीदण्डी
नटेश दक्षिणे पार्श्वे स्थितं भक्तवरं शुभम् ।
शिवसेवां प्रकुर्वन्तं दण्डिनं प्रणमाम्यहम् ॥ १०७॥
१०६. श्रीपतञ्जलिः
योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन ।
योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥ १०८॥
१०७. श्रीमुण्डी
नटेशवामपार्श्वे तु संस्थितं मुनिपुङ्गवम् ।
पतञ्जलिसमेतं च मुण्डिनं प्रणमाम्यहम् ॥ १०९॥
१०८. श्रीनन्दिकेश्वरः
नन्दिकेशं महाभागं शिवध्यानपरायणम् ।
अष्टमूर्तेरधिष्ठानं नमामि सुयशापतिम् ॥ ११०॥
१०९. श्रीचित्सभा
वामाद्या नवशक्तयो यदुपरि श्रीस्वर्णकुम्भा नवै-
तस्यां चिन्मयसंसदि प्रतनुते नृत्तं नटेशः सदा ।
तद्वामे नगजा रहस्यमपि तद्दक्षेऽस्ति चैदम्बरं
श्रीव्याघ्राङ्घ्रिपतञ्जली मुनिवरौ तत्पार्श्वयोः संस्थितौ ॥
सभां नवाभां नटराजराजप्रसिद्धनाट्यागमदिव्यरङ्गम् ।
आनन्दनृत्तस्य वितानभूतां श्रीचित्सभां नित्यमहं नमामि ॥
११०. श्रीनटराजराजः
वेदान्तोद्गीतरूपं ज्वलनडमरुकं धारयन्तं कराभ्यां
अन्याभ्यां डोलमुद्रामभयमपि सदाऽपस्मृतौ दक्षपादम् ।
विन्यस्याकुञ्चितेन प्रणमदखिलदं वामपादेन नित्यं
देव्या साकं सभायां रचयति नटनं कुञ्चिताङ्घ्रिं भजेऽहम् ॥
१११. श्री शिवकामसुन्दरी
श्री शिवकामसुन्दरीं तामखिलजगन्मातरं कृपार्द्रहृदम् ।
श्रीचित्सभेशमहिषीं चिदम्बरक्षेत्रवासिनीं वन्दे ॥ ११४॥
११२. श्रीरहस्यं
श्री चक्रादिविशेषयन्त्रघटितं भित्तिस्वरूपं सदा-
नन्दज्ञानमयं नटेशशिवयोः सम्मेलनं बोधयत् ।
श्रीजाम्बूनदबिल्वपत्ररचितैः मालागणैः लक्षितं
कस्तूरीमसृणं चिदम्बरमिदं स्थानं रहस्यं नुमः ॥ ११५॥
लोकातिशायिविभवं महदासेवे चिदम्बररहस्यम् ।
पश्चाक्षरी यदीया जीवातुः सर्वलोकशुभदात्री ॥ ११६॥
शक्तीः समग्राः ग्रसते दिनान्ते यस्मिंश्च गौर्या वलते कपदीम् ।
यस्मात्प्रगे विश्वमुपैति शक्तिं चकास्ति तच्चेतसि मे चकास्तु ॥
११३. श्रीचन्द्रमौलीश्वरः
चन्द्रमौलीश्वरं लिङ्गं चन्द्रामृतघनं सितम् ।
सूर्येन्द्वग्निरुचिं सूक्ष्म गोमुखे स्थापितं भजे ॥ ११८॥
११४. श्रीरत्नसभापतिः
इन्द्रनीलसमानकान्तिसमेधितात्मतनुप्रभं
इन्द्रनीलमणिप्रकाण्डमयात्मदेहविभाकरम् ।
इन्द्रमुख्यदिवौकसादिसमर्चितं श्रुतिमार्गितं
