श्रीमायेश्वरस्तोत्रम्

श्रीमायेश्वरस्तोत्रम्

(शार्दूलविक्रीडितवृत्तम्) ईशा वास्यमिदं जगद्भगवता येनेति वक्ति श्रुतिः सर्वं दृश्यमिदं च तद्विलसितं तस्यांशमात्रे स्थितम् । शक्यं स्वांशविभावनं निरवधौ दृश्यं तथा निर्गुणे मायाजालमिदं च तन्निरसने मायेश्वरः प्रार्थ्यते ॥ १॥ नित्ये सत्यघने समात्रपरमे जायेत दृश्यं कथं ज्ञानेनैव विभाति सत्यमिति चेत्साज्ञानमात्रे कथम् । आनन्दे वितते कथं जगदिदं दुःखास्पदं सम्भवेत् मायाया घटनं च तन्निरसने मायेश्वरः प्रार्थ्यते ॥ २॥ सर्वप्राणिगुहास्वहं स्फुरति यंज्ञात्वा स्वमात्रं परं तस्मिन् सर्वविभासकेऽद्वयशिवे बाहुल्यमित्थं कथम् । क्लेशाः पञ्च च बन्धमोक्ष इति वा तिष्ठेत्कथं स्वप्रभे मायायाश्च विडम्बनं निरसने मायेश्वरः प्रार्थ्यते ॥ ३॥ दृष्टा दृश्यमिदं च तत्स्फुटमपि स्पर्धेत मुह्येत्कथं दृश्यं द्रष्टरि नैव चेत्कथमिदं तद्बाधकं मन्यते । आद्यन्ते वितते स्वमात्रपरमे मध्ये स्वभिन्नं कथं मायायाश्च विमोहनं निरसने मायेश्वरः प्रार्थ्यते ॥ ४॥ नो माया न च मायिकं यदि कुतो जीवेशविश्वभ्रमो ब्रह्मैवास्ति सदैकमेव न भिदा ब्रूते श्रुतिर्नित्यशः । नो भावोऽप्यसतः सतोऽपि च यदाऽभावो न वा विद्यते मायायाः कृतकं च तन्निरसने मायेश्वरः प्रार्थ्यते ॥ ५॥ अप्राणो ह्यमनाश्च यस्तु मनसः श्रुत्या मनः कथ्यते तत्सृष्टिर्मनसश्च तन्निरसनाद्विष्णोः पदं मन्यते । भूम्यस्मिन् सकलं मनः कृतमहो जातं कथं कुत्र वा मायायाः प्रविलोभनं निरसने मायेश्वरः प्रार्थ्यते ॥ ६॥ भीर्नो ब्रह्मणि तद्द्वितीयमिति वा श्रुत्या च निर्दिश्यते तस्मिन् भिन्नमहो भयं कथमिदं प्राप्तं स्थितं वा भवेत् । अज्ञानं कथमद्वये सुखघने ज्ञानात्मके सम्भवेत् मायाया भ्रमणं च तन्निरसने मायेश्वरः प्रार्थ्यते ॥ ७॥ श्रुत्या यद्गदितं च नेति खलु तल्लुप्येत्कथं मायया जातं यन्न तथा विकार इति वा यस्मिन्न किञ्चित् क्वचित् । तस्मिन्नद्वयरूपके कथमयं जीवश्च सङ्गीभवेत् मायायाः कपटं च तन्निरसने मायेश्वरः प्रार्थ्यते ॥ ८॥ जानन्सर्वमिदं बलात्कथमहं मुग्धः समावेष्टितः नित्यात्मस्थितिमद्वयामिह विदि स्याद्विघ्नकृत्किं मयि । सच्चित्सौख्यमिदं स्वरूपममलं मत्वैव चेद्दोषभाक् मायौद्धत्यमहोऽत्र तन्निरसने मायेश्वरः प्रार्थ्यते ॥ ९॥ ब्रह्मैवाहमिदं च सर्वमपि यद्ब्रह्मैव वक्ति श्रुतिः न स्त्री नैव पुमान्न तिर्यगथवा देवो न वा दानवः । नाना नेह तथापि यत्खलु वृथा मिथ्येन्द्रजालादिवत् मायाया नटनं च तन्निरसने मायेश्वरः प्रार्थ्यते ॥ १०॥ यश्चैकः श्रुतिभिर्मुहुर्मुहुरहो संस्तूयमानो महान् माया यस्य दुरत्यया जनमनो व्यामोहकर्त्री भवेत् । मामेवेह यदा प्रपन्न इति चेन्मायां तरेद्योऽवदत् तं मायाविनिवर्तकं सुखघनं नत्वाथ सम्प्रार्थये ॥ ११॥ यश्चात्मा गुरुरीश्वरः सुखघनो विभ्राजतेऽहर्निशं नेतुं भीमभवार्णवान्निजपदं यो वै कृपालुर्महान् । जीवानां भवनाशनात्परतरं स्यात्कर्म नो यस्य वा सर्वज्ञोऽत्र च सर्वशक्तिरपि यः सोस्मान्भवात्तारयेत् ॥ १२॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान् श्रीधरस्वामीमहाराजविरचितं श्रीमायेश्वरस्तोत्रं सम्पूर्णम् । Proofread by Manish Gavkar
% Text title            : Shri Mayeshvara Stotram
% File name             : mAyeshvarastotram.itx
% itxtitle              : mAyeshvarastotram (shrIdharasvAmIvirachitam)
% engtitle              : mAyeshvarastotram
% Category              : deities_misc, shrIdharasvAmI, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Description/comments  : shrIdharasvAmI stotraratnamAlikA
% Indexextra            : (Marathi, Collection 1, 2, Selected
% Latest update         : February 11, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org