उपमन्युकृतं शिवस्तोत्रम्

उपमन्युकृतं शिवस्तोत्रम्

जय शङ्कर पार्वतीपते मृड शम्भो शशिखण्डमण्डन । मदनान्तक भक्तवत्सल प्रियकैलास दयासुधाम्बुधे ॥ १९॥ सदुपायकथास्वपण्डितो हृदये दुःखशरेण खण्डितः । शशिखण्डशिखण्डमण्डनं शरणं यामि शरण्यमीश्वरम् ॥ २०॥ महतः परितः प्रसर्पतः तमसो दर्शनभेदिनो भिदे । दिननाथ इव स्वतेजसा हृदयव्योम्नि मनागुदेहि नः ॥ २१॥ न वयं तव चर्मचक्षुषा पदवीमप्यमित्रीक्षितुं क्षमाः । कृपयाऽभयदेन चक्षुपा सकलेनेश विलोकपाशु माम् ॥ २२॥ त्वदनुस्मृतिरेव पावनी स्तुतियुक्ता नहि वक्तुमीश सा । मधुरं हि पयः स्वभावतो ननु कीदृक्सितशर्करान्वितम् ॥ २३॥ सविषोऽप्यमृतायते भवान् शवमुण्डामरणोऽपि पावनः । भव एव भवान्तकः सतां समदृष्टिर्विषमेक्षणोऽपि सन् ॥ २४॥ अपि शूलधरो निरामयो दृढवैराग्यरतोऽपि रागवान् । अपि भैक्षचरो महेश्वर चरितं चित्रमिदं हि ते प्रभो ॥ २५॥ वितरत्यभिवाञ्छितं नृणां परिपृष्टः किल कल्पपादपः । हृदये स्वत एव धीमते नमतेऽभीष्टफलप्रदो भवान् ॥ २६॥ सहसैव भुजङ्गपाशवान्विनिगृह्णाति न यावदन्तकः । अभयं कुरु तावदाशु मे गतजीवस्य पुनः किमौपघैः ॥ २७॥ सविषैरिव भीमपन्नगैः विषयैरेभिरलं परीक्षितुम् । अमृतैरिव सम्भ्रमेण मामभिपिञ्चाशु दयावलोकनैः ॥ २८॥ मुनयो बहवोऽथ धन्यतां गमिताः स्वाभिमतार्थलाभतः । करुणाकर येन तेन मामवसन्नं ननु पश्य चक्षुपा ॥ २९॥ प्रणमाम्यथ यामि चापरं शरणं कं कृपणाभयप्रदम् । विरहीव विभो प्रियामयं परिपश्यामि भवन्मयं जगत् ॥ ३०॥ बहवो भवताऽनुकम्पिताः किमितीशान न माऽनुकम्पसे । दधता किमु मन्दराचलं परमाणुः कमठेन दुर्धरः ॥ ३१॥ अशुचि यदि मां नु मन्यसे किमिदं मूर्ध्नि कपालदाम ते । अथ शाठ्यमसाधुसङ्गमं विषलक्ष्मासि न कि द्विजिह्वभृत् ॥ ३२॥ विलुठाम्यवनौ किमाकुलः किमुगे हन्मि शिरो भिनद्मि वा । किमु रोदिमि रारटीमि वा कृपणं मां न यदीक्षसे प्रभो ॥ ३३॥ शिव सर्वग शर्व सर्वतः प्रणतो देव दयां कुरुष्व मे । नम ईश्वर नाथ दिक्पते पुनरेवेश नमो नमोस्तु ते ॥ ३४॥ क्व दृशं विदधामि किं करोम्यधितिष्ठामि कथं भयाकुलः । कनु तिष्ठसि रक्ष रक्ष मां मयि शम्भो शरणागतोऽस्मि ते ॥ ३५॥ शरणं तरुणेन्दुशेखरः शरणं मे गिरिराजकन्यका । शरणं पुनरेव तावुभौ शरणं नान्यदुपैमि दैवतः ॥ ३६॥ परलोकभयात्प्रतिक्षणं मे हृदयं मुह्यति मुग्धचन्द्रमौले । सदयं परिगृह्य साधु बन्धो कुरु मां निर्भयमर्भकं त्वदीयम् ॥ ३७॥ हर हर भव भीम भर्ग शम्भो त्रिनयन रुद्र महेश विश्व शम्भो । हर हर दुरितं त्रिशूलपाणे शिव शिव शङ्कर किङ्करस्तवाहम् ॥ ३८॥ यथा मृकण्डोस्तनयं यमारे यथैव पाण्डोस्तनयं मखारे । यथा शिलादस्य सुतं कृपाब्धे तथैत्र मां पाहि पिनाकपाणे ॥ ३९॥ - - सूतः - (फलम्) उपमन्युकृतं स्तोत्रं यः पठेच्शिवसन्निधौ । शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ४०॥ तत्स्तुत्या मोदितः शम्भुः तं प्राह विनयानतम् । देव्याः पश्यन्मुखाम्भोजं गणानां पश्यतां तदा ॥ ४१॥ ॥ इति शिवरहस्यान्तर्गते शिवाख्ये उपमन्युकृतं शिवस्तोत्रं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः १२ । १९-४१॥ - .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 12 . 19-41.. Notes: Upamanyu उपमन्यु eulogizes Śiva शिव who appears to him, after due penance. Proofread by Ruma Dewan
% Text title            : Upamanyukritam Shiva Stotram
% File name             : upamanyukRRitaMshivastotraM.itx
% itxtitle              : shivastotraM (upamanyukRitaM shivarahasyAntargatam)
% engtitle              : upamanyukRitaM shivastotraM
% Category              : shiva, shivarahasya, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shivAkhyaH chaturthAMshaH | adhyAyaH 12 | 19-41||
% Indexextra            : (Scan)
% Latest update         : August 20, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org