इन्द्रनीलमहार्घरत्नसभापतिं शिवमाश्रये ॥ ११९॥
११५. श्रीमुखलिङ्गं
अभूतपूर्वं प्रथते जगत्यां यल्लिङ्गमासादितदिव्यवक्त्रम् ।
ततः प्रसिद्धं मुखलिङ्गनाम्ना तल्लिङ्गमीशस्य सदा स्मरामि ।
११६. श्रीशिवपादुका
सकलमनुजरक्षादीक्षितं वेदरीत्या
त्रिषवणमतिभक्त्या दीक्षितैरर्च्यमानम् ।
हरिविधिसनकाद्यैः नित्यनिध्यायमानं
शयनगृहयियासुं पादयुग्यं प्रपद्ये ॥ १२१॥
११७. श्रीअस्त्रराजः
विनाऽस्रराजं न शिवस्य यात्रा विनाऽस्रराजं न च मज्जनादि ।
विनाऽस्रराजं न महो भवस्य तमस्रराजं प्रणमामि मूर्ध्ना ॥ १२२॥
११८. श्री स्वर्णकालभैरवः
दक्षे डमरुकं शूलं वामे पाशं कपालकम् ।
हस्ते धरन्तं च शुना सहितं सुमनोहरम् ॥ १२३॥
स्वपादन्यस्तताम्रं च स्वर्णं कृत्वा ददौ पुरा ।
भक्तेभ्य इति तं स्वर्णकालभैरवमाश्रये ॥ १२४॥
स्वर्णकालभैरवं त्रिशूलयुक्तपाणिनं
वेदरूपसारमेयसंयुतं महेश्वरम् ।
समाश्रितेषु सर्वदा समस्तवस्तुदायिनं
मखीन्द्रवंशपूर्वपुण्यरूपिणं समाश्रये ॥ १२५॥
११९. श्रीबलीश्वरः
श्रीबलीश्वरमीशानं फलदातारमव्ययम् ।
उमया सहितं चन्द्रशेखरं समुपास्महे ॥ १२६॥
१२०. श्रीब्रह्मा
पञ्चाननो यः पुरतः प्रकृत्या परं निकृत्तस्वशिराःशिवेन ।
स्वनिःश्रुतीनां वदनानि यस्य ब्रह्माणमम्भोजभवं नमामि ॥ १२७॥
१२१. श्रीचण्डिकेशः
चण्डीश्वरस्स्थाणुसमानतेजा रुद्रेण निक्षिप्तसमस्तभारः ।
यस्य प्रसादात्सफला शिवार्चा तं चण्डिकेशं प्रणमामि चान्ते ॥ १२८॥
१२२. श्री चिन्तामणिविनायकः
तं मन्महे महेशानं महेशानप्रियार्भकम् ।
चिन्तामणिगणेशानं गजाननमनामयम् ॥ १२९॥
१२३. श्री वल्लीशः
एकाननं चन्दनलेपिताङ्गं महाद्भुतं दिव्यमयूरवाहनम् ।
रुद्रस्य सूनुं सुरनाथपुत्रीपतिं च वल्लीशमुपास्महेऽनिशम् ॥ १३०॥
१२४. श्री त्यागराजः
त्यागराजं महेशानं कमलालयवासिनम् ।
नमामि परया भक्त्या मुचुकुन्दवरप्रदम् ॥ १३१॥
महाबलिमुखास्सर्वे शिवाज्ञापरिपालकाः ।
मया निवर्तितास्सन्तो गच्छन्तु शिवसन्निधिम् ॥ १३२॥
यश्शिवो नामरूपाभ्यां या देवी सर्वमङ्गला ।
तयोस्संस्मरणान्नित्यं सर्वतो जयमङ्गलम् ॥ १३३॥
इति श्रीचिदम्बरेश्वर श्रीनटराज देवालयस्थ देवतास्तोत्रं सम्पूर्णम् ।
Proofread by Aruna Narayanan