वेदैः कृतं शिवस्तोत्रम्
ऋग्वेद उवाच ।
यस्यान्तःस्थानि भूतानि यस्मात्सर्वं प्रवर्त्तते ।
यदाहुस्तत्परं तत्त्वं स देवः स्यान्महेश्वरः ॥ १॥
यजुर्वेद उवाच ।
यो यज्ञैरखिलैरीशो योगेन च समर्च्यते ।
यमाहुरीश्वरं देवं स देवः स्यात्पिनाकधृक् ॥ २॥
सामवेद उवाच ।
येनेदं भ्राम्यते विश्वं यदाकाशान्तरं शिवम् ।
योगिभिर्विद्यते तत्त्वं महादेवः स शङ्करः ॥ ३॥
अथर्ववेद उवाच ।
यं प्रपश्यन्ति देवेशं यतन्तो यतयः परम् ।
महेशं पुरुषं रुद्रं स देवो भगवान् भवः ॥ ४॥
इति कूर्मपुराणे उत्तरभागे एकत्रिंशाध्यायान्तर्गतं
वेदैः कृतं शिवस्तोत्रं समाप्तम् ।
कूर्मपुराणे उत्तरभागे ३१/१३-१६
Proofread by PSA Easwaran